OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 14, 2025

 गणेशमूर्तिघोषयात्रां प्रति 'ट्रक् यानं' संघट्य नव मरणानि। 

दुर्घटनादृश्यम्। 

हासन्> कर्णाटके गणेशमूर्ति निमज्जन घोषयात्रां प्रति अमितशीघ्रेण आगतं ट्रक् यानं संघट्य नव जनाः मृताः। विंशत्यधिके कठिनतया व्रणिताः। 

  गतरात्रौ होले नरसिंहपुरमित्यत्र होसहल्लीस्थाने आसीदियं दुर्घटना। व्रणिताः हासने विविधान् आतुरालयान् प्रवेशिताः। ट्रक् यानस्य अमितशीघ्रता एव दुरन्तकारणमिति सूच्यते। दुर्घटनानन्तरं चालकः पलायितवान्।

प्रगत्यर्थं शान्तिरावश्यकी मणिपूरस्य सौन्दर्यं हिंसया दूषितम्। - नरेन्द्रमोदी

   प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् कस्यापि क्षेत्रस्य समुन्नत्यै शान्तिपूर्णं वातावरणम् अत्यावश्यकं वर्तते। तेनोदितं यद् विगतकाले मणिपूरराज्ये प्रवृत्ता हिंसाचाराः राष्ट्रस्य कृते महतीं चिन्ताम् अजनयन्। एभिः सङ्घर्षैः न केवलं जनजीवनम् अस्तव्यस्तम् अभवत् अपितु तस्य प्रदेशस्य नैसर्गिकं सांस्कृतिकं च वैभवं कलङ्कितं जातम्। अतः शान्तेः पुनःस्थापनाय सर्वे नागरिकाः समेत्य प्रयतेरन्निति प्रधानमन्त्रिणा समाहूतम्। केन्द्रशासनमपि राज्ये सौहार्दपुनर्निर्माणाय सर्वथा प्रतिबद्धमस्तीति तेन दृढीकृतम्॥

Saturday, September 13, 2025

 प्रधानमन्त्री अद्य मणिपुरे।


नवदिल्ली> वंशीयकलहेन कलुषितं मणिप्पुरं राज्यं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे सम्पश्यति। भूरिशः  कुक्की समुदायांगैः अधिवसन्तं चुराचन्दपुरम्, इम्फाल इत्येतेषु प्रदेशेषु कतिपयकार्यक्रमेषु प्रधानमन्त्री भागं करिष्यति।

  २०२३ मेय् मासे प्रक्षोभमारभ्य ८६४ दिनानन्तरमेव प्रधानमन्त्री मणिप्पुरं प्राप्नोति। चुराचन्दपुरे होर्टोक्की-तैरङ्ग रेल् मार्गं सः उद्घाटनं करिष्यति। ७३०० कोटि रूप्यकाणां विकसनाभियोजनानां शिलान्यास अपि तेन करिष्यते।

 'जेन् सी' प्रक्षोभः - ५१ जनाः हताः ।

एकः भारतीयः। 

नेपालं शान्तिमुपगच्छति।

काठ्मण्डुः> युवजनानां प्रक्षोभेण कलुषितः  नेपालदेशः क्रमेण शान्तिमुपगच्छति। दिनद्वयेन अक्रमघटनाः न वृत्तान्तीकृताः। किन्तु सेनया विधत्तं 'कर्फ्यू' नामकनियन्त्रणम् अनुवर्तते। 

  प्रत्युत, अद्यावधि अक्रमघटनासु एकं भारतीयं,  त्रीन् रक्षिपुरुषान् चाभिव्याप्य ५१ जनाः हताः इति आधिकारिकतया स्थिरीकृतम्। विशदांशाः न लब्धाः। वृत्तान्तप्रसारणे अपि  नियन्त्रणं वर्तते इति सूच्यते।

