भारत-न्यूसिलान्टयोर्मध्ये निश्शुल्कव्यापारः उद्घोषितः।
नवदिल्ली> भारत- न्यूसिलान्टराष्ट्रयोर्मध्ये शुल्करहितं व्यापारं साधयितुं स्वतन्त्रव्यापारसन्धिः हस्ताक्षरीकृतः। भारतात् आयातानां कृते न्यूसिलान्टः १००% करलाघवत्वं प्रदास्यति। आगामि १५ वर्षेषु न्यूसिलान्टः भारते १. ८ कोटि रूप्यकाणां निक्षेपमपि करिष्यति।
न्यूसिलान्टतः क्रियमाणानां ९५% निर्यातानां भारते निश्शुल्कव्यापारम् अनुमोदिष्यति। मासत्रयाभ्यन्तरे हस्ताक्षरीक्रियमाणः सन्धिः सप्त वा अष्ट मासाभ्यन्तरे प्रवृत्तिपथमागमिष्यति।