OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 26, 2026

 अपक्ववयस्केन चालितस्य कार् यानस्य घट्टनेन कुटुम्बनाथः मृतः।

दुर्घटनां कृतं कार् यानं।

कोच्ची> १७ वयस्केन न्यायाधिपुत्रेण चालितस्य  आडम्बरकार् यानस्य घट्टनेन द्विचक्रिकायात्रिकः कुटुम्बनाथः मृतः। एरणाकुलं जनपदे परवूर् निवासी जयबालकृष्णः [५५] एव हतभाग्यः। अपराधारोपिताय १७ वयस्काय मतिपुरःसररहितेन नरहत्यापराधं प्रकल्य प्रातिभाव्यं दत्तमपि प्रतिषेधे शक्ते आरक्षकैः  नरहत्यापराधः स्थापितः।

मृतः जयबालकृष्णः।

  एरणाकुलं चेरानल्लूर् 'कण्टयिनर् मार्गे' रविवासरे प्रत्युषसि द्विवादने आसीत् दुर्घटना। नगरप्रान्ते चिटूर् इत्यत्र चायापणिकः अस्ति हतभाग्यः जयबालकृष्णः। आपणं पिधाय स्वगृहं प्रत्यागच्छन्नासीत्। कार् यानस्य स्वामी कश्चन अतिरिक्तन्यायाधीशः  (Additional Judge) अस्ति। तस्य १५ वयस्कः पुत्रः एकेन कार् यानं चालितवानासीत्। रक्षितारः अज्ञात्वा गुप्तेन यानचालनाय प्रस्थितवान्। 

 यानचालनाय अनुज्ञापत्राय [License] पर्याप्तं वयः येषां नास्ति तादृशाः यानचालनेन दुर्घटनाः जनयति इति विषयः आशङ्कां जनयति।