 सुशीला कर्की नेपालस्य ह्रस्वकालीनप्रधानमन्त्री।

राष्ट्रस्य प्रथमा महिलाप्रधानमन्त्री।

सुशीला कर्की राष्ट्रपतेः रामचन्द्र पौडेनस्य पुरतः शपथवाचनं करोति। 

काठ्मण्डुः> युवजनानां प्रक्षोभकारणात् प्रधानमन्त्री के पी शर्मा ओली इत्यस्य स्थानभ्रष्टेन नेपालदेशे सञ्जातस्य राजनैतिकानिश्चितत्वस्य अल्पकालीनविरामः। ह्रस्वकालीनप्रधानमन्त्रिरूपेण नेपालस्य  सर्वोच्चन्यायालयस्य भूतपूर्वीया मुख्यन्यायाधिपा सुशीला कर्कीवर्या [७३] शपथवाचनं कृतवती। शुक्रवासरे रात्रौ नववादने आसीत् कार्यक्रमः। नेपालस्य प्रप्रथमा महिलाप्रधानमन्त्री अस्ति सुशीला कर्कीवर्या।

  सामाजिकमाध्यमानां निरोधः, भ्रष्टाचारः, स्वजनपक्षपातित्वम् इत्यादीनि विरुध्य 'जेन् सी' नामकप्रक्षोभकाणां सम्मर्देन प्रधानमन्त्री के पी ओली शर्मा स्थानभ्रष्टः अभवत्। [१९९७ तमवर्षस्य २०१२ तम वर्षस्य चाभ्यन्तरे लब्धजन्मनां संघटनमस्ति 'जेन् सी'।] ततः सेनाधिकारिणः राष्ट्रपतिः रामचन्द्र पौडेनः इत्यादिभिः सह प्रक्षोभकारिणां प्रतिनिधिभिः कृतायाः चर्चायाः परिणामो भवति सुशीलावर्यायाः शपथवाचनम्। नेपालस्य प्रथमा महिला सर्वोच्चमुख्यन्यायाधिपा तथा  प्रथमा महिलाप्रधानमन्त्री च भवति सुशीला कर्कीवर्या।

 सि पि राधाकृष्णः शपथवाचनमकरोत्। 

नवदिल्ली> भारतस्य १५ तमोपराष्ट्रपतिरूपेण सि पि राधाकृष्णः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः पुरतः शपथवाचनमकरोत्। प्रधानमन्त्री नरेन्द्रमोदी इतरे मन्त्रिणः नेतारश्च कार्यक्रमेSस्मिन् भागमकुर्वन्। भूतपूर्वः उपराष्ट्रपतिः जगदीपधन्करश्च सन्निहित आसीत्।

Friday, September 12, 2025

 सि पि राधाकृष्णः अद्य शपथवाचनं करोति। 

नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः। 

नवदिल्ली> नियुक्तोपराष्ट्रपतिः सि पि राधाकृष्णः  भारतस्य १५ तमः उपराष्ट्रपतिः इति रूपेण शपथवाचनं करोति। अद्य प्रभाते दशवादने राष्ट्रपतिभवने आयोज्यमाने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू प्रतिज्ञावाचनं कारयिष्यति। 

  तमिलनाडु राज्यीयः सि पि राधाकृष्णः  ततः उपराष्ट्रपतिरूपेण चितानां मध्ये तृतीयो देशस्नेही भवति। तमिलनाटे भाजपादलस्य वरिष्ठसेवार्थी इति प्रवर्तितः सः २०२४ तमे वर्षे महाराष्ट्रस्य राज्यपालत्वेन नियुक्तवानासीत्।  गतदिने सः तत्स्थानस्य परित्यागं कृतवान्।  

  जुलाई २१ तमे दिनाङ्के जगदीप धन्करः उपराष्ट्रपतिपदं त्यक्तवान् इत्यतः नूतनोपराष्ट्रपतिनिर्वाचनम् आवश्यकमभवत्।

Latest news


Thursday, September 11, 2025

 पालियेक्करा वीथीशुल्कनिरोधः दीर्घितः। 

पालयेक्करा वीथीशुल्कसंग्रहणकेन्द्रम्। 

कोच्ची> केरले राष्ट्रियमार्गे - NH 544 - पालियेक्करा इत्यत्र उच्चन्यायालयेन विहितः वीथीशुल्कनिरोधः सेप्टम्बर् १५ तम दिनाङ्कपर्यन्तं दीर्घितः। 

  तात्कालिकसेवामार्गस्य न्यूनतापरिहारकर्णाणि समुचितरीत्या पूर्तीकर्तुं देशीय राष्ट्रियमार्गाधिकरणसंस्था [NHAI] निर्दिष्टा इति जनपदाधिकारी अर्जुन पाण्ड्यः न्यायालयं निगदितवान्। केन्द्रसर्वकाराय सोलिसिटर् जनरल् पदीयः ए आर् एल् सुन्दरेशः समुपस्थितः आसीत्।

