ऊन१९ एष्याचषक क्रिकट्
पाकिस्थानं किरीटं प्राप।
भारतं पराजयत।
दुबाय्> ऊननवदशवयस्कानाम् एष्याचषक क्रिकट् स्पर्धायाः अन्तिमे प्रतिद्वंद्वे भारतं १९१ धावनाङ्कैः पराजित्य पाकिस्थानदलः किरीटं प्राप। प्रथमचरणे पाकिस्थानं ५० क्षेपणचक्रेषु ३४७ धावनाङ्कान् सम्पादयामास। भारतस्य प्रतिक्रीडा १५६ धावनाङ्केषु समाप्ता।