सप्तदिनाभ्यन्तरे द्विवारं बङ्गलादेशस्य उन्नतनयतन्त्रोद्योगी भारतेन आहूतः।
नवदिल्ली> बङ्गलादेशस्य भारतस्य च मिथः नयतन्त्रबन्धे दूषिते सन्दर्भेऽस्मिन् बङ्गलादेशस्य उन्नत नयतन्त्रोद्योगी रियास् हमीदुल्लः सप्त दिनाभ्यन्तरे द्वितीयवारं भारतेन पुनराहूतः। पूर्वं जनुवरि १७ तमे दिनाङ्के रियासः विदेशकार्यमन्त्रालयेन आहूतः आसीत्। धाक्कायां भारतस्य उन्नत-नयतन्त्र-कार्यालयस्य सुरक्षां संबन्ध्य आशङ्कां प्रकटयितुम् एव आसीत् आह्वानम्। मङ्गलवासरे भारतस्य उन्नतकार्यनियुक्तः प्रणय् वर्मा बङ्गलादेशेन आहूतः आसीत्। भारते बङ्गलादेशस्य नयतन्त्रकार्यालयस्य सुरक्षाम् अधिकृत्य आशङ्कां प्रकटयितुम् एव सः आहूतः।
