OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 11, 2024

 केरल विद्यालयकायिकक्रीडा - आहत्य अङ्कप्राप्तौ तिरुवनन्तपुरं जनपदः अग्रे। 

'अत्लटिक्स्' स्पर्धासु मलप्पुरं ; विद्यालयेषु ऐडियल् ई एछ् एस् एस् अग्रे। 

   कोच्ची> ओलिम्पिक्स् कायिकोत्सवस्य समानतया आयोज्यमानः एष्याभूखण्डस्य बृहत्तमः कौमारकायिकोत्सवः - केरल विद्यालयकायिक-क्रीडामहोत्सवः - तस्य अन्तिमपादमभिगच्छति। आद्यन्ते अङ्कप्राप्तौ तिरुवनन्तपुरं जनपदः अग्रे स्थित्वा Chief Minister's Trophy इति वीरचषकप्राप्त्यै अर्हः अभवत्। आहत्य १९२६ अङ्काः तेन प्राप्ताः। ८४५ अङ्कैः सह तृश्शूर जनपदः द्वितीयस्थाने तिष्ठति। ७६९ अङ्कान् प्राप्य मलप्पुरं जनपदः तृतीयस्थाने चास्ति। 

  'अत्लटिक्स्' विभागे १९२ अङ्कान्

प्राप्य मलप्पुरं जनपदः अग्रिमस्थाने वर्तते। द्वितीयस्थाने पालक्काट् जनपदः अस्ति - १६९ अङ्कैः। 

   विद्यालयानां गणे वीरविद्यालय‌ः प्राप्तुं स्पर्धायां मलप्पुरं जनपदस्थः ऐडियल् ई एछ् एस् एस् कटकश्शेरी इति विद्यालयः ६६ अङ्कैः  अग्रे अस्ति। द्वितीयस्थाने ३८ अङ्कान् प्राप्य  एरणाकुलं जनपदस्थः मार् बेसिल् कोतमङ्गलं विद्यालयः वर्तते।