OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 16, 2024

 वार्तामुक्तकानि।

अदृष्टाः नाधिगताः - मणिप्पुरे प्रतिषेधाग्निः। 

चुराचान्दपुरं> सुरक्षासेनया सह प्रतिद्वन्द्वे हतानां नीतिर्लभ्यः इत्याहूय मणिप्पुरे चुराचान्दपुरं, काङ्पोक् पि, मोरे जनपदेषु कुक्किसंघटनेन प्रतिषेधसञ्चलनं विधत्तम्। प्रतिद्वन्द्वावसरे अप्रत्यक्षाः त्रयः महिलाः बालकाश्च इतःपर्यन्तं नाधिगताः। एते  अपहृताः इति आरोप्यते। जिरिबामजनपदे सोमवासरे प्रवृत्ते भुषुण्डिप्रयोगे १० जनाः मृताः आसन्।

गुजराते ७०० किलोमितानि उन्मादकवस्तूनि गृहीतानि। 

नवदिल्ली> गुजराते सागरतीरे उन्मादकनियन्त्रणविभागः, भीकरविरुद्धसंघः इत्येतयोः युगपदन्वेषणेन ७०० किलोमितानि 'मेत्तांफेटामैन्' इति उन्मादकवस्तूनि गृहीतानि। इरीनायाः इति कथ्यमानाः अष्ट जनाः निगृहीताः। 'सागर मन्तन् -४' इतिकृतनामधेये क्रियाकलापे आसीदन्वेषणम्। अन्ताराष्ट्रियविपण्यां किलोमिताय कोटिद्वयरूप्यकाणां मूल्ययुक्तमस्ति निगृहीतं उन्मादकमिति अधिकारिभिः निगदितम्। 

श्रीलङ्कायां संसदि दिसनायकपक्षस्य विजयः।

कोलम्बो> गुरुवासरे सम्पन्ने संसद् निर्वाचने राष्ट्रपतेः अनुर कुमार दिसनायकस्य एन् पि पि सख्यस्य महान् विजयः। २२५ अङ्गयुक्तायां संसदि १५९ स्थानानि एन् पि पि सख्येन प्राप्तानि। अन्तिमफलं न लब्धम्। 

केन्नडि जूनियर् यू एसे स्वास्थ्यमन्त्री। 

वाषिङ्टणः> वाक्सिनविरुद्धः इति ख्यातः रोबर्ट एफ् केन्नडि जूनियर् इत्यमुं अमेरिकायाः आगामि स्वास्थ्यकार्यदर्शिरूपेण नियुक्तराष्ट्रपतिना  डोनाल्ड ट्रम्पेन नियुक्तः। एषः भूतपूर्वराष्ट्रपतेः जोण् एफ् केन्नडेः सोदरः भूतपूर्व‌ः अटोर्णी जनरल् पदीयः रोबर्ट एफ् केन्नडि इत्यस्य पुत्रो भवति।