OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, March 13, 2017

गोवायां परीक्करः मुख्यमन्त्री, मणिप्पूरे अपि भाजपा भविष्यति। 
नवदिल्ली > त्रिशङ्कुस्वर्गे वर्तिते गोवाराज्ये केन्द्रक्षामन्त्री भाजपा नेता च मनोहरपरीक्करः मुख्यमन्त्री भविष्यति। गोवा राजनैतिकमण्डले स्वस्य स्वीकार्यतायाः प्रभावस्य आधारे स्वतन्त्रसामाजिकानां लघुदलानां च सहयोगं प्राप्तवान् परीक्करः सर्वकाररूपवत्करणस्य अधिकारवादेन राज्यपालं मृदुल सिंहम् अमिलत्। ४० अङ्गयुक्तविधानसभायां भाजपादलाय २२ सामाजिकानां सहयोगः प्रतीक्ष्यते। मुख्यमन्त्री भवितुं पराक्करः देशस्य रक्षामन्त्रिपदं त्यक्ष्यति।
    मणिप्पूरे अपि भाजपादलेन मन्त्रिसभां रूपवत्कर्तुं प्रयत्नः आरब्धः। ६०अङ्गविधानसभायां  दलाय २१ स्थानानि सन्ति। नागा पीप्पिल् पार्टी , लोक जनशक्ति पार्टी च भाजपायै सहयोगं प्रख्यापितवन्तौ।  किन्तु मणिप्पुरविधानसभायां अङ्गसंख्यायां बृहत्तमेन कोण्ग्रस्दलेनापि मन्त्रिसभारूपवत्करणयत्नः आरब्धः अस्ति। तत्र कोण्ग्रस् दलाय २८ सामाजिकाः सन्ति। केवलभूरिपक्षाय अङ्गत्रयस्य न्यूनता। राज्यस्य कोण्ग्रस्दलस्य शोधनासमित्यध्यक्षस्य रमेश् चेन्नित्तलावर्यस्य नेतृत्वे प्रादेशिकदलानां सहयोगाय चर्चा आरब्धाः।

साम्पत्तिकभारः न्यूनीक्रियते  इति  नरेन्द्रमोदिः
उत्तरप्रदेशजनविधिः भारताय नूतनदिशाबोधं प्रददाति इति प्रधानमन्त्रिणा सूचितम् । तमे वर्षे नवीनभारतं भविष्यति । तस्य आधारशिला जनविधिना स्थापिता इति च तेन योजितम् ।सामान्यजनानां  साम्पत्तिकभारसम्मर्दानां लघूकरणमेव सर्वकाराणाम् अनन्तरयोजना इति अनेन उद्घोषितम् ।
संस्कृताध्यापकानां कर्मसुरक्षा कार्या - संस्कृताध्यापकफेडरेषन्।
कोच्ची> केरळेषु विद्यालयीयैः संस्कृताध्यापकैः तेषाम् अध्यापनमण्डले अनुभूयमानानां सेवनसंबन्धिनां समस्यानां शाश्वतपरिहारः कार्य इति अध्यापक संघटनस्य राज्यनिर्वाहकसमित्या निवेदितम्। संस्कृतपठनाय केषाञ्चनछात्राणां न्यूनतया बहवः अध्यापकाः सेवनमण्डलात् बहिर्गच्छन्तः सन्ति। तेषां कर्मसुक्षायै सर्वकारस्य जाग्रता भवितव्या।
    तथा च भागिककालिक [part-time]   अध्यापकानां भविष्यनिधिः , नीचस्तरीय कक्ष्यासु अध्यापकनियुक्तिः इत्यादिविषयेष्वपि अनुकूलनिर्णयः भवितव्यः इति समित्या निवेदितम्।
     एरणाकुलम् अध्यापकभवने आयोजिते समित्याः उपवेशने राज्याध्यक्षः पद्मनाभः आध्यक्ष्यम् अवहत्। कार्यदर्शिप्रमुखः पि जि अजित्प्रसादः, सनल् चन्द्रः, टि के सन्तोष् कुमारः, अय्यम्पुष़ा हरिकुमारः इत्यादयः चर्चां नीतवन्तः।

Sunday, March 12, 2017

उत्तराखण्डे अपि भाजपा; मणिप्पूरपञ्चाबौ कोण्ग्रस् दलाय आश्वासः; 
गोवायां त्रिशङ्कुः।
 नवदिल्ली> उत्तरप्रदेशम् अधिकतया उत्तराखण्डराज्ये अपि भाजपादलस्य उज्वलविजयः। स्पर्धितेषु सप्ततिस्थानेषु सप्तपञ्चाशत् स्थानानि सम्प्रप्य भाजपादलं विजयपीठमारूढवत्। किन्तु राज्याध्यक्षः अजयभट्टः पराजितः। तथा इदानांतनमुख्यमन्त्री कोण्ग्रस्नेता च हरीष् रावत्तः स्पर्धिते स्थानद्वये अपि अभिभूतः अभवत्। पञ्चाबराज्ये तु दशवर्षीयाणां शिरोमणि अकालिदल्- भाजपा सख्यशासनास्य

रुप्यकपत्राणां निरोधनं जनप्रीतिः न्यूनीकृतम् तथापि मोदीप्रभावेन उत्तरप्रदेशं भा जा पा अग्रहीत्।
वाराणसी>उत्तरप्रदेशेन साकं पञ्चराज्याणां नियमसभा चयनात् मासेभ्यः प्राक् आसीत् नरेन्द्रमोद्याः सहस्र पञ्चशत रुप्यकपत्राणां निरोधनोद्घोषणम्।भारतराष्ट्रस्य प्रायः सर्वे पत्रिकाः तथा नवमाद्ध्यमाः च मोद्याः एनं निर्णयं असमीचीनतया अविमर्शन्।किन्तु इदानीं तेषां वाणीषु किञ्चित् परिवर्तनं दृश्यते। रुप्यकपत्राणां निरोधनानन्तरं कतिपयसप्ताहाभ्यन्तरे एकस्य राष्ट्रीयमाध्यमस्य नेतृत्वेन युपी राज्ये एकसप्तति जिल्लासु सर्वेक्षणं आयोजितम्।तस्मिन् भा जा पायाः जनप्रीतिः विशिष्य ग्रामेषु न्यूनं जातमिति तैः प्रस्तुतीकृतम्।परन्तु इदानीं ३८४ मध्ये ३१२ मण्डलेषु विजयं प्राप्य इदानीमपि युपी राज्यं मोद्या सहैव इति व्यक्तीकृतम्।मोदी युप्याः हितायैव तिष्ठतीति जनविकारः एव एतस्य विजयस्य निदानम्। तथा देवभूमौ उत्तराखण्ड् राज्ये अपि ७० स्थानेषु ५७ मण्डले भा जा पा विजयं प्राप्तः।शासन दलस्य कोण्ग्रस् कृते केवलं एकादशैव आसनमेव लब्धम्।द्वौ स्वतन्तन्त्रतया विजयं प्राप्तौ।राज्ये भा जा पा ४६.५ प्रतिशतं सम्मतिदानं प्राप्तम्।उत्तराखण्डस्य राजनीतौ प्रथमवारमेव एकस्य देशीयदलस्य एतादृश विजयं अभवत्। सर्वेषां दलाड्गानां कृते नरेन्द्रमोदी तथा दलाध्यक्षः अमित् षा च अभिनन्दनानि व्याचक्रतुः।

 न्यायाधिपाय कर्णाय सर्वोच्चन्यायालयस्य ग्रहणपत्रम्।
नवदेहली>न्यायालयालक्ष्य उपक्षेपे न्यायालये अनुपस्थितौ कोल्कत्ता उच्चन्यायालयस्यस्य न्यायाधिपाय कर्णाय परमोन्नतनीतिपीठस्य ग्रहणपत्रम्।भारतस्य इतिहासे प्रथमा एतादृशी न्यायाधिपं  प्रति प्रवृत्तिः।उन्नतन्याधिपः जे एस् कोहर अद्ध्यरूपेण वर्तमाना सप्ताड्गसमितिः निर्णयमिदं स्वीकुर्वन्।
   अस्मिन् मासस्य एकत्रिंशत् दिने प्रभाते उपक्षेपस्य अस्य प्रस्तुतीकरणवेलायां कर्णस्य उपस्थितिः स्थिरीकर्तुं ईदृशं निर्णयं अस्वीकरोदिति न्यायालय स्पष्टीचकार।बंगाल डी जी पि स्वयमेव ग्रहणपत्रं कर्णाय दातव्यमिति न्यायालयः अवदत्। मद्रास्  उच्चन्यायालयस्यस्य उन्नतन्यायाधिपं तथा सेववृतानां न्यायाधिपान् च उद्दिश्य खलवृत्तिः आरोप्य परमोन्नतनीतिपीठस्य न्यायाधिपाय प्रधानमन्त्रिणे तथा प्रतिपक्षनेत्रे पत्रप्रेषणमस्ति कर्णस्य न्यायालयालक्ष्य उपक्षेपः।


 संस्कृतं सङ्गीतं च आक्रमणोत्सुकतां नाशयतः-
श्री शङ्कराचार्य विश्वविद्यालयस्य उपकुलपतिः।
कोची >इदानीं लोके सर्वत्र अशान्तिरेवभवति। वार्ता माध्यमेषु आक्रमणवार्ताः दृश्यन्ते। अस्याः परिहाराय संस्कृतं सङ्गीतं च पाठनीयम् इति कालटी श्री शङ्कराचार्य विश्वविद्यालयस्य उपकुलपतिना डॉ. एम् सि दिलीप् कुमारवर्येण उक्तम्।
एरणाकुलजनपदस्य मूवाट्टुपुषप्रदेशे तिरवुंप्लाविल् -सनातनस्कूल् ओफ् लैफ् इति संस्थया निर्मिता संस्कृतगानगुच्छस्य लोकार्पणं कृत्वा भाषमाणः आसीत् सः। विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षस्य डा. पी के शङ्करनारायणस्य आध्यक्ष्ये प्रवृत्ते कार्यक्रमे संस्कृतभारत्याः विश्वविभागकार्यदर्शी डा. के एन् पद्मकुमारः मुख्यभाषणं कृतवान्। सनातनस्कूल् ओफ् लैफ् संस्थायाः निदेशकः नारायणशर्मा गानरचयिता धनेष् नम्पूतिरी गायकः प्रवीण् काम्प्रम् इत्यादयः कार्यक्रमे उपस्थिताः आसन्।

Saturday, March 11, 2017

मोसूलतः बाग्दादी पलायितः। 
मोसूल्> इराख् देशे सैन्यस्य अग्रानीके अनुस्यूते ऐ एस् इत्याख्यायाः भीकरसंस्थायाः स्वयंप्रख्यापितनेता अबूबक्कर् अल् बाग्दादी पलायनेन प्राणान् रक्षितवान् इति सूचना। मोसूलस्थान् प्रादेशिकनेतॄन् प्रति युद्धं नेतुम् आह्वानं कृत्वा एव बाग्दादी नगरं त्यक्तवानिति अमेरिक्कन् सुरक्षाविभागेन निगदितम्। ऐएस् भीकरान् पृथक्कर्तुं मोसूल् नगरं प्रति प्रधानवीथेः अभिभवनात् पूर्वमेव बाग्दादी नगरं त्यक्तवानिति अमेरिक्कायाः प्रतिरोधवक्त्रा उक्तम्। अस्मिन् मासाद्ये आसीत् सैन्येन मोसूल् राजवीथेः नियन्त्रणं प्रगृहीतम्।

