केरले वृष्टिः तीव्रायते।
अद्य त्रिषु जनपदेषु रक्तजागरूकता; अनध्ययनम्।
अनन्तपुरी> केरलराज्ये अनुवर्तमाना वृष्टिः तीव्रायते इति केन्द्र ऋतु विज्ञीनीय विभागेन निगदितम्। कोष़िक्कोट्, वयनाट्, मलप्पुरं जनपदेषु रविवासरे रक्तजागरूकता उद्घोषिता। एषु जनपदेषु 'मद्रसा', निजीयशिक्षास्थानानि अभिव्याप्य अनध्ययनं विज्ञापितम्।
पत्तनंतिट्टा, कोट्टयं, कण्णूर्, पालक्काट्, एरणाकुलं तृश्शूर् जनपदेषु ओरञ्जजागरूकता घोषिता। इतरेषु पीतजागरूकता अस्ति।