केरलम्।
राज्यस्तरीय विद्यालयकायिकोत्सवः २५ दिनाङ्कतः।
कुट्टुः
कोष़िक्कोट्> केरलराज्यस्य ६८ तमः विद्यालयीयकायिकोत्सवः ओक्टोबर् २५ तमदिनाङ्कादारभ्य ३१ दिनाङ्कपर्यन्तं कोष़िक्कोट् जनपदे सम्पत्स्यति। १ संवत्सरेभ्यः परमेव कोष़िक्कोट् जनपदस्य आतिथेयत्वम्।
एन् ऐ टि संस्थायाः क्रीडाङ्कणं मुख्यवेदी भविष्यति। जनपदे विभिन्नस्थानेषु दश वेदिकाः कायिकोत्सवाय चिताः सन्ति।
२४ तमे सायं चतुर्वादने मुख्यमन्त्री वी डी सतीशः कायिकमेलायाः उद्घाटनं करिष्यति। ओलिम्प्यन् पी टी उषा दीपशिखाप्रोज्वलनं करिष्यति। १४ जनपदेभ्यः कायिकताराणि, परिशीलकाः, उद्योगस्थाश्च १५,००० जनाः भागं करिष्यन्ति। 'कुट्टु' नामकः कलभ अस्ति भाग्यचिह्नम्।