कूपीजलस्य भिन्नमूल्यानि -केन्द्रसर्वकारः अन्विष्यति।
नवदिल्ली >प्रायशः सर्वाः कूपीजलस्वायत्तसंस्थाः भिन्नस्लेषु भिन्नमूल्यानि स्वीकुर्वन्ति इत्यसिन् विषये केन्द्रसर्वकारः विशदीकरणम् अन्विष्यति  स्म । विमानस्थानकेषु भोजनालयेषु वाणिज्यकेन्द्रेषु मूल्यानां भेदः एव कारणम्। एतत्परित्यज्य समानमूल्यमेव  सर्वत्र भवेत् इति सर्वकारनिर्देशः। अस्मिन् विषये भक्ष्य - उपभोक्तृ-कार्यमन्त्रालयेन दोषारोपणम् अस्तीति सूचितम्। कूपिषु भिन्नमूल्यमेव मुद्रितम् इत्ययं विषयः अपि मन्त्रिणा राम् विलास् पास्वान् महाशयेन सूचितम्। इतः परं समानमूल्ययुक्ताः कूप्यः एव सर्वत्र उपलभ्येरन् इति सः असूचयत्। एतत् विरुद्धः यः कोऽपि लधुपानीयादीनाम् अधिकमूल्येन विक्रयं करोति सः दण्डार्हः इति अक्तूबर मासे मन्त्री उक्तवानासीत्।  दशप्रतिशतात् आरभ्य विंशतिप्रतिशतपर्यन्तम् अधिकं मूल्यं स्वीकृत्यैव जलादीनि पानीयानि विक्रियन्ते स्म। कदाचित् कोक्ककोला पानीयादिकस्य विक्रयं कूप्यां मूल्यम् असूचयित्वापि कुर्वन्ति स्म इत्यपि निरीक्षितम् अस्ति।

Friday, March 10, 2017

सप्ततिसहस्रंकोटिरूप्यकाणाम्  अन्यायधनम् अलभत इति एस् ए टि               
नवदेहली> इतः पर्यन्तं सप्ततिसहस्रंकोटिरूप्यकाणा म् अन्यायधनम् अलभत इति परमोच्चन्यायालयद्वारा नियुक्तः विशिष्टान्वेषणसंघः। एस् ए टि उपाध्यक्षः जस्टिस्  अरिजित् पसायत् एव कार्य मिदं न्यवेदयत्၊ एसएटि इत्यस्य षष्ठ म्आवेदनं एप्रिल मासे परमोच्चन्यायालयाय समर्पयेत् इति न्यायाधिपः न्य वेदयत्।၊
 विविधकेन्र्दसर्वकारविभाग वरिष्ठाध्यक्षाणां मेलनानन्तरमेव एतावत्पर्यन्तं प्राप्तस्य अन्यायधनसम्न्धि वार्तां न्यायाधीशः पसायत् महोदयः प्राकाशयत्। आगामिमासे प्रथमवारे मध्यकालावेदनं समर्पयिष्यति।  अन्यायधननिवारणाय  एस् ए टि अनेकनिर्देशान् असूचयत् इति पसायत् महाशयः अवदत्।

बहून् निर्देशान्  केन्र्दसर्वकारः आविष्कृतवान् आसीत्। शेषाः सर्वकारस्य सजीवपरिगणनायां सन्त्येव। अन्यायधनावरोधाय ऊर्जितकार्यक्रमाः आयोजिताः इति श्रूयते । पञ्चदशलक्षरुप्यकेभ्यः अधिकं धनं यः स्ववशे स्थापयति चेत् अनधिकृत सम्पाद्यरूपेण तत् परिगण्य्य न्यायक्रमः स्वीकरीणीयः इति प्रधाननिर्देशादिकंकेन्द्रसर्वकारः आलोच इति पसायत् महोदयः असूचयत्।
त्रिलक्षाधिकरुप्यकाणां विनिमयः धनपत्ररूपेण येनकेनापि क्रियते चेत् तत् दण्डार्हमिति  निर्देशं च केन्द्रसर्वकारः परिगणयति इति च सः असूचयत्।

गार्हिकभोजनं रोगान् निष्कासयति- डी जी पि लोकनाथ बेहरा
तिरुवनन्तपुरम्>क्रित्रिम भोज्यानि  तथा पेयानि त्यक्त्वा गार्हिकभोज्यं पेयं च स्वीकुर्युश्चेत् मारकरोगेभ्यः मोक्तुं शक्यते इति डीजीपि लोकनाथ बेहरा।विश्व यकृत् दिनसंबन्धिनं समारोहं उद्घाटयन्नासीत् सः।
  प्रतिदिनं समीचीनतया जलपानं कुरुते चेत् मूत्राशयसंबन्धिभ्यः व्याधिभ्यः मुक्तिः प्राप्यते।तेन सह व्यायामोपि आवश्यकः इति सः अयोजयत्।
   चिकित्सा महाविद्यालयस्य नेफ्रोलजी विभागः, मृतसञ्जीवनी,तिरुवन्तपुरस्य नेफ्रोलजी संघः ,समग्रं हेल्त् फौण्डेषन् इत्यादयः संयुक्ततया समारोहः समायोजयन्।अड्गदान प्रोत्साहन अन्तर्जालजालकस्य उद्घाटनं सी आर पी एफ् डीऐजी डा.अशोक् कुमारेण निर्व्यूढम्।
  डा.मोहनदास् महोदयेन रचिताः अवयवदानसंबन्धीनि कविताः तथा केरलराज्ये यकृत् रोगाः इत्यादि ग्रन्थाणां प्रकाशनञ्च अभवत्।

ग्वाटिमाला शिशुभवने अग्निबाधा- २० संख्याः मृताः
ग्वाटिमाला सिट्टी > अग्नि बाधया ग्वाटिमाला शिशुभवने विंशति छात्राः मृताः पञ्चविंशति व्रणिताः च । सान्होसायाः वेर्जिन् डि ला असुन् सियोन् शिशुभवनस्य सप्तदश वयःपर्यन्ताः शिशवः एव इयं घटनायां पतिताः । व्रणिताः ग्वाटिमाला सिट्टीस्थां आतुरालये प्रविष्टाः
गार्हिक पीडनेन दुखितानां अलक्ष्येन पथि परिभ्रमन्तां शिशूनां पालनकेन्द्रः भवति अयम् । ४०० शिशूनां वासस्थाने अष्टचत्वारिंशदधिक सप्तशत (७४८ ) संख्यामिताः शिशवः उषिताः आसन् । अन्न पेयादयः उचित रुपेण न आसन् इत्यनेन शिशवः प्रतिषेधं प्रकाश्य तिष्टन्नासीनः सन्दर्भः आसीदयम्। अस्याः दुर्घटनायाः सन्दर्भस्य आनुकूल्यमुपयुज्य षष्टिसंख्यामितः शिशवः पलायिताः च।

Thursday, March 9, 2017

मृतदेहः न आवश्यकम् - तीव्रवादेः पिता
लख्नौ> आरक्षकानां नालिका-शस्त्रप्रहरणेन मृतस्य सयिफुल्लनामकस्य पिता सर् ताज़ः एवं वदति। सः वञ्चकः अस्माकं पुत्रः न। वयं भारतीयाः, अत्र जन्मलब्धाः, अस्माकं पूर्वजाः अपि भारतीयाः । देशद्रोह प्रवर्तनरताः अस्माकं पुत्रः न अतः तस्य मृत शरीरः न आवश्यकम् इति पित्रा उक्तम्।
पुत्रस्य देशद्रोह प्रवर्तनान्‌ अधिकृत्य पूर्वज्ञानं नासीत् इति च तेन निगदितम्।
ताक्कूर् गञ्च् परिसरे १२ घण्टा पर्यन्तं वर्तमाने मिथयुद्धे एव सेय्फुल्ला मारितः। ऐ एस् पताका रयिल् यानस्य समय सारिणी, कर्तरी, धनम्, नालिकाशस्त्राणि गोलिका च एतस्य पार्श्वतः लब्धानि वस्तूनि आसन्

निश्शुल्कतया पाकवातकं लब्धुम्  आधारपत्रम् अनिवार्यम्।
नवदेहली>दरिद्ररेखायाः अधस्तानां वनितानां निश्शुल्कपाकवातकं लब्धुम् आधारपत्रम् अनिवार्यम्। गतसंवत्सरे दरिद्ररेखायाः अधस्तानां पञ्च कोटि स्त्रीणां पाकवातकं दीयमाना प्रधानमन्त्री उज्वल योजना राष्ट्रसर्वकारः स्थापिता।
  इतः आधारपत्ररहितानां कृते पाकवातकं न लभ्यते। तादृशाः मेई मासस्य  एकत्रिंशत् दिनाभ्यन्तरे निवेदनं दातव्यम्। निवेदनं दत्वा तस्य प्रत्यभिज्ञानपत्रेण निश्शुल्कपाकवातकार्थं निवेदनं कर्तुं शक्यते। तेन सह सर्वकाराड्गीकृत प्रत्यभिज्ञानपत्रेषु एकमपि समर्पणीयम्।

केरळेपि पेप्सि - कोला विक्रयनिरोधाय वणिक्समूहः। 
कोष़िक्कोट् >पेप्सि-कोला उत्पन्नानां विक्रयणं समापयितुं केरलेषु व्यापारिसंधैः निर्णीतम्। आगामिनि सप्ताहे मुख्यमन्त्रिणा सह चर्चां कृत्वा एतदधिकृत्य प्रख्यापनं भविष्यतीति व्यापारि-व्यवसायि एकोपनसमितीत्यस्य वणिक्सङ्घस्य अध्यक्षः टि नसिरुद्दीनः प्रोक्तवान्।
    शीतलपानीयव्वसायशालानां जलचूषणे प्रतिषिध्य एव एतादृशनिर्णयः व्यापारिभिः स्वीकृतः। केरले सप्तलक्षं व्यापारिणः पेप्सी-कोला उत्पन्नानां विक्रेताररूपेण सन्ति।  अस्मात् मासाद्यादारभ्य तमिल् नाट् राज्ये अपि समानकारणेन एतेषां विक्रयणं समापितमासीत्।

 स्वल्पधनमात्रावशिष्टदण्डनं तथा ए टि एम् व्यवहारशुल्कं च निराकर्तुं सर्वकारस्य निर्देशः।
नवदिल्ली> वित्तकोशाधारपुस्तकेषु स्वल्पधनमात्रम् अनवशिष्टं चेत्  तथा  धनादानयन्त्राणि [एटिएम्] निश्चितवारैः अधिकम् उपयोक्तुं च धनशुल्कदण्डनाय वित्तकोशानां निर्णयं निराकर्तुं केन्द्रसर्वकारेण आदिष्टम्। वित्तकोशाधिकृतानां निर्णयं विरुध्य जनरोषः उद्भूतः। सञ्चयसंख्यानेषु (savings account) यैः अल्पिष्ठावशेषः न प्रतिपाल्यन्ते तेभ्यः २० - १०० रूप्यकाणां धनदण्डं स्वीकर्तुं निर्णयः कृतः आसीत्।
       तथा च भारतीय स्टेट् बैंकस्य धनादानयन्त्रेभ्यः प्रतिमासं पञ्चवारेष्वधिकानां व्यवहाराणां दशरूप्यकाणि स्वीकृतानि । एषः निश्चय अपि जनरोषाय कारणमभवत्। अत एव निर्णयस्य पुनःशोधनाय आदेशः कृतः।

Wednesday, March 8, 2017

छात्रेषु उत्तमव्यक्तित्वनिर्माणः एव अध्यापकानां कर्तव्यः - मद्रास् उच्चन्यायालयः।
चेन्नै > सहाध्यापकान् प्रतिरोद्धुं  व्याज पीडनारोपेन याचिकां दत्तवती विद्यालयस्य प्रथमाध्यापिका । घटेनेयं रामनाथपुरं सर्वकारीयविद्यालये सञ्जाता। अध्यापिकया कृतं नीचकर्मं कदापि न सम्भव्यमासीत् इति उच्चन्यायालयेन निगदितम्। प्रधान अध्यापिकायाः अध्यापनदोषान् अधिकृत्य संक्षोपिताः त्रयः शिक्षकाः इत्यस्मात् तान् प्रति विप्रतिपत्ति-कारणात् एव इयम् अध्यापिका एतादृशं नीचप्रवृत्यर्थम् उद्यता । छात्रेषु उत्तमव्यक्त्व निर्माणः अध्यापकानां धर्म एवI तस्मिन् सन्दर्भे दुष्कर्माय एका छात्रा अनाया प्रेरितम् इत्यस्मात् २५०० चतुरश्रपादमितां भूमिं करुवेल नाम दुष्टसस्यस्य समूलनाशः करणीयः इति दण्डः न्यायाधिपेन एस् वैद्यनाथेन प्रख्यापितः। करुवेल सस्यस्य व्यापनेन जल दौर्लभ्यं भविष्यतीति विज्ञाः वदन्ति।

