OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 12, 2024

 पर्यावरण उच्चशिखरसम्मेलनम् अजर्बैजाने समारब्धम्।

बाकु> पर्यावरणपरिवर्तनेन सङ्कटमनुभूयमानां पृथिवीं संरक्षितुं प्रयत्नानलक्ष्य २९ तमं पर्यावरणशिखरसम्मेलनम् असर्बैजानस्थे बाकुनगरे समारब्धम्। द्विसप्ताहं यावदनुवर्तमानं मेलनं २२ तमे दिनाङ्के समाप्स्यते। दरिद्रराष्ट्राणां कृते दीयमानस्य पर्यावरणार्थिकनिधेः विषये निर्णयः अस्ति मुख्योद्देश्यम्। 

  दरिद्रराष्ट्राणां शुद्धोर्जोपयोगक्षमतायाः प्रोत्साहः, फोसिल् इन्धनानाम् उपयोगस्य न्यूनीकरणम् इत्यादिलक्ष्यानि सफलीकर्तुं १०,००० कोटि डोलर् मितस्य आर्थिकसमाहरणं शिखरसम्मेलनेन लक्ष्यीक्रियते।