भारतीयगणिते साप्ताहिकी राष्ट्रियसङ्गोष्ठी समारब्धा। CSU कुलपतिः प्रोफ. जुनैद भूसुरिः उद्घाटन करोति।
इरिङ्ङालक्कुटा> गणितशास्त्रे भारतीयसिद्धान्तमधिकृत्य सप्तदिवसात्मिका राष्ट्रियसङ्गोष्ठी तृश्शूरजनपदस्थे पावरट्टिस्थाने ए टि कुरियाकोस् स्मृतिभवने समारब्धा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य [CSU] गुरुवायूर् परिसरस्य अधीशत्वे पावरट्टि ए टि कुरियाकोस् स्मृतिभवनस्य, इरिङ्ङालक्कुटस्थाने वर्तमानस्य माधवगणितकेन्द्रस्य च संयुक्त सहयोगेन नवम्बर् ११ तमदिनाङ्कतः १७तमदिनाङ्कपर्यन्तं सङ्गोष्ठी प्रचलति।
भारतीयगणितशास्त्रस्य आधारतत्वानाम् आशयानां च परिचायनं, भारतीयगणितशास्त्रज्ञानां योगदानं, विश्ववैज्ञानिकक्षेत्रे भारतीयपारम्पर्यमित्यादीनि अस्य कार्यक्रमस्य मुख्योद्देश्यानि भवन्ति।
११ तमे दिने सम्पन्ने कार्यक्रमे कोच्ची शास्त्रसाङ्केतिक विश्वविद्यालय [CUSAT] कुलपतिः प्रोफेसर एम् जुनैद् भूसुरिः सङ्गोष्ठीपरम्परायाः उद्घाटनमकरोत्। CSU गुरुवायूर् परिसरस्य निदेशकः प्रोफेसर के के षैन् वर्यः अध्यक्षपदमलङ्कृतवान्। माधवगणितकेन्द्रस्य निदेशकः ए विनोदः, पावरट्टि केन्द्रस्य निदेशकार्यवाहः प्रोफेसर के विश्वनाथः इत्यादयः आशंसां समर्पितवन्तः।