एस् एस् एल् सि , एछ् एस् एस् परीक्षाभ्याम् अद्य शुभारम्भः।
कोच्ची>केरलीयछात्राणां शैक्षिकमण्डले सुप्रधानं परीक्षाद्वयम् अद्य समारभते। SSLC नामिका  दशमीकक्ष्यायाः संवत्सरीयपरीक्षा तथा उच्चतरस्तरीया Plus 2 परीक्षा च मार्च् अष्टमदिनाङ्कादारभ्य प्रचलति। plus1परीक्षा अपि अद्यैव आरभते।
       SSLC परीक्षायै ४,५५,९०६ छात्राः Plus2  परीक्षार्थं ४,४२,४३४ छात्राश्च भवन्ति। दशमीकक्ष्यापरीक्षा मार्च् २७तमे समाप्यते। अस्याः मूल्यनिर्णयः एप्रिल् तृतीयदिनाङ्कादारभ्य एकविंशति तम दिनाङ्कपर्यन्तं भविष्यति।

सि बी एस् इ छात्राणां कृते Mobile App
नव दिल्ली > केन्दीयमाध्यमिकशिक्षाबोर्डद्वारा परीक्षाकेनद्राण्यन्वेष्टुं छात्राणां साहायतार्थं Mobile App इति दूरभाषचरिष्णुतन्त्रमेकं विनिर्मितमस्ति, अनेन मोबाइल-एप्प्-माध्यमेन छात्राः परीक्षाकेन्द्राणामन्वेषणकर्तुं पारयिष्यन्ति | ध्यातव्यमिदं यत् बोर्ड-परीक्षायाा श्वो  प्ररब्धा  भविता | अस्यां परीक्षायां १०th १२th कक्षयो: छात्राः सम्मिलिताः भविष्यन्ति |
Episod 36, Abita Hallej, Sree Narayana U P School, Ayavana, Moovattupuzha, Ernakulam, Kerala.

Tuesday, March 7, 2017

160 जनानां प्राणापहरणे पाकिस्थानस्य हस्तक्षेपं व्यक्तीकृत्य दुरानी।
 नवदेहली>षट्षट्यधिकैकशत जनानां प्राणापहृत मुम्बाई भीकराक्रमणस्य पृष्टतः पाकिस्थानराष्ट्रं आस्थानीकृत्य प्रयतमाना भीकरसंघटना अस्तीति पाक् नयतन्त्रज्ञः महम्मूद् अलि दुरानी अवदत्। मुम्बाई आक्रमणस्य पृष्टतः लक्षर ई तोयिबा अस्तीति भारतस्य प्रस्तावं शाक्तीकुर्वन्ति दुरान्याः वाण्यः।सीमामुल्लंख्य कृतस्य आक्रमणस्य निदर्शनमासीत् तदिति सः एकोनविंशतितम ऐषियन् सुरक्षा परियोजनायां अभाषत। इदानीं पाकिस्थाने वर्तमानं हाफिस् सयिद् इति भीकरं प्रति तीव्रं दण्डनरीतयः पाक्सर्वकारः स्वीकुर्यादिति तेन उक्तम्।
२००८ तमे समुद्रेण आगतैः दश भीकरैः मुम्बाई नगरे आक्रमणं अकुर्यात्। तदानीं पाक् सुरक्षा उपदेशकः आसीत् अलि दुरानी। आक्रमणानन्तरं सप्राणग्रहीतस्य अज्मल् कसबिति भीकरस्य वधदण्डनं अभवत्।
आक्रमणानन्तरं पाकिस्तान दूरदर्शने आक्रमणमधिकृत्य मया कृताः प्रस्तावाः पाकिस्तानाय न अरोचत अत एव अहं स्वस्थानात् निष्कासितवानिति सः अयोजयत्। ग्रहीतः भीकरः अज्मल् कसब् पाक् नागरिकः इति वादेन तदान्तीन्तन पाक् प्रधानसचिवः यूसफ् रासा गिलानी दुरानिं स्थानभ्रष्टः अकरोत्।

अल्पिष्ठावशेषदण्डं ए टि एम् व्यवहारशुल्कं च निराकर्तुं सर्वकारस्य निर्देशः।
नवदिल्ली > वित्तकोशसंख्यानेषु अल्पिष्ठावशेषराहित्यस्य तथा  धनादानयन्त्राणि [एटिएम्] निश्चितवारैः अधिकम् उपयोक्तुं च धनशुल्कदण्डनाय वित्तकोशानां निर्णयं निराकर्तुं केन्द्रसर्वकारेण आदिष्टम्। वित्तकोशाधिकृतानां निर्णयं विरुध्य जनरोषः उद्भूतः। सञ्चयसंख्यानेषु (savings account) यैः अल्पिष्ठावशेषः न प्रतिपाल्यन्ते तेभ्यः २० - १०० रूप्यकाणां धनदण्डं स्वीकर्तुं निर्णयः कृतः आसीत्।
       तथा च भारतीय स्टेट् बैंकस्य धनादानयन्त्रेभ्यः प्रतिमासं पञ्चवारेष्वधिकानां व्यवहाराणां दशरूप्यकाणि स्वीकृतानि । एषः निश्चय अपि जनरोषाय कारणमभवत्। अत एव निर्णयस्य पुनःशोधनाय आदेशः कृतः।

Monday, March 6, 2017

कण्णूर् नगरे व्याघ्रस्य आक्रमणं -  व्रणिताः चत्वारः आतुरालयं प्रविष्टाः
कण्णूर्>कण्णूर्  रयिल् निस्थानस्य परिसरे विद्यमानः  रयिल् पारंगमन-द्वारसमीपे व्याघ्रस्य स्वैरविहारः। मोय्दीन् देवालय समीपस्थे सस्यगुञ्जेषु मध्यानानन्तरं त्रिवादने एव व्याघ्रः दृष्टः। व्याघ्रस्य आक्रमणेन व्रणिताः  चत्वाराः पथिकाः आतुरालयं प्रविष्टाः। एषु एकः बंगालराज्यस्थः भवति।

जनाः बहिः न गन्तव्याः। सदा जाग्रतया स्थातव्याः इति वनपाल विभागः निर्देशः अदात्। आरक्षकाः वनपालकाः अग्निशमन सेनानिनः च अष्टघण्टा पर्यन्तं प्रयत्नं कृत्वा व्याघ्रः गृहीतः।
शीघ्रम् आगतानां जनानां आक्रोशात् भीतः व्याघ्रः सस्यनिकुञ्जे निलीनः आसीत्। जनपदाधिकारिणः अनुज्ञया नालिकाशास्त्र-प्रयोगेण एव व्याघ्रः गृहीतः।


शौचकूपमालिन्यं नद्यां प्रक्षेप्तुमागताः  देशवासिभिः धाविताः। भारवाहनं पतितञ्च।
मलप्पुरम्> शौचकूपमालिन्यं नद्यां प्रक्षेप्तुमागताः देशवासिभिः जनैः धाविताः।रक्षापरिश्रमेण भारवाहनं   त्रिशत् मीट्टर अधः पतित्वा त्रयः क्षतजाः सञ्जाताः।निलम्बूर जिला आतुरालयस्थं शौचकूपमालिन्यं निष्कासयितुं समयार्जितं भारवाहनं शौचकूपमालिन्यं क्षेप्तुं कुतिरनद्याः वटपुरप्रान्ते आगतम्। देशवासिनां मेलनेन भारवाहनं झटिति तैः चालितम्।पञ्च जनाः आसन् भारवाहने। औडायिक्कल् क्षेत्रे पञ्च कि.मि दूरे जलप्रवाहः स्थगितः। तत्र मालिन्य-निक्षेपणमासीत् तेषां उद्देश्यम्।
 चतुः चत्वारिशत् नदीभिः सम्पन्नमपि जलदौर्लभ्येन तप्तं राज्यं भवति केरलम्। अत्रत्य ईदृशं जनविद्रोह कर्माणां तादृशनि दण्डनानि दातव्यानि यानि राष्ट्रविद्रोहिणां देयानि।

Sunday, March 5, 2017

केरलस्य आयव्ययपत्रम् - सार्वलौकिकमण्डलानाम् आधारसुविधाविकासाय प्राधान्यम्। 
अनन्तपुरी >स्वास्थ्य शैक्षिकादिषु  सार्वजनीनमण्डलेषु आधारविकासं लक्षीकृत्य केरलसर्वकारस्य आयव्ययपत्रं वित्तमन्त्रिणा डो.तोमस् ऐसक् वर्येण विधानसभायाम् अवतारितम्। आधारसुविधाविकासनिधिरेव  [किफ्बि] सुप्रधानपद्धतीनां वित्तस्रोत़रूपेण परिगण्यते।
प्रमुखपद्धयः - चिकित्सा कलालयेषु उच्चतरविद्यालयेषु च अध्यापकपदानि स्रक्ष्यन्ते।
स्त्रीसुरक्षार्थं नूतना पद्धतिः आविष्करिष्यते।

Saturday, March 4, 2017


गणितोत्सवे  रसकरं गणितम्।
कोच्ची >केरल-राज्ये सर्वशिक्षा अभियानस्य गणितोत्सवः समाप्ति प्रायः अभवत्, । अस्मिन् शैक्षिकसंवत्सरे सर्वशिक्षा अभियानेन विशेषतया आयोजिता योजना भवति गणितोत्सवम् । राज्यस्तरीय जनपदस्तरीय , उपजनस्थरीय उत्सवाः परिसमाप्ताः। अनन्तर-परिशीलनाय विद्यालयस्तरीययोजना आयोक्ष्यते।  एर्णाकुळेम् जनपदे आयोजितः गणितमहोत्सवः कोच्चि कोर्परेषन् भौतिक कार्य समित्याः अध्यक्षेन पि. एम् हारिस् महोदयेन उद्घाटनम् कृतम् । वार्ड् कौण्सिलर् एलिसबत्त् इटिक्कुळा अध्यक्षा रूपेण सन्निहिता आसीत् । गणितस्य सर्वाङ्गत्वमधिकृत्य तेवरा SH कलाशालायाः भूतपूर्व प्राचार्यः फा. डॉ. जोस् कुरियेडत्त् वर्यः भाषितवान्।  सर्व शिक्षा अभिथानस्य  योजनाधिकारिणी श्रीमती दीपा जि एस् महोदयया योजना विशदीकृता। BRC अधक्षा श्रीमति फौसिया मल्लिशेरी , लतिका पणिक्कर् प्रभृतयः भाग भाजः आसन् । छात्राः प्रत्येकं सज्जीकृते प्रकोष्टे गणित क्रिया: सोत्साहं कृतवन्तः I
चतुरधिकशतम् उपग्रहविक्षेपणम् अशनिपातः इव - अमेरिक्का ।
वाषिङ्टण् >एकस्यामेव विक्षेपिण्याम्   चतुरधिकशतम् उपग्रहाः। भारतस्य अपूर्वताफलप्राप्तिः  अस्माकं वज्रताडनमिव अनुभूयत इति अमेरिक्कायाः गूढान्वेषणविभागानां नियुक्ताध्यक्षः डान् कोट्स् इत्याख्यः उक्तवान्।
    विविधोद्देश्याः लघुशरीरिणः उपग्रहाः स्युः। परन्तु एकेनैव विक्षेपणेन एतावत्संख्यकाः उपग्रहाः भ्रमणपथमानीताः इति न सरलगणनीम् । सः अद्भुतं प्रदर्शितवान्।  व्ययं यावच्छक्यं न्यूनीकृत्य भारतेन मङ्गलयाने विक्षेपिते यू एस् माध्यमाः भारतम् कार्टूण् द्वारा उपहसितवन्तः आसन्। इदानीम् अमेरिक्कायाः सहिता षट् विदेशराष्टाणां एकोत्तरशतम् उपग्रहाः एव एकेनैव विक्षेपिण्या विक्षिप्ताः। अमेरिक्कन् माध्यमेभ्यः भारतेन प्रवृत्तिरूपेण दत्ता मधुरप्रतिकृतिः।

