OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 5, 2024

 अमेरिकायां राष्ट्रपतिनिर्वाचनम् अद्य। 

डोणाल्ड् ट्रम्पः कमला हारिसश्च मुख्यप्रतियोगिनौ। 

वाषिङ्टणः> अमेरिकायाः ४७ तमं राष्ट्रपतिं निर्वाचितुं जनाः अद्य मतदानकेन्द्रं प्राप्स्यन्ति। वर्तमानीना उपराष्ट्रपतिः डेमोक्राटिक् पार्टी इति राजनैतिकदलस्य च स्थानाशिनी कमलाहारिसः, भूतपूर्वराष्ट्रपतिः रिप्पब्लिकन् पार्टी इत्यस्य स्थानाशी च डोणाल्ड् ट्रम्पः मुख्यप्रतियोगिनौ वर्तेते। 

   आहत्य १७ कोटि मतदायकाः सन्ति। तेषु ७. ५ कोटिमतदायकाः एतदाभ्यन्तरे तेषामभिमतं विनियुक्तवन्तः। 'इलक्टरल् कोलेज्' इत्याहूमानं जनप्रतिनिधिसभाङ्गाः एव दिनद्वयात्मकनिर्वाचनप्रक्रियायां जनैः चिन्वमानाः भविष्यन्ति। राष्ट्रपतेः परोक्षनिर्वाचनमेव जनैः क्रियते। 'इलक्टरल् कोलेज्' अङ्गाः राष्ट्रपतिं निर्णेतुं मतदानं करिष्यन्ति। ५३८ जनप्रतिनिधयः भविष्यन्ति। तेषां मतेषु २७० मतानि येन  उपलप्स्यन्ते  सः राष्ट्रपतिः भविष्यति। 

  २०२५ जनवरि षष्ठदिनाङ्के एव औद्योगिकं फलप्रख्यपनं करिष्यति। किन्तु मतदानप्रक्रियायाः अन्ते 'एक्सिट् पोल्' द्वारा आगामी राष्ट्रपतिः क इति ज्ञातुं शक्यते।