OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 25, 2026

 तन्त्रविद्यापीठे आचार्यपुरस्काराः समर्पिताः।

सि जि विजयकुमारः संस्कृतपुरस्कारेण सम्मानितः।

तन्त्ररत्नबिरुदानि प्रदत्तानि।

डो सि जि विजयकुमारः संस्कृतपुरस्कारं स्वीकरोति।

आलुवा> तन्त्रविद्यापीठस्य अस्य संवत्सरस्य आचार्यपुरस्काराः प्रौढे कार्यक्रमे समर्पिताः। 'मार्गदर्शकमण्डलं' सभायाः राज्यस्तरीयसचिवमुख्यः सत्स्वरूपानन्द सरस्वति स्वामिनः पुरस्कृतान् विशिष्टान् आदृतवन्तः। 'कोचिन् षिप् यार्ड्' संस्थायाः भूतपूर्वाध्यक्षः मधु एस् नायर् एकैकस्य कृते प्रशंसापत्रं पुरस्कारफलकं च समार्पयत्।

 तन्त्रशास्त्रमण्डले दीयमानः तान्त्रिकाचार्यः ब्रह्मश्री 'कल्पुष़ा दिवाकरन् नम्पूतिरि' स्मारक आचार्यपुरस्काराय ब्रह्मश्री पुटयूर् पाण्डुरङ्गन् नम्पूतिरि महाभागः अर्हः अभवत्।

ब्रह्मश्री वेष़प्परम्प परमेश्वरन् नम्पूतिरि महाभागस्य नाम्नि वैदिक संस्कृतिक्षेत्रे दीयमानः आचार्यपुरस्कारः कोम्पङ्कुलं विष्णु अक्कित्तिरिप्पाट्' वर्याय समार्पयत्। कालटी श्रीशंकराचार्य संस्कृतविश्वविद्यालयस्य पय्यन्नूर् प्रादेशिककेन्द्रे व्याकरणविभाध्यक्षः भवति विष्णु वर्यः। 

  संस्कृत भाषाप्रचारणाय दीयमानं ब्रह्मश्री के पि सि नारायणन् भट्टतिरिप्पाट् स्मारकाचार्यपुरस्कारं संस्कृतपण्डितः डो सि जि विजयकुमारः स्वीकृतवान्।  उज्जयिनीस्थ महर्षि पाणिनि संस्कृत विश्वविद्यालयस्य भूतपूर्वः कुलपतिः अस्ति विजयकुमारवर्यः। दशाब्दैः संस्कृतभाषायाः प्रचारणाय (मुख्यतया संस्कृतभारतीद्वारा) अकादमिकाभिवृद्धये च दत्तं सुदीर्घां सेवां पुरस्कृत्य अस्ति तस्मै पुरस्कारः। 

 २०२५ तमे वर्षे अध्ययनं   पूर्णतामेत्य उत्तीर्णेभ्यः पञ्चभ्यः युवकाचार्येभ्यः तन्त्ररत्नं, वेदविभूषणं, आचार्य [संस्कृत साहित्यं] इत्येतानि बिरुदानि च प्रदत्तानि।