Friday, March 3, 2017

असहिष्णुता भारतीयमुखं नास्ति - राष्ट्रपतिः।
 कोच्ची >धर्म - संस्कृतिषु असहिष्णुता भारतसंस्कृतेः अनुयुक्तं मुखं नास्तीति राष्ट्रपतिः प्रणब् मुखर्जी अवोचत्। संवादैः सत्यान्वेषणमेव भारतस्य पारम्पर्यम्। वैविध्यानाम् आघोषैः जनाधिपत्यस्य शक्तीकरणमेव भारतस्य संस्कृतिरिति राष्ट्रपतिना उक्तम्। कोच्च्यां ले मेरिडियन् कण्वेन्षन् सेनटर् मध्ये सप्ततिसंवत्सराणां भारतम् इति विषये के एस् राजामणि स्मारक प्रभाणं कुर्वन्नासीत् मुखर्जीवर्यः। भारते अनेकाः भाषाः , उपभाषाः , संस्कृतयश्च सन्ति। एतासु या कापि विभागीयतायाः असहिष्णुतायाः वा प्रवक्त्री न। विद्यमानायाम् असहिष्णुतायां राष्ट्रस्य अस्तित्वं न भवेत्। अतः सर्वाणि वैविध्यानि एकत्वलक्ष्यकानि भवेयुःइति राष्ट्रपतिः उदबोधयत्।

मौबैल् बाड्गिङ् -इतः विनिमय शुल्कः न स्वीकुर्युः।
नवदेहली> येषां चलनदूरवाण्यः सन्ति सर्वेषां एतेषां कृते मौबैल् बाड्गिङ् सौविध्यं संस्थापनीयमिति अर्थालयान् प्रति केन्द्रसर्वकारः निर्देशम् अयच्छत्।
 मौबैल् बाड्गिङ् संविधानाय अस्मिन् मासस्य एकत्रिंशत् दिनाङ्गपर्यन्तं सामान्यजनानां कृते बहु प्रचारणं कार्यमित्यपि निर्देशः अस्ति।
  राष्ट्रे इदानीं १०८ कोटि चलनदूरवाणी उपभोक्तारः सन्ति।तेषु २८.५ कोटि समर्थदूरवाण्यः सन्ति।प्रायशः ११० कोटि आधारपत्राणि  अपि सन्ति ।एतेषां उपयोगः करणीयः। दूरवाणीसड्केतेन सह आधारपत्रस्य तथा क्रमसंख्यया सह बन्धनम् अर्थालयस्य उत्तरदायित्वं स्यात्।

संस्कृतम् उद्योगसाध्यताश्च-सङ्गोष्ठी समायोजिता
पिलात्तरा - भारतीयसंस्कृतमहाविद्यालयस्य वार्षिकाघोषेनानुबन्धत्वेन संस्कृतच्छात्रेभ्य: संगोष्ठी समायोजिता। संस्कृतम् उद्योगसाध्यताश्च इत्यस्मिम् विषये श्री शङ्कराचार्या संस्कृतसर्वकलाशालाया: व्याकरणविभागाचार्य: डा. एम्.वि नटेशन् महाशय: पत्रप्रस्तुतिम् अकरोत्। कण्णूर् विश्विद्यालयस्य  अनुसन्धानविभागाध्यक्ष: डा. पि. मनोहरन् महाशय: कार्यक्रमस्य उद्घाडानम् अकरोत्। कार्यक्रमे कलालयस्य प्राचार्या के.जयलक्ष्मी आध्यक्षमानहत्। श्रीमति श्रीविद्या स्वागतम् विष्णुप्रसाद् कृतज्ञतां च उक्तवन्तौ।
कार्यक्रमे शताधिकाः छात्रा: भाागग्राहिण: आसन्।

काबुल विस्फोटे षोडशजना: मृता:
अफगानिस्तानदेशस्य राजधान्यां काबुल नगरे बुधवासरे आतंकवादिनां भीरु आक्रमणेन् १६ जनानां मृत्यु तथा च बह्वोपि आहता: जाता:। अफगानिस्तानदेशस्य गृहमंत्रालय पक्षत: सूचनागतं यत् विस्फोटानन्तरं ५ निमेषाभ्यन्तरे य: विस्फोटं कृतवान् स: स्वयमेव अपगान् खुफिया एजेंसी इत्यस्य द्वारेव स्वयमपि मृतवान् ।

मनुष्याधिकार-आयोगस्य  रिक्ततस्तिकाः पूरणीयाः - सर्वोच्चन्यायालयः।
नवदिल्ली> राष्ट्रियमनुष्याधिकार आयोगे रिक्ततस्तिकाः एप्रिल् त्रिंशत् दिनाभ्यन्तरे  पूरणीयाः इति  सर्वोच्चन्यायालयेन निर्दिष्टाः केन्द्रसर्वकाराः। सर्वोच्चन्यायालयाधीशस्य जे . एस्. खेहरस्य अध्यक्ष्ये न्यायालयाध्यक्षः डि. वै चन्द्रचूडः भञ्जयकिषन् कोलः आदिभिः युक्तविभागोत्पीठिकया निर्देशः दत्तः।  सर्वोच्चन्यायालयस्य अभिभाषकेन राधाकन्त त्रिपाठिना दत्तायां सार्वजनिक तात्पर्यापेक्षायाम् एव परिहार निर्देशः।

Thursday, March 2, 2017

तमिल् नाटे पेप्सी कोला उत्पन्नानां विक्रयः समापितः।
चेन्नै> तमिल्नाट् राज्ये आपणेषु पेप्सी कोक्कोकोला इत्यादिशीतलपानीयानां विपणनं मार्च् प्रथमदिनाङ्कादारभ्य समापितः। सार्थवाहकसंघटनानां निर्देशमनुसृत्यैव अयं विक्रयनिरोधनिर्णयः। एतेषु संघटनेषु पञ्चदशलक्षाधिकाः अङ्गाः वर्तन्ते। सामाजिक - नैतिकसमस्याः एव अस्य निश्चयस्य प्रेरकशक्तिः। महत्या अनावृष्ट्या जनाः दुरितमनुभवन्ति। तदा भूगर्भजलरिक्तेन शीतलपानीयानि उत्पाद्य जनान् चूषयति।
     अपि तु एतादृशानि पानीयानि विषयुक्तानीति परिशोधनासु स्पष्टीकृतानि। एवं स्थिते तेषां विक्रयणं अपराधकरमिति वणिजां विश्वासः। अत एव विक्रयनिरोधः निर्णीतः।

ऐ एस् परिषदं निष्कासितुं यु एस् पद्धतिः सन्नद्धा।
वाषिड्टण्> इस्लामिक स्टेट् इति भीकरपरिषदं विश्वात् शीघ्रं निष्कासितुं यु एस् प्रतिरोधविभागेन निर्मितं प्रथमपद्धतिं सर्वकाराय समर्पितः।एषा न केवलं सेनापद्धतिः अपि तु सर्वकारस्य इतरान् विभागान् संयोज्य आविष्कृता अस्ति इति क्याप्टन् जेफ् टेविस् अवदत्।
   ऐ एस् अल् खोयिदा युक्त राष्ट्रान्तरे वर्तमानाः सर्वे भीकरपरिषदः अस्यां पद्धत्याम् अन्तर्भवन्ति।विश्वे भीकरप्रवर्तननिरताः सर्वे राष्ट्राः अस्यः परिधौ आगच्छन्ति।सर्वकारप्रतिनिधीनां चर्चायः अनन्तरं पद्धतिरस्याः अन्तिमं रूपं आविष्करोति।
   यदि मम अधिकारः ऐ एस् निष्कासनं करिष्यामीति ड्रंप् स्व चयनावसरे वाग्दानमकरोत्।गतमासे पेण्टगण् सन्दर्शनवेलायां त्रिंशत् दिनाभ्यन्तरे पद्धतिः निर्मातुं माट्टिसं अवोचत्।
 इराख् राष्ट्रस्य मोसूल्,सिरिया राष्ट्रस्य रखा च आगामिनि षण्मासाभ्यन्तरे ऐ एस् तः पुनः स्वीकर्तुं अस्ति यु एस् श्रमः।तदर्थं अॉधिकान् भटान् पृच्छेयः।

दिव्यांग टी-२० विश्वचषक विजेतृभि सह प्रधानमन्त्रे: मेलनम् 
नवदिल्ली>मंगलवासरे दिव्यांग टी-२० क्रिकेट विजेता दलसदस्या: प्रधानमंत्री नरेन्द्रमोदी महोदयेन सह मेलनं कृतवन्त:। एभि: दलसदस्येभि: अनुस्यूततया वारद्वयं ब्लाइंड टी-२० क्रिडाचषकं जितं वर्तते । प्रधानमन्त्रिणा मोदिना छायाचित्रमेकं संविभजन लिखितमस्ति "ब्लाइंड टी-२० विश्वचषक विजेता सदस्यै सह् अविस्मरणीयं पलं" इति । कार्यक्रमेस्मिन् क्रीडामंत्री विजय् गोयल् महोदय: अपि उपस्थित: आसीत् ।

पर्यावरणविभागस्य भविष्यवाणी अस्मिन्  वर्षे सामान्यत: अधिकम् उष्णं भविष्यति
नवदिल्ली>अस्मिनवर्षे पर्वतीयक्षेत्रेषु अधिकं शैत्यं अभवत् । प्राय: २५ वर्षाणां तुहिनपत्तनस्य स्तरं भग्नमभवत् । अनेन कारणेन समतलक्षेत्रेष्वपि वर्षेस्मिन् शैत्याधिकं आसीत् । शैत्यमधिकमासीत् इत्यस्मात् कारणात् एवं न चिन्तनीयं यत् अस्मिन् वर्षे उष्णम् अधिकं न भविष्यति इति । परञ्च अस्मिन् वर्षे अस्माभिः भीषणः उष्णस्य साक्षात्कार: करणीय: भवति इति पर्यावरण-विभागीयानां वक्तव्यमस्ति । एतै: उक्तम्  (मार्चमासात् मईमास पर्यन्तं) उष्णवायु: वाति अस्य लक्षणानि गते जनवरीमासेsपि अस्माभिः साक्षात् कृतानि । गतेषु  ११६ वर्षेषु जनवरी मास: अष्टम् सर्वाधिक मास: इत्यपि उक्तम् । भारतीय पर्यावरणविभाग- (आइएमडी)जनै: उक्तं उत्तर-पश्चिम् क्षेत्रेषु अस्य अधिक: प्रभाव: भविष्यति इति । अन्येषु अवशिष्टेषु क्षेत्रेषु सामान्यमेव तापमानं भविष्यति इति ।
आइएमडी जनै: उक्तं , 'पंजाब, हिमाचलप्रदेश, उत्तराखंड, दिल्ली, हरियाणा, राजस्थान, उत्तर प्रदेश, गुजरात, मध्य प्रदेश, छत्तीसगढ़, बिहार, झारखंड, पश्चिम बंगाल, ओडिशा और तेलंगानादिषु राज्येषु सामान्यत: अधिकम् उष्णं भविष्यति । एतदतिरिच्य मराठवाड़ा, मध्यमहाराष्ट्रे, विदर्भ , आंध्र प्रदेश जनै: भीषणस्य उष्णस्य साक्षात्कारं करणीयं भवति इति ।

