यमनतीरे लग्नाः उल्लासनौकास्थाः सर्वे भारतीयाः सुरक्षिताः।
दुबाय्> यमने समुद्रतीरसमीपे लग्नायाम् उल्लासनौकायां वर्तमानाः १४ भारतीययात्रिकाः अपि सुरक्षिताः इति भारतीयस्थानपतिकार्यालयेन निगदितम्। एते इदानीं यमने होदैदाप्रदेशे वर्तन्ते, तेषां क्षेमाय प्रवर्तनानि आयोज्यन्ते इति च कार्यालयेन स्पष्टीकृतम्।
रक्तसमुद्रे यूखार् द्वीपसमीपे सौदीसेनया भारतस्य उल्लासनौका आक्रान्ता इति हूतिवक्त्रा आरोपितमासीत्। नौकास्थाः १४ भारतीयाः अस्माभिरेव रक्षिताः इति ते अभिमानितवन्तः च। किन्तु घटनापृष्ठतः वर्तमानं वास्तविकं किमिति स्पष्टीकरणीयमिति कार्यालयेन निगदितम्।