नवदिल्ली देववाणी परिषदा कवि विंध्येश्वरीप्रसादमिश्रः समादृतः
वार्ताहरः - देशराज शर्मा-
साहित्याकादमी-पुरस्कारसम्मानितस्य (२०२१) संस्कृतकवेः डा. विंध्येश्वरीप्रसादमिश्र "विनय" -महाभागस्याभिनन्दनं "देववाणी परिषद्, दिल्ली" -पक्षतो नवदिल्ल्यां वाणीविहारे रमालये ११.३.२०२१ तमे दिनाङ्के अक्रियत। आचार्यमिश्रेण "सृजति शङ्खनादं किल कविता" इत्यस्मात् पुरस्कृतात् काव्यसङ्ग्रहात्कविता अपि श्राविता:।पंडित: सत्यनारायणपांडेय: मङ्गलाचरणमकरोत्। वरद:, रम्या, शुभांगी (सुरुचि:) शिवांगी च श्लोकान् अश्रावयन्। परिषदुपाध्यक्ष: प्रोफेसरसुधीकान्तभारद्वाजोऽ