Wednesday, March 1, 2017

 आकाशयन्त्रायै 60,000रुप्यकैः ग्लैडर् निर्मितिः
पळनि>पञ्चविंशत् वर्षीय डिण्डिगल् स्वदेशी अष्टमकक्ष्यापर्यन्तं पठितवान् के ए राजा ज्ञानप्रकाशः आकाशयन्त्रायै षष्ठिसहस्ररुप्यकैः ग्लैडर् निर्मितिः। पळनिसमीपस्थः एषः वयनूर ग्रामवासी त्रयोत्रिंशति वयसः आरभ्य ग्लैडर् निर्माणम् आरब्धवान् इदानीमेव सफलः अभवत्।एकस्य द्वयोः वा यात्रायै सक्षमं भवति इदम्। उन्नतसंख्याः  चतुलक्षरुप्यकाणि मूल्यत्वेन यस्मै स्वीकुर्वन्ति तत् षष्ठिसहस्रं रुप्यकैः एव निर्मीयते अनेन।

कार्षिकावश्यकायै उपयुज्यमानानि यन्त्राणि उपयुज्य एव निर्माणं कृतम्। वायुवेगतामापकं उन्नतिमापकं च अस्मिन्नस्ति। 60-70 किलोमीटर यावत् एतद्वाहनं डयितुं समर्थमस्ति। पञ्चशतं पादमिदोन्नतिं यावत् डयितुं कस्यापि अनुमतिः नावश्यकी। एकया होरया विंशत्युत्तर शतकिलोटर यावत् वेगेन डयेत् चतुर्दशलिटर् परिमितेन इन्धनतैलेन चतुर्घण्टाः यावत् इदं डयते।                       
सूर्यस्स रहस्यम् अध्येतुं नासा बहिराकाशपेटकंविक्षेपणं करिष्यति।
वाषिड्टण्>सूर्यस्य रहस्यम् अद्ध्येतुं बहिराकाशपेटकंविक्षेपणं करिष्यतीति नासा।यन्त्रमनुष्येण नियन्त्रितं पेटकं आगामिनि संवत्सरे प्रेषयितुमस्ति नासायाः निर्णयम्।पृथिवीतः पञ्चदशकोटि किमी दूरे अस्ति सूर्यः।षष्ठि लक्षं किमी समीपं यावत् गत्वा निरीक्षणं कर्तुं शक्यते इति विचारः।
प्रधानतया त्रीणि कार्याणि अद्ध्येतुम् उद्दिश्यते।सूर्यस्य अन्तरीक्षापेक्षया उपरिक्षेत्रे उष्णं कुतः  न्यूनं भवतीति क्लिष्टॉः प्रश्नःअस्ति प्रथमः।कोरोणा इति प्रथिते अन्तरीक्षे उष्णं विंशति लक्षं डिग्री चेत् उपरिक्षेत्रे फोटोस्फियरमद्ध्ये उष्णं केवलं ५५०० डिग्री अस्ति।सूर्यात् बहितः सर्वतः प्रति खण्डेषु दशलक्षं मैल वेगेन प्रसरिताः ऊर्जकणाः सन्ति।किन्तु तेषां एतावत् प्रसरणवेगं कुतः लभ्यते इति प्रश्नस्य समाधानान्वेषणं करिष्यति।कदाचित् सूर्यात् विनाशकाराः ऊर्जकणाः किमर्थं बहिर्गच्छतीति प्रश्नस्यापि अन्वेषणं करिष्यति।१३७० डिग्री पर्यन्तं उष्णसहनशेषिवन्तं पेटकं नासाद्वारा निर्मीयते।

ओस्कार् पुरस्काराः प्रख्यापिताः-  
मूण् लैट्  श्रेष्ठं चित्रं , डामियन् षासेल् निदेशकश्रेष्ठः।
होलिवुड् > २०१६ संवत्सरस्य ओस्कार्  पुरस्काराः प्रख्यापिताः। श्यामवंशीयस्य चरितप्रतिपादकं बारी जेन् किन्स् इत्यनेन निदेशितं  मूण् लैट् [ Moon Light] नामकं चलनचित्रं श्रेष्ठतमं निर्णीतम्। ला ला लान्ड् (La La Land) नामकचित्रस्य निदेशकः डामियन् षासेल् इत्यनेन  श्रेष्ठतमनिदेशकस्य पुरस्कारः प्राप्तः। ला ला लान्ड् चित्रस्य अभिनयेन एम्मा स्टोण् श्रेष्ठा अभिनेत्री रूपेण  समादृता। केसी अफ्लेक् श्रेष्ठनटः भविष्यति- चित्रं माञ्चस्टर् बै दि सी। ला ला लान्ट् षड् ओस्कार् पुरस्काराः लब्घाः!


" वृक्षरोपणेन प्रकृतिं संरक्षयन्तु " -  तालिबान्।
काबूल्> अफ्गान् भूमिं सुन्दरीं कर्त्तुं वृक्षरोपणाय उद्बोधनम् मकरोत् तालिबान् नेता हिब्बित्तुला अगुन्साद। राष्ट्रे सामान्याः सेनान्याः च  जनाः फलवृक्षान् अन्यवृक्षान् वा रोपयित्वा भूमेः सौन्दर्यं वर्धयन्तु इति नेतोः आह्वानम् ।

तालिबानस्य ओद्योगिक अन्तर्जाल-शृड़्खलाद्वारा एव आह्वानं रविवारे आगतम्। परिस्थिति संरक्षणम्, सामत्तिक विकसनम्, भूमेः सौन्दर्यवत्करणम् इत्यादिषुः वृक्षरोपणस्य प्राधान्यम् अतीव वर्तते इति तस्य अभिप्रायः। गत मईमासे सः तालिबानस्य नूतननेता इति पदवीम् आरूढवान्। तीव्रवादसड़्घनेतृत्वोपरि मतनेता इति परिवेषम् आर्जयितुं सः शक्तः अभवत्। क्रूरकृतचरित्रस्य तालिबानस्य अपकीर्तं दूरीकर्तुम् आगोलसमाजस्य पुरतः स्वीकार्यता लभ्यतायै च एषः परिश्रमः इति सर्वकारवृत्ताणाम् आरोपणम्। भीकरतया वननशीकरणात् भीता अफ्गानभूमिः। अनधिकृतदारुव्यवसाय एव वननशीकरणस्य प्रधानकारणम्।
Episode 35, Sanskrit News

Taraa G Std. 8, Bhavans Munshi Vidyasram, Thiruvankulam, Ernakulam, Kerala.

Tuesday, February 28, 2017

क्षालनयन्त्रे पतित्वा बालकयुगलौ मृतौ।
नवदिल्ली> पश्चिमदिल्ल्यां रोहिणी प्रविश्यायां त्रिवयस्कौ युगलबालकौ क्षालनयन्त्रे पतित्वा अकालमृत्युं प्राप्तौ। शनिवासरे मध्याह्ने आसीदियं दुर्घटना। यन्त्रे जलं पूरयित्वा फेनकचूर्णं क्रेतुं मातरि बहिर्गतवति एव बालकौ यन्त्रान्तर्भागं पतितवन्तौ।
निमेषाणामाभ्यन्तरे प्रत्यागता माता वत्सलौ अन्वीक्षणं कृतवत्यपि न दृष्टवती। वृत्तान्तं ज्ञात्वा आगतस्य भर्तुः मार्गणे अपत्यौ क्षालनयन्त्रान्तःप्रपूरिते जले पतितौ दृष्टौ।  झटित्येव आतुरशालां प्राप्तावपि तौ स्वर्गस्थौ आस्ताम्। रोहिणी प्रविश्यायां प्रथमखण्डे अवन्तिका आवासीयप्रकोष्ठे वसतोः रवीन्दर् राखी दम्पत्योः वत्सलापत्यौ  निषान्तः नक्ष्या नामकौ एव हतभाग्यौ अभवताम्।  शिशूनां संरक्षणविषये पितृॄणाम् अवधानता कीदृशीं सूक्ष्मतामर्हति इति इयं दुर्घटना अङ्गुल्या निर्दिशति।

श्रीपद्मनाभस्वामिमन्दिरसमीपे महती अग्निबाधा।
अनन्तपुरी>केरले श्रीपद्मनाभस्वामिमन्दिरस्य अतिसुरक्षामण्डलपरिसरे रविवासरस्य प्रत्यूषे महती अग्निबाधा सञ्जाता। मन्दिरस्य उत्तरद्वारे वर्तमानस्य पत्रालयस्य द्वे भवने अग्निसात्कृते जाते।
     मन्दिरस्य नियन्त्रणप्रकोष्ठस्थे सि सि टि वि संविधिनद्वारा एव अग्निज्वलनं प्रथमं दृष्टम्। वृत्तान्तं ज्ञात्वा अग्निशमनसेनायाः एकादश अंशाः  आगत्य होरात्रयेणैव अग्निशमनं कृतम्। षण्मासेभ्यः पूर्वमपि मन्दिरस्य पूर्वगोपुरसमीपं वर्तितायां वस्त्रसम्भरणशालायामपि अग्निबाधा सञ्जाता।
    घटनामधिकृत्य समग्रम् अन्वेषणं करिष्यतीति घटनास्थानं प्राप्तवता मन्त्रिणा कटकंपल्लि सुरेन्द्रेण उक्तम्।

वन्यजन्तवः तं मनुष्यं प्रतीक्षन्ते।
केनिया>केनिया राष्ट्रस्य सावो वेस्ट् राष्ट्रीयोद्याने संवत्सरेषु सन्दर्शकाः न आगच्छन्ति।किन्तु अत्रत्य नित्यसन्दर्शकः जलमनुष्यः इति प्रथितः पाट्रिक् किलोण्सो म्वावुला। पार्श्व ग्रामस्य कृषकः अस्ति सः। अगोलतापनेन केनिया ज्वलन्नवसरे वनान्तर्भागस्थानां जन्तूनां जलानयनकर्म सः स्वयं स्वीचकार। एषः कृषकः प्रतिदिनं किञ्चित्कालं एतेषां वनजन्तूनां कृते जलानयनाय उपयुज्यते। भाटकारूपेण स्वीकृतेन यानजलेन त्रिदिनं ३००० ग्यालन् जलं सः जलसंभरण्यां आनयति। उष्णबाधिते भूमौ तस्य आगमनं प्रतीक्ष्य शताधिकाः वनजन्तवः श्रेण्यायन्ते। गजाः,वनमहिषाः, रेखाड्किताष्वाः च तेषु अन्तर्भवन्ति। पातुं कणमपि जलरहिते अस्मिन् कानने म्वावुला अस्ति वनस्स रक्षकः।
   वनाय तथा वनजन्तवे अतीव स्निह्यमानस्य म्वावुलस्य कर्माणि अधिकृत्य श्रुताः तिस्रः विदेशयुवतयः साहाय्यवाग्दानम् अकुर्वन्। तस्य कर्मभ्यः गो फण्ट् मी इति धनसमाहरणमपि प्रारभत। म्वावुलाय नवीन यानजलस्य विक्रयणमस्ति आगामि सोपानम्।

Monday, February 27, 2017

राष्ट्रं तन्त्राधिगमयुगं प्रति प्रधावति- मन की बात कार्यक्रमे प्रधानमन्त्री।
नवदेहली>चतुरधिकैकशतान् उपग्रहान् समाहत्य विक्षिप्य ऐ एस् आर् ओ ऐतिहालसिकं प्राधान्यं प्रप्राप। सः स्तुत्यर्हमस्तीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्।तेषु कैर्टोस्टाट् श्रेण्याम् अन्तर्गतम् उपग्रहं कृषकाणाम् अत्यन्तम् उपकारकमिति तैः उक्तम्।स्व प्रतिमास आकाशवाणी कार्यक्रमं मन की बात कार्यक्रमं जनान् अभाषयन् आसन् ते।
  उपग्रहविक्षेपेणेन सह तस्य कर्मेषु आद्यन्तं प्रयतन्त्यः अस्माकं प्रगल्भवत्यः युवत्यः शास्त्रकारिण्यः सन्ति।अत एव एतत् दौत्यं अतीव मोददायकमिति तैः उक्तम्।अस्माकं समाजम् अतिशीघ्रं तन्त्राधिगमयुगं प्रति प्रधावति।दूरवाणीमुपयुज्य आर्थिकविनिमयरीतयः राष्ट्रं अभ्यसन् अस्तीति सः अयोजयत्।

