OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 5, 2024

 कानडायां हैन्दवमन्दिरं प्रति खालिस्थानवादिनाम् आक्रमणम्। 

कानडप्रशासनं विरुद्ध्य भारतस्य तीव्रः प्रतिषेधः। 

नवदिल्ली> कानडाराष्ट्रे ब्रांस्टण् इत्यत्र हिन्दुसभायाः मन्दिरं प्रति खालिस्थानवादिनाम् आक्रमणं जातम्। खालिस्थानपताकाः धारयन्तः प्रक्षोभकारिणः मन्दिरं प्राप्तवतः  जनान् दण्डानुपयुज्य ताडनं कृतस्य दृश्यानि बहिरागतानि। भारतनयतन्त्रकार्यालयेन मन्दिरे आयोज्यमानः कार्यक्रमः स्थगितः आसीत्। 

    भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अक्रमममुम् 'एक्स्' द्वारा  कठिनस्वरेण व्यमर्शयत्। भारतस्य निश्चयदार्ढ्यं दुर्बलीकर्तुं क्रियमाणाः एतादृशघटनाः विफलीकरिष्यन्ते इति तेन निगदितम्।