 नेपाले प्रशासनविरुद्धप्रक्षोभः तीव्रः।

राष्ट्रपतिः, प्रधानमन्त्री, इतरे मन्त्रिणश्च स्थानत्यागं कृतवन्तः।

नेपालेयुवकप्रक्षोभस्य दृश्यम्। 

'जेन् सी' आन्दोलनमनुवर्तते। 

काठ्मण्डुः> नेपालराष्ट्रे सामाजिकमाध्यमानां निरोधात् गतशुक्रवासरे आरब्धः  युवजनानां छात्राणां च प्रक्षोभः दिनद्वयेन सीमामुल्लङ्घितः। आराष्ट्रं प्रक्षोभकारिणः अक्रमासक्ताः अभवन्। प्रधानमन्त्री के पि शर्मा ओली स्थानमत्यजत्। दिनद्वयानन्तरं राष्ट्रपतिः रामचन्द्रपौधेनः त्यागपत्रं समर्पितवान्। इतरे मन्त्रिणोSपि प्रभोक्षसम्मर्देन स्थानं त्यक्तवन्तः। आराष्ट्रम् अरक्षितावस्था वर्तते। प्रशासननियन्त्रणं सैन्येन स्वीकृतमिति सूच्यते। 

  कतिपयमासेभ्यः पूर्वं नेपालप्रशासनस्य अत्याचारमधिकृत्य युवजनैः  फेस् बुक्, इन्स्टग्रामः, वाट्स् आप् इत्यादिसमाजिकमाध्यमद्वारा प्रतिषेधचर्चाः, बोधवत्करणमित्यादीनि आरब्धानि। प्रशासनं विरुध्य जनानां प्रतिषेधे शक्ते जाते सर्वकारेण २६ सामाजिकमाध्यमाः निरुद्धाः। युवकानां प्रक्षोभः 'जेन् सी' [Gen Z] आन्दोलनमिति व्यवहृतः। आक्रमणे कलहे च १९ जनाः हताः; ३४५ जनाः आहताः इति सेनाधिकारिभिः सूचितम्। 

  अतीते सोमवासरे सामाजिकमाध्यमनिरोधः अपसृतः अपि युवजनप्रक्षोभः अनुवर्तमानः अस्ति। राष्ट्रे विद्यमानाः भ्रष्टाचाराः, कर्माभावः, दारिद्र्यावस्था इत्येते उन्मूलनीयाः इत्येव युवकानाम् लक्ष्यम्।

Wednesday, September 10, 2025

 एष्याचषकहोकी - भारतमजय्यं; किरीटप्राप्तिः। 

भारतदलस्य आह्लादः। 

+ विश्वचषकस्पर्धां प्रति योग्यताप्राप्तिः। 

+ दिल्प्रीत सिंहस्य युगलक्ष्यकन्दुकप्राप्तिः। 

राजगिरिः> होक्कीस्पर्धायां भारतमजय्यमिति एकवारमपि प्रमाणीकृत्य बिहारे राजगिरौ सम्पन्नायां एष्याचषकयष्टिक्रीडावीरतास्पर्धायां भारतस्य किरीटोपलब्धिः। अत्यन्तमुत्साहभरिते अन्तिमप्रतिद्वन्द्वे ४ - १ इति लक्ष्यकन्दुकक्रमेण दक्षिणकोरियां पराजयत। अनेन एष्याचषकविजयेन भारतं आगामिवत्सरे सम्पत्स्यमाने पुरुषाणां विश्वचषकप्रतिद्वन्द्वे क्रीडितुं योगतामवाप। 

  अष्ट संवत्सरेभ्यः परमेव एष्याचषके भारतस्य किरीटप्राप्तिः। २८, ५४ निमेषतमे दिल्प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। तमतिरिच्य सुखजीत सिंहः, अमित रोहितदासः च एकैकं लक्ष्यकन्दुकं च सम्प्राप्य भारतस्य अजय्यताम् उद्घोषितवन्तौ। दक्षिणकोरियायाः डेय्न् सणः  लक्ष्यमेकं सम्पाद्य दक्षिणकोरियायै आश्वासं चकार। आहत्य सम्पन्नेषु ६ प्रतिद्वन्देषु एकस्मिन्नपि भारतं पराजयं नानुबभूव। पञ्च विजयाः, एका समस्थितिश्च।

