OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 10, 2024

 वार्तामुक्तकानि। 

आलुवा नदीतीरे छत पूजा सम्पन्ना।

कोच्ची> केरले आलुवा महाशिवरात्रिसैकते उत्तरभारते प्रचाल्यमाना छत्त् पूजा समायोजिता। सूर्यदेवाय सोदर्यै छत्तिमायायै च दीपावल्यनन्तरं षष्ठदिवसतः दिनचतुष्टयमेव पूजाकालः। 

  परिवारस्य योगक्षेमाय महिलाभिः उपवासव्रतमनुष्ठीय सूर्यदेवमाराधयन्ति। शतशः उत्तरभारतीयस्त्रियः अस्यामाराधनायां भागं गृहीतवत्यः। बिहारं, झार्खण्डः, छत्तीसगढ़्, ओडीशा, यू पि, पश्चिमवंगः इत्यादिषु राज्येषु एव तत्त्व पूजा समायोज्यते। 

छत्तीसगढे त्रयः मावोवादिनः हताः। 

बिजापुर्> छत्तीसगढे बिजापुरे सुरक्षासेनया सह आपन्ने प्रतिद्वन्द्वे त्रयः मावोवादिनः हताः। एतेभ्यः आयुधानि च गृहीतानि। अद्यावधि १९२ मावोवादिनः सुरक्षासेनया हताः। 

छात्राणां विसापत्रं कानडया त्यक्तम्। 

ओट्टावा> भारतमभिव्याप्य १४ राष्ट्राणां छात्रेभ्यः उपकारकं अतिशीघ्रं 'विसा'पत्रसंविधानं एस् डि एस् नामकं कानडाराष्ट्रेण स्थगितम्। अधिन्वेशकारणेन राष्ट्रे आविर्भूतं भवन-विभवप्रतिसन्धिमालक्ष्य एवं निर्णयः। एतत्तु कानडायाम् उपरिशिक्षायै सज्जमानानां भारतीयछात्राणां विपरीताय भविष्यति।