OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 19, 2024

 नैजीरिया राष्ट्रपतिना सह मोदिनः मेलनं सम्पन्नम्। 

अबुजा> त्रिराष्ट्रपर्यटनस्य अंशतया नैजीरियां प्राप्तः भारतप्रधानमन्त्री नरेन्द्रमोदी तद्राष्ट्रस्य राष्ट्रपतिः बोला अहम्मद टिनुबु इत्यनेन सह मेलनं कृतवान्। व्यापारः, निक्षेपः, डिजिटल् क्षेत्रं, आधारसुविधाविकासः इत्यादिषु मण्डलेषु मिथः सहयोगं प्रबलीकर्तुं चर्चा सम्पन्ना। 

  रविवासरस्य प्रत्युषसि राजधानीम् अबुजां प्राप्ताय नरेन्द्रमोदिने मन्त्रिणः नैसोम् एसन्वो इत्यस्य नेतृत्वे उज्वलं स्वीकरणं दत्तम्। नैजीरियाजनतायाः विश्वासस्य आदरस्य च प्रतिरूपेण मोदिने 'अबुजायाः कुञ्चिका' उपहारत्वेन समर्पिता।