OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 9, 2024

 शबरिगिर्यां दाहजलसहिताः सुविधाः सज्जीकरिष्यन्ति। 


पत्तनंतिट्टा> अस्य वर्षस्य शबरिगिरितीर्थाटलकाले भक्तानां क्षेमार्थं दाहमपनेतुम् उष्णजलदानसहिताः सुविधाः सज्जीकर्तुं देवस्वं बोर्ड् संस्थया निर्णीतम्। 

   तीर्थाटकानां कृते नालिकया 'कियोस्क्' उपकरणेन च उष्णजलं पानाय प्रदास्यति। बिस्कट् रूपेण लघुभोज्यमपि दास्यति। २००० स्टील् निर्मितकूपिषु  शुण्ठीजलं गिर्यारोहणसमये भक्तेभ्यः  प्रदास्यति। प्रत्यागमने कूप्यः प्रतिदातव्याः। 

  पम्पायां महिलेभ्यः विशिष्य  विश्रान्तिकेन्द्राणि भविष्यन्ति। निलक्कल् स्थाने १०४५ शौचालयाः सज्जीकृताः। निलक्कल्, सन्निधानं,पम्पा स्थानेषु    १६,००० भक्तानां कृते एककाले  आस्तरणाय सुविधा कृता।