२०३६ ओलिम्पिक्स् - आतिथ्याय भारतेन अर्थितम्।
नवदिल्ली> २०३६ तमवर्षस्य ओलिम्पिक्स् महोत्सवाय आतिथ्यं वोढुं सन्नद्धतां विज्ञाप्य अन्ताराष्ट्र ओलिम्पिक्स् समित्याः पुरतः भारतस्य ओलिम्पिक्स् समित्या [ऐ ओ ए] निवेदनं समर्पितम्। आतिथेयत्वे तात्पर्यं प्राकट्य प्रधानमन्त्रिणा केन्द्रकायिकमन्त्रालयेन च प्रस्तुतमपि औद्योगिकरीत्या सर्वकारेण कृतः प्रथमः पदक्षेपो भवतीदं निवेदनम्।
ओक्टोबर् मासे ऐ ओ सि संस्थायाः Future Host Commission इत्यायोगं प्रति निवेदनपत्रं प्रेषितमासीत्। भारतेन सह सौदी अरेब्या, खत्तरः, तुर्की इत्यादिराष्ट्राण्यपि आतिथ्याय उत्साहं प्रकटयन्ति। यदि भारतम् आतिथ्यराष्ट्रं भविष्यति तर्हि अलहबादं केन्द्रीकृत्य स्पर्धाः आयोजयिष्यतीति सूच्यते।