 सि पि राधाकृष्णः भारतस्य १५तमः उपराष्ट्रपतिः।


नवदिल्ली> गतदिने  सम्पन्ने उपराष्ट्रपतिनिर्वाचने एन् डि ए सख्यस्य स्थानाशी सि पि राधाकृष्णः विजयी अभवत्। ७६७ लोकसभा-राज्यसभासदस्याः स्वाभिमतं प्रकटितवन्तः। तेषु ७५२ मतानि साधूनि अभवन्। तत्र ४५२ मतानि राधाकृष्णेन प्राप्तानि। प्रतिद्वन्दी बी सुदर्शन रड्डिः ३०० मतानि प्राप्तवान्। राज्यसभायाः कार्यकर्ताप्रमुखः [Secretary General] निर्वाचनप्रक्रियायाः अधिकारी आसीत्। 

  भारतस्य १५ तमः उपराष्ट्रपतिः सि पि राधाकृष्णः तमिलनाटतः तृतीयः उपराष्ट्रपतिः अस्ति। प्रथमः उपराष्ट्रपतिः डा एस् राधाकृष्णः, द्वितीयः आर् वेङ्किट्टरामश्च। सि पि राधाकृष्णवर्यः तमिलनाटीय भा ज पादलस्य वरिष्ठनेता अस्ति।

Tuesday, September 9, 2025

 उपराष्ट्रपतिनिर्वाचनम् अद्य। 

नवदिल्ली> भारते उपराष्ट्रपतिनिर्वाचनस्य मतदानप्रक्रिया अद्य प्रातः १० वादनतः ५ वादनपर्यन्तं प्रचलिष्यति। एन् डि ए सख्यस्य स्थानाशिरूपेण सि पि राधाकृष्णः, ऐ एन् डि ऐ ए सख्यस्य स्थानाशिरूपेण न्याया. बि सुदर्शन रड्डिः च शक्तिपरीक्षणे वर्तेते। लोकसभा-राज्यसभयोः सदस्याः उपराष्ट्रपतिनिर्वाचने मतदानं करिष्यन्ति।

 रूसीयविश्वविद्यालयेषु हिन्दी अध्ययनं व्यापकं कारयते।

मोस्को> रष्यादेशे हिन्दीभाषायां व्यापकतया तात्पर्यं वर्धते। अतः विश्वविद्यालयेषु नूतनतया हिन्दी अध्ययनम् आरब्धुं निर्णयः कृत इति रूसीयोन्नतस्तरीयशैक्षिकसहमन्त्री अवदत्। 

   "रष्यायामध्ययनं कुर्वन्तः छात्राः दैनन्दिनजीवने आङ्गलमपेक्षया हिन्दीभाषायै प्रामुख्यं कल्पयन्ति। तथा च रूसीयछात्रेष्वपि हिन्दीतात्पर्यं दृश्यते। अत एव अधिकेषु विश्वविद्यालयेषु हिन्दी अध्यापनस्य निर्णयः कृतः।"- मन्त्रिणा विशदीकृतम्। इदानीं मोस्कोक्षेत्रे केवलं चतुर्षु विश्वविद्यालयेषु हिन्दी अध्ययनं वर्तते।

Monday, September 8, 2025

 अद्य अन्ताराष्ट्रिय विद्यावत्तादिनम्। 

> आविश्वं जनान् विद्यावन्तः कर्तुं विद्यावत्तायाः प्राधान्यं जनानुद्बोधयितुं च सेप्टम्बर् अष्टमदिनाङ्कः अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमन्यते। १९६७ तमे वर्षे आसीत् युनेस्को संस्थया प्रथमं दिनमिदं अन्ताराष्ट्रीय विद्यावत्तादिनत्वेन आमिनितुं निर्णय‌ः कृतः। 

   व्यक्तेः सामाजिक-आर्थिक-सांस्कृतिकविकासाय विद्यावत्ता अत्यन्तापेक्षितमिति सार्वदेशीयेन अङ्गीक्रियते। 'अस्मिन् डिजिटल् [digital]युगे विद्यावत्ताप्रोत्साहन'मिति अस्य वर्षस्य ध्यानास्पदविषयः।

