OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 17, 2024

 वार्तामुक्तकानि।

केरलविद्यालयशास्त्रोत्सवः - मलप्पुरं अग्रे। 

आलप्पुष़ा>  केरले राज्यस्तरीयशास्त्रोत्सवे नवंनवाशयानां  कौमारप्रतिभाविलासः। शास्त्र-सामूहिकशास्त्रमण्डले नूतनानामाशयानामवतरणं जनान् हठादाकर्षन्ति। तत्समयनिर्माणप्रवर्तनेष्वपि छात्राः स्वकीयप्रतिभां प्रकटयन्ति।

 द्वितीये दिने मलप्पुरं जनपदं प्राप्त्यङकावल्याम् अग्रे वर्तते। द्वितीयस्थाने तृश्शूर्, तृतीये कण्णूर च।  

प्रधानमन्त्रिणः विदेशसन्दर्शनम् आरब्धम्। 

नवदिल्ली> नैजीरिया, ब्रसील्, गयाना इत्येतेषु  राष्ट्रेषु औद्योगिकसन्दर्शनाय प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे प्रस्थितः। नैजीरिया, गयाना राष्ट्रे प्रति मोदिनः प्रथमयात्रा भवत्येतत्। ब्रसीले १९ तमे जि उच्चशिखरसम्मेलने अपि प्रधानमन्त्री भागं करिष्यति। 

१४४० पुरावस्तूनि यू एस् भारताय प्रतिददाति। 

न्यूयोर्क्> भारतात् तस्करैः नीतानि एककोटिडोलर् मूल्ययुतानि १४४० पुरावस्तूनि  यू एस् राष्ट्रेण प्रत्यानीयन्ते। मध्यप्रदेशस्थमन्दिरात् अपहृतं देवविग्रहं, राजस्थानीयग्रामेभ्यः चौरीकृतानि शिल्पानि च एतेषु अन्तर्भवन्ति।