भारतस्य 'हैपर्सोणिक्' आग्नेयास्त्रविक्षेपः विजयीभूतः। भारतस्य हैपर्सोणिक् मिसैल् शस्त्रस्य विक्षेपवेलायाम्।
नवदिल्ली> भारतेन स्वदेशीयतया विकसितस्य शब्दातिशीघ्र आग्नेयास्त्रस्य परीक्षणविक्षेपणं विजयकरमभवत्। ओडीशातीरसमीपे डो ए पि जे अब्दुल् कलामद्वीपात् शनिवासरे आसीत् विक्षेपः। अमुं विजयं 'विस्मयजनकं' 'चरित्रनिमेषः' इति च रक्षामन्त्री राजनाथसिंहः प्राशंसत।
शब्दात् पञ्चगुणितवेगयुक्तमिदम् मिसैल् शस्त्रं १५०० अधिककिलोमीटर् दूरगामी आणवायुधमभिव्याप्य परम्परागतायुधान्यपि वोढुं शक्तमस्ति।
हैदराबादस्थं डो ए पि जे अब्दुल् कलां मिसैल् कोम्प्लक्स् तथा डि आर् डि ओ संस्थायाः विविधकेन्द्राणि च मिलित्वा अस्ति एतत् 'दीर्घदूर हैपर् सोणिक् मिसैल् शस्त्रं' भारतेन साक्षात्कृतम्।