OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, December 23, 2025

 महिला टि-२० 

प्रथमप्रतिद्वन्द्वे भारतस्य विजयः। 

जमीमा रोड्रिगसः। 

श्रीलङ्कां ८ द्वारकैः पराजयत। जमीमा रोड्रिगसे अर्धशतकम्। 

विशाखपत्तनं> श्रीलङ्कां विरुध्य महिलानां टि-२० क्रिकट् स्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतस्य अनायासविजयः। अष्ट द्वारकाणां विजयं सम्प्राप्य १ - ० इति रीत्या भारतम् अग्रे तिष्ठति। 

  प्रथमं कन्दुकताडनं कृतवत्यः श्रीलङ्कीयमहिलाः २० क्षेपणचक्रेषु ६ क्रीडिकान् परित्यज्य १२१ इति न्यूनसंख्याकं धावनाङ्कान् सम्पादितवत्यः। प्रत्युत्तरताडने भारतीयमहिलाः १४. ४ क्षेपणचक्रेषु द्वे क्रीडिके त्यक्त्वा १२२ धावनाङ्कान् सम्पाद्य लक्ष्यं प्राप्तवत्यः। जमीमा रोड्रिगसः अर्धशतकं प्राप्तवती - ४४ कन्दुकैः ६९ धावनाङ्काः।