OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 8, 2024

 कपोलसङ्कोचः - सुनितायाः स्वास्थ्यविषये आशङ्का। 

बहिराकाशनिलये पाकं कुर्वन्तौ सुनीता विल्मोरः च। तत्र सुनितायाः आकारमेव आशङ्कानिदानम्। 

> स्टार् लैनर् इति बहिराकाशपेटकस्य साङ्केतिकदोषः अभवत् इत्यस्मात् अन्ताराष्ट्र बहिराकाशनिलयम् अधिवसन्तौ सुनिता विल्यंसः, बुच् विल्मोरः इत्येतयोः स्वास्थ्यविषये वैद्यैः आशङ्का प्रकटिता। अद्यत्वे बहिरागतेषु तयोः छायाचित्रेषु सुनितायाः कपोलद्वयं अत्यधिकं सङ्कोचेन दृश्यते इति आशङ्कायाः निदानम्।

      दीर्घकालीनस्य बहिराकाशवासस्य फलमेतदिति सूच्यते। अवश्यानुसारम् ऊर्जं [Calorie] न लभते इति स्यात् कारणमिति वैद्येषु अन्यतमेन डा विनय गुप्तेन सूचितम्। किन्तु आशङ्का आधाररहिता इति नासया प्रस्तुतम्। 

  केवलम् अष्ट दिनानां  बहिराकाशनिलयवासं कल्पितौ तौ अद्यावधि १५३ दिनानि तत्र यापितानि। द्वावपि २०२५ फेब्रुवरि मासात्परं प्रयागमिष्यतः इति प्रतीक्षते।