डिट्वा दुरन्तः - श्रीलङ्कायै भारतस्य ४५ कोटि डोलर्मितस्य साहाय्यभाण्डः।
कोलम्बो> डिट्वा चक्रवातस्य दुष्प्रभावेण दुरापन्ने प्रलये विनाशितायै श्रीलङ्कायै ४५ कोटि डोलर्मितस्य साहाय्यभाण्डः भारतेन प्रख्यापितः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः सविशेषदूतरूपेण विदेशकार्यमन्त्रिणा एस् जयशङ्करेण कृते श्रीलङ्कासन्दर्शने अस्ति साहाय्योद्घोषणम्।
३५ कोटि डोलर् अपहारोपेतं [with discount] एल् ओ सि प्रकारेण [Line Of Credit] १० कोटि डोलर् उपायनरूपेण [grant] च दीयते। लङ्काप्रशासनेन सह चर्चां कृत्वा भाण्डस्य अन्तिमाङ्गीकारं स्वीकरिष्यति। निश्चितराशिं यावत् आवश्यानुसारं ऋणरूपेण स्वीकर्तुं प्रत्यर्पयितुं शक्यमाना ऋणसुविधा अस्ति एल् ओ सि।





.jpg)