 प्रलयबाधितानि उत्तरभारतराज्यानि प्रधानमन्त्री सम्पश्यति।


चण्डीगढः>  अतिवृष्ट्या प्रलयेन च महान्तं क्लेशमनुभवन्ति उत्तरभारतराज्यानि प्रधानमन्त्री नरेन्द्रमोदी अचिरेण सन्द्रक्ष्यति। कुजवासरे पञ्चाबं प्राप्स्यमाणः मोदिवर्यः गुरुदासपुरजनपदं सन्द्रक्ष्यति। अतीतेषु ५० संवत्सराभ्यन्तरेषु जातात् अधिककठिनतीव्रप्रलयः अस्मिन् वर्षे अत्र जातः। आराज्यं १३,२८९ कोटिरूप्यकाणां नाशः आपन्न इति राज्यसर्वकारस्य गणना। 

  पुनरागम्यमानेषु दिनेषु हिमाचलप्रदेशः, जम्मुकाशमीरम्, उत्तराखण्डः इत्येतानि राज्यान्यपि प्रधानमन्त्री सन्द्रक्ष्यति । एतानि राज्यानि अतिरिच्य दिल्ल्यामपि अतिवृष्टिदुष्प्रभावः तीव्रेण बाधते स्म। 

  पूर्वोक्तेषु राज्येषु वृष्टेः लघुशमनमभवदपि जनजीवनं सामान्यस्तरं नापन्नम्।

 नासायाः यानत्रितयम् एकक्षेपण्या सूर्यमभिलक्ष्य।

    पञ्चविंशत्यधिकद्विसहस्रतमे सप्ताम्बर् मासे नासाशासनमेकम् अनन्यसाधारणम् अभियोजना आरप्स्यते। अस्या: अभियोजनाया: वैशिष्ट्यमिदं यदेकेनैव प्रक्षेपणयानेन त्रीणि पृथक् वैज्ञानिकानि कार्याणि अन्तरिक्षं प्रेषयिष्यन्ते येषां मुख्यं लक्ष्यं सूर्यस्याध्ययनं भविष्यति।

Sunday, September 7, 2025

 अद्य पूर्णचन्द्रग्रहणम्। 


विरलः 'रक्तचन्द्र'प्रतिभासः द्रष्टुं शक्यते।

कोच्ची> सेप्टम्बर् ७ रात्रौ ८. ५८ वादनतः आरभ्य अष्टमदिनाङ्के प्रत्युषसि २. २४ वादनपर्यन्तं विश्वस्य बहुषु भागेषु पूर्णचन्द्रग्रहणं सम्भविष्यति। भारतमतिरिच्य अशेषम्  एष्याभूखण्डं, आफ्रिकायाः पूर्वभागः, आस्ट्रेलिया इत्येतेषु प्रदेशेषु अयं दृश्यविस्मयः अनुभोक्तुं शक्यते।

  अद्य रात्रौ ११ वादने चन्द्रः पूर्णतया आच्छाद्यते। तदा Blue Moon इति चन्द्रे रक्तवर्णप्रतिभासः द्रष्टुं शक्यते।

 ट्रम्प्मोदिनोः मैत्री इदानीमपि स्थिरा।

  भारतसंयुक्तराज्ययोः राजनय-संबन्धविषये भारतशासनस्य विदेशकार्यमन्त्री एस्॰जयशङ्करः स्वविचारान् प्राकाशयत्। तेन प्रतिपादितं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः संयुक्तराज्याध्यक्षस्य डोणाल्ड् ट्रम्पस्य च मैत्री अद्यापि सुदृढा वर्तते। शीघ्रमेव एतौ नेतारौ दूरभाषेण संवदेताम् इति अपि तेन सूचितम्। उभयोः राष्ट्रयोः मध्ये विद्यमानानां केषाञ्चित् राजनय संबन्धविवादानां परिस्थित्याम् इदं सम्भाषणमतीव महत्त्वपूर्णं मन्यते। एषा वार्ता राष्ट्रद्वयस्य सम्बन्धेषु नूतनम् अध्यायम् उद्घाटयिष्यतीति आशास्यते॥


Latest News