व्याज-रुप्यकपत्राणि विनिमय-यन्त्रात् (ATM) लब्धानि
नव दिल्ली > एस् बी ऐ वित्तकोशस्य धनविनिमययन्त्रात् द्विसहस्रसंख्यायाः व्याजरुप्यक-पत्राणि लब्धानि। उत्तरप्रदेश् राज्यस्य षहान् पुर देशस्थ ATM यन्त्रात् एव एतादृशानां रुप्यकपत्राणाम् उपलब्धिः। पुनीत् गुप्ता नामकेन विनिमययन्त्रात् गृहीतेषु पञ्चसु द्विसहस्राणां रुप्यकपत्रेषु चत्वारि पत्राणि व्याजानि आसन्।
कतिपयदिनात् पूर्वं नवदिल्यामपि एतादृशा घटना जाता। तद्देशीयानां प्रतिषेध प्रकाशनानन्तरम् आरक्षकैः एकः ग्रहीतः। एषः एव यन्त्रे अन्तिमं धनपूरणं कृतवान्।

भारतसंस्कृतिः वैविध्याधिष्ठिता - नरेन्द्रमोदी।
कोयम्पत्तूर्> भारतसंस्कृतेः सार्वकालिकसविशेषता अस्ति वैविध्यमिति प्रधानमन्त्री नरेन्द्रमोदी। तमिल् नाट् राज्ये कोयम्पत्तूर् जनपदे वेल्लियङ्किरि पर्वतसानुप्रदेशे विद्यमाने ईषा योगकेन्द्रे स्थापितस्य द्वादशोत्तर-शताधिकपादसमुन्नतस्य आदियोगिनः [भगवतः परमेश्वरस्य] प्रतिमाम् अनावरणं कृत्वा भाषमाण आसीत् मोदिवर्यः।
    "परमेश्वरस्य गले पन्नगः विभूषणमस्ति। स्वस्यापत्ययोर्मध्ये गणेशस्य वाहनं मूषकः, षण्मुखस्य वाहनं मयूरश्च। मूषकसर्पमयूराणां शत्रुता विदिता एव। किन्तु परमेश्वरस्य अपत्यभावेन एते ऐकमत्येन वर्तन्ते स्म। एतत् वैविध्यं स्वांशीकर्तुम् अस्माकं संस्कृतिः अस्मान् उपदिशति - प्रधानमन्त्री अवदत्"।
       ईषा योगकेन्द्रस्य आश्रमम् अवलोक्य आरत्यादिषु कार्यक्रमेषु भागं गृहीत्वा एव मोदिवर्यः वेदिकां प्राप्तः। योगानुष्ठानमधिकृत्य ग्रन्थस्य प्रकाशनमपि तेन कृतम्।
    योगविद्यायाम् आदियोगिनः योगदानं महत्तरमिति ईषायोगकेन्द्रस्य स्थापकः सद्गुरुः जग्गी वासुदेवः अब्रवीत्। राज्यपालः सि विद्यासागररावः , मुख्यमन्त्री एडप्पाटी पलनिस्वामी , केन्द्रमन्त्री पोन् राधाकृष्णः , पोण्टिच्चेरी राज्यपालिका किरण् बेदी इत्यादयः कार्यक्रमे सान्निध्यमकुर्वन्।

ऐ एस् संबन्धः - केरलात् अप्रत्यक्षेषु एकः हतः।
कासर्कोड् > केरलतः ऐ एस् नामिकायाः भीकरसंस्थायाः शिबिरं प्राप्तवत्सु द्वाविंशतिषु युवकेषु एकः हत इति बन्धुजनेभ्यः सूचना प्राप्ता।
    कासर्कोड् जनपदस्य पटन्ना प्रान्तीयः टि के हाफिसुद्दीनः एव गतदिने "ड्रोण् "नामकस्य स्वयंप्रेरितविमानस्य आक्रमणे हत इति "टेलिग्राम् मेसेञ्जर्" योजनद्वारा सन्देशः लब्धः। शिबिरवासिना अन्येन केनचित्  मित्रेणैव सन्देशः प्रेषितः। किन्तु घटना कुत्र सम्पन्नेति न स्पष्टीकृतम्। मृतदेहसंस्कारादिक्रियाः समाप्ताः इति सूचितमस्ति।
    हाफिसुद्दीनः हत इति वृत्तान्तम् आधारीकृत्य "एन् ऐ ए" तथा "रो" संस्थाभ्यां अन्वेषणम् आरब्धम्।

 वार्तामुक्तकानि
अगर्त्तला >अरुणाचलप्रदेशे तथा त्रिपुरायां च शनिवासरे भूकम्पः सञ्जातः। जीवहानिः द्रव्यहानिर्वा अजायत इति सूचना नास्ति। अरुणाचले भूकम्पः रिक्टर् मापिकायां ३.५ रेखितः । त्रिपुरायां तु ४ रेखितः।

चण्डीगड् > हरियानायां जाट् वर्गैः रविवासरे श्यामदिनम् आचरितम्। स्वसमुदायेन उन्नीतानि आवश्यकानि अङ्गीकर्तुं राज्यसर्वकारस्य विमुखतां विरुध्य आरब्धम् आन्दोलनं शनिवासरे २८ दिनानि अतीतानि।

राञ्चि > झार्खण्ड् राज्ये राञ्ची प्रविश्यातः पञ्च मावोवादिनः आरक्षकैः निगृहीताः। एतेभ्यः लघुलेखाः भुषुण्ड्यादि आयुधानि च प्रगृहीतानि।

Sunday, February 26, 2017

वंशीयविद्वेषः - अमेरिक्कायां भारतीयः भुषुण्डिप्रयोगेण हतः।
वाषिङ्टण्> अमेरिक्कायां कान्सस् प्रविश्यायां भारतीयं तन्त्रवैज्ञानिकं [ ] भूतपूर्वः यू एस् नाविकोद्योगस्थः भुषुण्डिप्रयोगेण मारितवान्। हैदराबाद् स्वदेशीयः श्रीनिवास एव हतभाग्यः। वंशीयविद्वेष अस्ति हननकारणमिति सूच्यते।
    किन्तु वधोद्यमात् भारतीयं रक्षितुम् उद्युक्तःअन्यः अमेरिक्कादेशीयः इयान् ग्रिलोट् नामकः भुषुण्डिप्रयोगेण व्रणितः तीव्रपरिचरणविभागे वर्तते। भुषुण्डिप्रयोगं कृतवान् आदं प्यूरिन्टण् नामकः तदनन्तरं मिसौरी प्रदेशात् आरक्षकैः गृहीतः।

साङकेतिकविदग्धानां भारतीयानां अवगणना अबद्धा सञ्ज्ञाता इति चीना देशः।  
बेय्जिङ्> शास्त्रसाङ्‌केतिकस्तरेषु विद्यमानान् भारतीयान् विदग्धान् उद्दिश्य कृता अवगणना अबद्धा सञ्जाता इति चीना देश:। नूतन कार्याणि आविष्कृत्य राष्ट्रस्य पुरोगमनसामर्थ्यं प्रतिष्ठापनीयं चेत् उच्चस्तरीयाः भारतीया: साङ्केतिकविदग्धा: चीना देशं प्रति आकर्षणीयाः इति औद्योगिकमाध्यमं आवेदयति स्म। भारतीयानां अवगणनाम् अनुवर्तयन् चीना देशः तत्स्थाने अमेरिक्का यूरोप् इत्यादीनां देशानां विदग्धानां कृते एव प्रामुख्यम् अयच्छत् इति ग्लोबल् टैंस्  पत्रलेखनं वदति।

साङ्केतिकस्तरे अत्युच्चस्थानप्राप्तिः एव समीपदिनेषु  अयं देशः साक्ष्यमावहति। विदेशानम् । गवेषणविकसनकेन्द्राणाम्  अति प्रियं केन्द्रमासीत् चीनादेशः। किन्तु काचित् हैटेक् संस्थाभिः चीनादेशतः तासाम्  अवधानं भारतं प्रति परिवर्तितम्। भारते कर्मकराणां वेतनं अल्पमेव इति अस्य कारणम् । नवीनाशयान् प्रवृत्ति पथमानेतुं चीनादेशस्य अग्रे विद्यमानेषु मार्गेषु अन्यतम: भवति भारतीयानां विदग्धानां चीनादेशं प्रत्यानयनम् ।

अमेरिकायां विद्यमानस्य टेक्नलजीस् इत्यस्य चीना देशस्थं गवेषणविकसनकेन्द्रं पिहितम् इति वार्तायाः समनन्तरमेव ग्लोबल् टैंस् पत्रस्थम् इदं लेखनम् । किञ्च सि ए टेक्नोलजीस् इत्यस्य भारतस्थम् केन्द्रं प्रवर्धमानमस्ति इत्यपि आवेदनानि आसन् ।

वनाग्निना उपसहस्रं हेक्टर् परिमितं वनं केरले विनष्टम्। 
कोच्ची >मासद्वयेन अनुवर्तमानेन बडवानलेन केरलानां द्विसप्तत्यधिक नवशतं हेक्टर् परिमितः वनसञ्चयः केरलाय विनष्ट इति औद्योगिकवृत्तान्तः। द्वादशसंवत्सराभ्यन्तरे सञ्जातः बृहत्तमः विनष्टः एष इति वनसंरक्षणविभागाधिकृतैः सूचितम्। राज्ये वर्धमानः अतितापः तदनुसृत्य प्रतिरोधपदक्षेपानाम् अभावश्चास्य कारणम्।

Saturday, February 25, 2017

सप्तग्रहैः सह नूतनं नक्षत्रम् । 
वाषिङ्टण् >भूमिं विहाय जीवस्पन्दः विद्यमानः कोऽपि ग्रहः द्रक्ष्यति इति अन्वेषणात्मकं नूतनं अनुसन्धानम्। नासया कृतान्वेषणे भूपरिमिताकारयुतं सप्तग्रहान् परितः भ्रमन्तः नक्षत्रयूथः दृष्टः। एषु ग्रहेषु त्रिषु अपि जीवानुकूलवातावरणमिति अनुमीयते। नासायाः स्पिट्टर् नाम दूरदर्शिन्याः साह्येन एषा सविशेषता दृष्टा। भूमीतः चत्वारिंशत् प्रकाशवर्षदूरे सौरयूथस्य समानरीत्या परिभ्रमन्ताः ग्रहाः दृष्टाः। विद्यमानानं ग्रहाणां भूसमानाः आकाराः सन्ति।ट्रापिस्ट् वण् इति नामकम् नक्षत्रं परित एव ग्रहाणां सञ्चारः। सूर्यादपि लघु भवति एतत् नक्षत्रम् । एषु ग्रहेषु त्रिषु ग्रहेषु जीवानुकूलावस्थाः सन्ति। इदानीं जीवः नास्ति चेदपि भाविनिकाले भवितुमर्हति इति वैज्ञानिकैः उच्यते। 

कौमारकायिकोत्सवः - विजयपीठे केरलम्।
वडोदरा> देशीयजूनियर् अत्लटिक् मेलायां केरलराज्यस्य किरीटप्राप्तिः। द्वादश सुवर्णपतकानि , पञ्च रजतानि ,सप्त कांस्यानि च प्रथमस्थानं प्राप्तस्य केरलस्य शोभां वर्धयति। द्वितीयस्थानं प्राप्तेन हरियाना राज्येन सुवर्ण-रजत-कांस्यानि यथाक्रमं चत्वारि-पञ्च-पञ्च इति रीत्या प्राप्तानि। तृतीयस्थानं दिल्ली राज्येन करस्थीकृतम्।

