OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, December 23, 2025

 एल् वि एम् - ३ विक्षेपः श्वः। 

चेन्नै> अमेरिकायाः ए एस् टि स्पेस् मोबाइल् इत्यस्य 'ब्लू बेर्ड् -६' नामकेन उपग्रहेण सह भारतस्य एल् वि एम् - ३  विक्षेपिणी विक्षेपाय सज्जा अस्ति। बुधवासरे प्रभाते ८.२४ वादने श्रीहरिक्कोट्टास्थात् सतीष्धवान् बहिराकाशकेन्द्रात् विक्षेपणं सम्पत्स्यति। भारतात् विक्षेपणं क्रियमाणः बृहत्भारयुक्तः उपग्रहः भवति ६. ५ टण् भारयुक्तं ब्लू बेर्ड्। 

 टेलिकोम् संस्थायाः प्रोन्नतस्तंभान् विद्युत्सन्देशवाहकान् च विना साधारणजङ्गमदूरवाणीः प्रति 'ब्रोड् बान्ट् इन्टर्नेट्' सेवाप्राप्तिरिति अस्योपग्रहस्य लक्ष्यम्।