OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 8, 2024

    तालिबानेन सह भारतस्य नयतन्त्रचर्चा सम्पन्ना।

नवदिल्ली> २०२१ तमे वर्षे अफ्गानस्य प्रशासनं स्वीकृतवता तालिबानेन सह इदंप्रथमतया भारतं नयतन्त्रचर्चामकरोत्। तालिबानस्य प्रवर्तमानः रक्षामन्त्री मुल्ला मुहम्मद याकूबः इत्यनेन सह भारतस्य नयतन्त्राधिकारिणः काबूले मेलनमकुर्वन्। 

  किन्तु तालिबानप्रशासनं अद्यावधि भारतेन नाङ्गीकृतम्। प्रत्युत, अफ्गानजनतां प्रति भारतस्य दीर्घकालीयबन्धमेव एतस्य मार्गदर्शकमिति विदेशकार्यवक्त्रा उक्तम्।