OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 24, 2026

 पैतृकसंरक्षणमालक्ष्य भारताय कर्म कर्तव्यम् - मधु एस् नायर्। 

कल्पुष़ा दिवाकरन् नम्पूतिरि जयन्तिसम्मेलनं सम्पन्नम्।

आचार्यस्मृतिमेलनं मधु एस् नायर् उद्घाटयति।

आलुवा> आलुवा तन्त्रविद्यापीठस्य स्थापकाचार्यः तन्त्रशास्त्रविशारदः तन्त्रशास्त्रबृहस्पतिः स्वर्गीयः ब्रह्मश्री कल्पुष़ा दिवाकरन् नम्पूतिरिप्पाट्  इत्यस्य ११३तमं जन्मदिनं विविधैः कार्यक्रमैः समामानितम्। आचार्यस्मृतिसम्मेलनस्य उद्घाटनं  कोच्चि महानौकाश्रयस्य (Cochin Ship Yard) भूतपूर्वः प्रबन्धनिदेशकः [Managing Director] एवम् अध्यक्षश्च मधु एस् नायर् कृतवान्। 

  विवेकानन्दस्वामिनः सूक्तैः भारतीयपैतृकं संस्मारितवान् मधुवर्यः अस्माकं पैतृकसंरक्षणं मुख्यतया लक्ष्यीकृत्य राष्ट्रसेवानिर्भरं कर्म कर्तव्यमिति सदस्यान् उद्बोधयामास। "स्वधर्मं निधनं श्रेयः" इत्यार्षवचनस्य माहात्म्यं वृत्तिमण्डले संस्थापयितव्यमिति सः उद्बोधितवान्। 

  मार्गदर्शक मण्डलस्य राज्यस्तरीयकार्यदर्शिप्रमुखः सत्स्वरूपानन्द सरस्वति स्वामिनः अनुग्रहभाषणमकरोत्। अन्त्यजाग्रजभेदभावनां विना समाजहिताय तन्त्रशास्त्रम् अध्येतव्यमिति सः अवोचत्। ब्राह्मण्यं कर्मणैव प्राप्तव्यमिति 'जन्मना जायते शूद्रः' इति सूक्तं व्याख्याय स्वामी उद्बोधयामास।

 तन्त्रविद्यापीठस्य उपप्राचार्यः एवं कल्पुष़ा आचार्यस्य वत्सलशिष्यः च ब्रह्मश्री चेङ्ङोत्त् श्रीनिवासन् पोट्टी आचार्यम् अनुस्मृतवान्। यतिसमानजीवनं नीतवान् कर्मयोगी आसीत् कल्पुष़ा दिवाकरन् नम्पूतिरिप्पाट् महाशयः इति तस्य जीवनरीतिं प्रस्तूय श्रीनिवासवर्यः उक्तवान्। 

  शबरिगिरि धर्मशास्तृमन्दिरस्य तथा मालिकप्पुरं मन्दिरस्य च नियुक्तमुख्यार्चकयोः सान्निध्यमपि जयन्तिदिनस्य शोभां प्रावर्धत। तन्त्रविद्यापीठस्य मुख्यरक्षाधिकारिणः प्रोफ पि एम् गोपिवर्यस्य आध्यक्षे  आयोजिते सम्मेलने विद्यापीठस्य कार्यदर्शी एम् पि सुब्रह्मण्य शर्मा स्वागतभाषणं, क्रियाध्यक्षः एन् बालमुरलिः कृतज्ञतावचनं चाकरोत्।

 Latest news Latest news