OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 4, 2024

 उत्तराखण्डे बस् यानं गर्ते  पतितं ,  २८ यात्रिकाः मृताः।

    उत्तराखण्डराज्ये अल्मोडा जनपदस्य मर्चुला प्रदेशे बस् यानं  अगाधे गर्ते पतित्वा २८ जनाः मृताः इति ज्ञायते। अनेकाः अपि अपघातेन आहताः सन्ति। अस्मिन् प्रदेशे अद्यापि रक्षणकार्यं प्रवर्तमानमस्ति। बस् यानं द्विशतमीट्रर् मिते अगाधे पतित्वा  सम्पूर्णतया  भग्नमभवत्। तस्मिन् काले बस्याने चत्वारिंशत् यात्रिकाः आसन् इति वार्ता लब्धा। पौडी गढ्वालतः कुमौणप्रदेशस्थे रामनगरं प्रति गच्छत् आसीत्।