अभिनेत्र्याक्रमणविषयः - निलीतवन्तौ अपराधिनावपि गृहीतौ।
कोच्ची> प्रसिद्धा दक्षिणभारतचलच्चित्राभिनेत्री कोच्चीनगरे आक्रमणविधेया अभवत् इत्यस्मिन् विषये सर्वे अपराधिनः आरक्षकैः निगृहीताः। साप्ताहिकं यावत् गूढसङ्केते उषितवन्तौ पल्सर् सुनी इत्याख्यः सुनिल्कुमारः , विजीष् इत्याख्यश्च ह्यः एरणाकुलं न्यायालयपरिसरे गृहीतौ।

 संस्कृतनाट्यसमारोहः समायोक्ष्यते
नवदिल्ली> नवदिल्लीस्थेन राष्ट्रिय-संस्कृतसंस्थानेन चतुर्दश-संस्कृतनाट्यसमारोहः दिल्ल्याम् छावनीक्षेत्रे द्वितीयसंख्याके केन्द्रियविद्यालयीये डॉ. सर्वपल्लीरधाकृष्णन् सभागारे समायोसमायोक्ष्यते| समारोहायोजनस्यानुष्ठानात् प्राग् दिल्ल्यां शुक्रवासरे प्रेसक्लब मध्ये  वार्ताहर-सम्मेलनमेकं प्रवर्तितं। तत्र च संस्थानस्य कुलपतिना प्रो. परमेश्वरनारायणशास्त्रिणा, नाट्य-महोत्सवसंयोजकेन प्रो. रमाकान्त-पाण्डेयवर्येण, पत्रकारा: समारोहस्यायोजनविषये सम्बोधिता:।
  संस्थानस्य कुलपतिना विज्ञापितं यत् ऐषमो नाट्य- आयोजनं विशिष्टं वर्तते। यतोहि ऐषमो वर्षे अद्यावधिम् यावत् अभिनीत-नाटकानां संख्या सार्द्धैकशतमिता भविष्यति। अस्मिन् वर्षे समसामयिक-संस्कृतनाट्यरचनानाम् मञ्चनं भविष्यति। ध्यातव्यं यत् समारोहस्यास्य आयोजनं अस्य मासस्य सप्तविंश दिनाङ्गात् मार्चमासस्य प्रथमदिवसम् यावत् भविष्यति।

Friday, February 24, 2017

नूतनं सहस्रं न प्रकाशयिष्यते। 
 नवदिल्ली> सहस्ररूप्यकाणां नूतनानि मुद्रापत्राणि न प्रकाशयिष्यन्ते इति केन्द्रवित्तमन्त्रालयेन निगदितम्। पञ्चशतमूल्यकानां तदूनमूल्यकानां च मुद्रापत्रकानां प्रकाशनाय एव जाग्रतां दास्यतीति वित्तकार्यसचिवः शक्तिकान्तदासः उक्तवान्। धनप्रत्यर्पणयन्त्रेषु [ए टि एम्] इदानीं यथेच्छं धनमस्ति। यन्त्रेषु धनपूरणमधिकृत्य अधिक्षेपाः परिहृतप्रायाः वर्तन्ते इति च तेन स्पष्टीकृतम्।

राजनैतिकहत्यासु अनुयायिनः आमिषतां यान्ति - उच्चन्यायालयः।
कोच्ची>राजनैतिकसंहिताः मानवराशेः उन्नमनायेति सत्यं विस्मृत्य सामान्यजनेषु वैरचिन्ताम् उत्पाद्य परस्परहननाय नेतारः प्रेरयन्तीति केरलस्य उच्चन्यायालयस्य निरीक्षणम्। राजनैतिकदलानां आध्यक्ष्यं वहन्तः नेतारः हिंसाकर्मणाम् आसूत्रणं कृत्वा सुरक्षिताः वर्तन्ते। केवलम् अनुयायिनः भटाः एव  द्विषामामिषतां यान्ति। ततः तेषां नाम्नि बलिदिनाचरणं कृत्वा नक्राश्रुं वर्षन्ति च।
    कण्णूर् जनपदे पानूर् अशोकः इत्यस्य हत्याविषये तलश्शेरी सेषन्स् न्यायालयस्य आदेशं विरुध्यमानां याचिकाम् अङ्गीकृत्य आसीत् नीतिपीठस्य इदं निरीक्षणम्।

Thursday, February 23, 2017

 पाकिस्थान् न्यायालये आत्मघात्याक्रमणं - सप्त मारिताः।
ताङ्गि>उत्तरपाकिस्थानस्थे चर्सदा जनपदे ताङ्गि प्रविश्यायां कस्मिंश्चित् न्यायालये संवृत्ते आत्मघातिसङ्घस्य आक्रमणे सप्त जनाः मारिताः , पञ्चदशाधिकाः व्रणिताश्च। न्यायालयाङ्कणम् अतिक्रम्य प्रविष्टवन्तः त्रयः भीकराः सुरक्षासेनां प्रति भुषुण्डिप्रयोगं कृतवन्तः ग्रनेड् शस्त्राणि विक्षिप्तवन्तः च। आक्रमणस्य उत्तरदायित्वं पाकिस्थान् तालिबानस्य जमा अत् उल् अह्रर् नामकेन विभागेन स्वीकृतम्। आरक्षकैः सह संघट्टने द्वौ भीकरौ मृतौ। तृतीयस्तु न्यायालयाद् बहिः स्वयमेव विस्फोटने भग्नीकृतः। अष्ट किलो.परिमितं स्फोटकवस्तूनि एकैकस्य भीकरस्य सकाशे आसन्निति सुरक्षाविदग्धैः निगदितम्।पाकिस्थानस्य प्रधानमन्त्रिणा नवास् षरीफेन आक्रमणमिदम् अपलपितम्।
सर्वासां समस्यानां समाधानं गीता
लखनऊ>संस्कृतभारत्या अवधप्रान्तान्तर्गतं लखनऊदक्षिणम् इत्यस्य तत्त्वावधाने २०-२२ फरवरी २०१७पर्यन्तं नाबार्डपरिसरे त्रिदिवसीय: गीताशिक्षकप्रशिक्षणं समग्रचिन्तनञ्चेति आवासीय: वर्ग: आयोजित:। वर्गेऽस्मिन् प्रायेण ३५ प्रतिभागिन: प्रशिक्षणं प्राप्तवन्त: येषु वित्तकोषाधिकारिण: आयुक्तचरा: अभियन्तार: व्यवसायिन: शोधच्छात्रा: वाक्कीलाश्चेत्यादय आसन्।
वर्गे गीतापारायणं व्याकरणस्वाध्याय: आकांक्षापद्धत्या गीतामन्त्राणां व्याख्या समत्वयोग: दैवीसम्पत् गीतारामचरितमानसयो: तुलनात्मकविमर्श: मोक्षमार्गश्चेति विषयेषु विशेषज्ञानामुद्बोधनानि च जातानि।
उद्घाटनसत्रे सभाध्यक्ष: दयानन्द इण्टरकॉलेज इत्यस्य प्रधानाचार्य: श्री राम उजागरशुक्ल: मुख्यवक्ता च संस्कृतभारत्या: उत्तरप्रदेशोत्तराञ्चलयो: सङ्घटनमन्त्री डॉ. सञ्जीवराय आसीत्। अवधप्रान्तस्याध्यक्षस्य श्री शोभनलाल उकिलमहोदयस्य सान्निध्यम् आसीत्।
समारोपसत्रे सभाध्यक्षपदं लखनऊविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचर: डॉ. कृष्णकुमारमिश्र: मुख्यवक्तृपदं डॉ. कन्हैया लाल झा विशिष्टातिथिपदञ्च ज्योतिर्विज्ञान-विभागस्य सह- आचार्य: डॉ. विष्णुकान्तशुक्लोऽलञ्चक्रु: ।
वर्गस्य विविधसत्रेषु काशी गोरक्षपुरं कानपुरम् अवधश्चेति प्रान्तेभ्य: समागता अधिकारिण: डॉ. सञ्जीव राय: डॉ. कन्हैयालाल झा श्री शोभनलाल उकिल: श्री प्रकाश झा च प्रशिक्षणार्थिन उद्बोधितवन्त:।
वर्गस्य संयोजनं श्रीशीतल प्रसादवर्मा सहसंयोजनञ्च श्री सहदेवसिंह कुशवाह: कृतवन्तौ।

 नगरमार्गे महती अग्निबाधा - कोटिरूप्यकाणां विनष्टः।
कोष़िक्कोट्> केरलस्य कोष़िक्कोट् नगरस्थे मिठायित्तेरुव् नामके प्रशस्ते पैतृक संरक्षितमार्गे संञ्जाताया महत्या  अग्निबाधया एककोट्यधिकरूप्यकाणां नाशनष्टाः सम्भूताः। मार्गपार्श्वस्थे बहुश्रेणीभवने वर्तमाना तान्तवव्यापारशाला पूर्णतया भस्मीकृता। बुधवासरे प्रभाते सार्धैकवादने आसीत् अनलबाधा। जीवहानिः न सञ्जातः।

Wednesday, February 22, 2017

चलनचित्रम् 'इति वार्ताः'

विजय् मल्यां भारताय दीयते- ब्रिट्टन्। आधारपत्राणि अपृच्छत्।
नवदेहली>नवसहस्रकोटि रुप्यकाणां र्णभारेण भारतात् पलायितं विवाद व्यवसायिं विजय् मल्यां भारताय दातुं सन्नद्धः इति ब्रिट्टन् राष्ट्रः।मल्या संबन्धि पत्राणि दातव्यानि इति सभारतं प्रति ब्रिट्टन् अपृच्छत्।धनदातॄन् अर्थालयान् वञ्चयित्वा २०१६ मार्च् मासे मल्या भारतात् अपलाययत्।
  भारत यूके परस्पर नियम सामान्य रीति(MLAT)भागत्वेन मल्यां भारतं आनयनं कार्यं इति इति निर्देशेन एण्डोर्स्मेण्ट् डयरक्ट्रेट्(ED)मुम्बाई विशिष्ट न्यायालये आवेदनं असमर्पयत्।न्यायालयेन अस्य अड्गीकारः अदात्।
 ब्रिट्टन् राष्ट्रात् पञ्च अड्गप्रतिनिधयः अस्मिन् विषये ह्यः अद्य च नवदेहल्यां चर्चांम् अनयन्।भारतस्य गृह नियम सचिवालय प्रतिनिधयः सीबीई इटी प्रतिनिधयः च चर्चायां भागम् अभजन्।
गत नवंबरमासे यूके प्रधानसचिवस्य तेरेसा मे महोदयस्य भारतागमनवेलायां अस्मिन् विषये चर्चां कर्तुं निर्णितमासीत्।मल्या सह षष्ठि जनान् दातव्यमिति भारतेन वाञ्चितमासीत्।भारतात् सप्तदशजनान् दातव्यमिति ब्रिट्टन् राष्ट्रेणापि निर्दिष्टमासीत्।

शबरिगिरिं महिलाप्रवेशः - निर्णयः शासनसंविधानपीठेन।
नवदिल्ली> दक्षिणभारते प्रशस्तं तीर्थाटनस्थानभूतं शबरिगिरिं महिनानां प्रवेशाय अनुज्ञा दातव्या न वेति विषये परमोन्नतनीतिपीठस्य शासनसंविधानविभागेन निर्णयः करिष्यतीति न्याया.दीपक् मिश्रा वर्यस्य आध्यक्ष्ये वर्तमानेन त्र्यङ्गनीतिपीठेन उक्तम्।
     शबरिगिरौ धर्मशास्तृसन्निधाने दशतः आरभ्य षष्टिवयःपर्यन्तानां महिलाजनानां प्रवेशः आचारानुष्ठानरीतिमनुसृत्य इदानीं निषिद्ध अस्ति। किन्तु भारतशासनानुसृतं वैयक्तिकस्वातन्त्र्यं पूर्वोक्तानां भक्तानामपि अधिकारः इति काचन याचिका अस्ति। तथा शबरिगितीर्थाटकानां अधिकारः संरक्षणीय इति प्रतिवादश्चास्ति। शासनानुसृतं वैयक्तिकस्वातन्त्र्यं आचारानुष्ठानैः तरणं कर्तुं शक्यते वेति शोधनीयमिति राज्यसर्वकारेणापि निर्दिष्टमस्ति। एवं स्थिते सति विषयः शासनसंविधानपीठेनैव निर्णेतव्य इति परमोच्चन्यायालयेन निर्णीतः।

ट्रम्पस्य एकमासस्य व्ययः = ओबामायाः एकस्य संवत्सरस्य व्ययः
वाषिङ्टण्>यू एस् राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः  जीविनव्ययः अत्यधिकः भवति। अस्य तथा कुटुम्बस्य च एकस्य मासस्य यात्राव्ययः ६५ कोटि रुप्यकाणि अभवत्। किन्तु भूतपूर्वराष्ट्रपतेः एकस्य संवत्सरस्य यात्राव्यस्य तुल्यः एव। ट्रम्पं विहाय तस्य पुत्रस्य वाणिज्यसंबन्धयात्रायाः व्ययः अपि वैट्हौस् द्वारा प्रचलति इति श्रूयते।



Episode 34- Sanskrit News
Fathima Mundeth, Std 8, Brahmanandodayam HS, Kalady, Ernakulam, Kerala.

Tuesday, February 21, 2017

 भारते विनिमयाय सहस्र कोटि रूप्यकाणां व्याजरूप्यक पत्राणि
 नव दिल्ली > भारतेषु निलीय विनिमयाय सहस्रकोटि रूप्यकाणां व्याजपत्ररूप्यकाणि पाकिस्थाने सज्जीकृतानि। रावल्पिण्ड्यां एव व्याजधनस्य मुद्रणं कृतम् । विविधानां चारकर्मकराणां विभागेन सह व्याजरुप्यक पत्राणां विनिमयः उद्दिश्यते इति भारतस्य बौद्धिक प्रमुखानां (IB)उल्लेखः वर्तते। व्याज रूप्यकद्वारा ग्रहीतौ अमानुल्ला खालिद् इत्येतौ प्रति कृते प्रतिभाषणे एव अभिज्ञानं लब्धम्।
व्याज मुद्रापत्राणि रावल्पिण्टीतः दुबाय् आनयति। ततः बंल्लादेशं ततः भारतं च । एतदर्थं पाकिस्थानस्य 'विसा' उपयुज्यते। एतदधिकृत्य पश्चिमबंगालस्य आरक्षकेभ्यः निर्देशः दत्तः आसीत् । तथापि अचित प्रतिक्रिया नासीत् इति रहस्यविज्ञानकेन्द्रेण (IB) उक्तम् ।

नागालान्ट् मुख्यमन्त्री टि आर् सेलियाङ् त्यागपत्रं समर्पितवान्।
कोहिमा> नागालान्ट् राज्यस्य शासनप्रतिसन्धिः समाप्यते इति सूचयित्वा मुख्यमन्त्री टि आर् सेलियाङ् स्वस्थानम् अत्यजत्। राज्यपालेन पि बि आचार्येण त्यागपत्रं स्वीकृतमिति औद्योगिकवृत्तैः सूचितम्। राज्यस्य एकैकः लोकसभाङ्गः नेय्फु रियो आगामी मुख्यमन्त्री भवेत्।

Monday, February 20, 2017

यू पि तृतीयपादं - मतदानं प्रतिशतम्  एकषष्टिः।
लख्नौ>उत्तरप्रदेशे विधानसभानिर्वाचनस्य तृतीयसोपानं समाप्तम्। प्रतिशतम् एकषष्ट्यधिकं  मतदातारः स्वाभिमतं कृतवन्तः। एकोनसप्ततिषु मण्डलेषु आसीत् तृतीयपादे निर्वाचनं संवृत्तम्। ८२६ स्थानाशिनः स्पर्धारङ्गे आसन्।

 न्याया. अल्त्तमास् कबीर् दिवंगतः।
कोल्कोत्ता> सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधिपः अल्त्तमास् कबीर् निर्यातः। अष्टषष्टिवयस्कः सः वृक्करोगबाधया कोल्क्कोत्तायाम् आतुरालये चिकित्साश्रितः आसीत्।
     द्वादशोत्तर द्विसहस्रतमे संवत्सरे भारतस्य नवत्रिंशत्तमः मुख्यन्यायाधिपरूपेण नियुक्तः सः मानवाधिकार निर्वाचनादि विषयेषु नीतियुक्ताः सुप्रधानविधयः प्रकाशितवान्।



उच्चन्यायालयेषु हिन्दी भाषा तथा आन्याःप्रान्तीयभाषाः अपि उपयोक्तव्याः - विधानसभा कार्यसमितिः ।
नव दिल्ली > हिन्दीभाषा तथा आन्याः  प्रान्तीयभाषा अपि उच्यन्यायालयेषु उपयोक्तव्याः इति विधानसभासमितिना निर्दिष्टः। नीतिसंविधानस्य अनुज्ञां विना कार्यनिर्वहणाय केन्द्रसर्वकारस्य अधिकारः आस्ति इति समित्या अभिप्रेतम्। इदानीं सर्वोच्च न्यायालयेषु तथा राष्ट्रस्य २४ उच्च न्यायालयेषु च आङ्गलेय भाषायामेव विधिन्यायाः प्रस्थाप्यन्ते| कोल्कत्त, मद्रास्, गुजरात्, छत्तीस्गढ् , कर्णाटक उच्च न्यायालयेषु प्रान्तीयभाषाः उपयोक्तव्याः इति आवेदनं सर्वकाराय लब्धमासीत्। किन्तु निवेदनानि सर्वाणि सर्वोच्चन्यायालयेन निरस्थानि। भारतसंविधानस्य ३ ४८ तम विभागानुसारं उच्च न्यायालयेषु पट्टिकायं अन्तर्गतभाषायाः उपयोगाय  न्यायाधीशेन सह चर्चा न आवश्यकी।

Sunday, February 19, 2017

विश्वासमतं प्राप्य पलानीस्वामी शपथ: ग्रहीतवान् ।
चेन्नै >दशदिनानि यावत् तमिलनाडु राज्ये राजनैतिक नाटकं प्राचलत् । दीर्घ नाटकानन्तरं ई पलानीस्वामी अद्य शनिवासरे विधानसभा परिसरे विश्वासमतं प्राप्य मुख्यमन्त्री  पदस्य शपथ: ग्रहीतवान् । पूर्व  मुख्यमंत्री ओ पन्नीरसेल्वमस्य समर्थक दलै: विधानसभा त: वॉक आउट कृतं । पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: ।
बहुमत प्राप्त्यर्थं तमिलनाडु विधानसभायां ११७ विधायकानां मत प्राप्ति अपेक्षितं भवति परञ्च पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: । तस्मिन समये विधानसभा परिसरे विपक्षजनै: बहु उत्पात: कृत: ।

Saturday, February 18, 2017

एस् बि ऐ - एस् बि टि विलयनम् एप्रिल् मासे सम्पूर्णं भविष्यति।
अनन्तपुरी> केरळे वर्तमानाः स्टेट् बैंक् आफ् ट्रावन्कूर् [एस् बि टि] नामकाः वित्तकोशाः चत्वारः अन्ये वित्तकोशाश्च भारतीय स्टेट् बैङ्के लाययितुं पदक्षेपाःएप्रिल् मासे पूर्ण भविष्यन्ति। लयनानन्तरं कालक्रमेण केरले पञ्चानाम् अनुबन्धबैङ्कानां चतुश्शतं शाखाःपिहितव्याः भवेयुः।
    केरळे एस् बि टि संस्थायाः ८५१ शाखासु २०४परिमितानां संख्यकानां पिधानं भविष्यतीति सूच्यते। तमिल् नाट् राज्ये ५९ संख्यकानां च। वित्तकोशसेवाकराणां राज्यसर्वकारस्य च विमतं विगणय्य गतदिने एव केन्द्रसर्वकारेण निमज्जनाङ्गीकारः कृतः। मैसूर् राज्यकीयवित्तकोशः तथा हैदराबाद्, पाट्याला, बिक्कानीर् आन्ड् जय्पूर्  वित्तकॊशाः लयनविधेयाः भविष्यन्ति।

 विश्वस्य बृहत्तरं पृथ्वी-जलविमानं चैना राष्ट्रे।
बीजिंग्>पृथिव्यां जले च अवरोढुम् आरोढुं सक्षमं बृहत्तरं विमानं चैना राष्ट्रे निर्मितम्।एतत् विमानं अस्मिन् वर्षे एव प्राथमिक डयनं करिष्यति।
 एजी ६०० नाम्ना प्रथितं एतत् विमानं गत जूलाई मासे चैनायाः दक्षिणनगरे सुहायां निर्माणम् आरभत।विमानस्य३७ मीट्टर दीर्घमस्ति ।
 उभयविमानानि अतिशीघ्ररक्षा प्रवर्तनेषु उपयुज्यते।५३.५ डण् भारं वोढुं शक्यते।२० सेकण्ट् समयेन १२ डण् जलं स्वीकर्तुं शक्यते।७० जनाः सप्तवर्षेण अस्य निर्माणं कृतम्।

डोनल्डट्रम्पस्य आव्रजनादेशोद्घोषणा
अमेरिकीयेन राष्ट्राध्यक्षेण डोनल्डट्रंपेण आगामिसप्ताहे नवीन-आव्रजनादेशोद्घोषणायाः निश्चयो विहितः।  तदीयेन प्रशासनेन न्यायालये प्रदत्तप्रपत्रेषु प्रतिपादितं यदसौ सप्तमुस्लिमराष्ट्राणां  प्रतिबन्धप्रकरणे परिवर्तनं करिष्यति।

विश्वमानांकने पी. वी. सिन्धु: पञ्चमस्थानं प्राप्तवती
रियो-ओलम्पिकस्पर्धायां रजतपदकविजेतृ-भारतीय-बैडमिंटनक्रीडिका पी.वी. सिन्धु: विश्वमानांकने पञ्चमस्थानमधिगतवती। एतद् हि सिन्धोः क्रीडाप्रदर्शनस्य  सर्वश्रेष्ठं मानाकनं  विद्यते ।।

Friday, February 17, 2017

उसैन् बोल्ट् श्रेष्ठतमं पुंस्कायिकतारम्,
स्त्री तु सिमोणा।
मोणाक्को> विश्वस्य श्रेष्ठतमाय पुरुषकायिकताराय दीयमाना लोरस् पुरस्काराय जमैक्कादेशस्य कायिकेतिहासः उसैन् बोल्ट् वर्यः अर्हति। महिलाताराय पुरस्कारस्तु अमेरिक्कायाः जिंनास्टिक् निपुणा सिमोणा बैल्स् महाभागायै प्राप्नोति।
    गतदिने फ्रान्स् देशस्य मोणाक्को नगरे एव पुरस्कारः विज्ञापितः। लोरस् स्पोर्ट्स फौण्टेषन् संस्थया एव पुरस्कारः दीयते।






स्वामि निर्मालानन्दगिरि महाराजः शिवपदमगात्।
पालक्काट्>  निर्मलः संन्यासि श्रेष्ठः मिर्मलानन्दगिरिः महाराजः समाधिस्थः अभवत्। ९१ वयस्क: एषः वार्धक्यसहजेन रोगोण श्रान्तः आसीत्। शिवानन्दमार्गस्य प्रयोक्ता आसीत्। आयुर्वेद वैद्यः च आरसीदयं महात्मा । संस्कृतं वैद्यं, मर्म चिकित्सा आदिषु निष्णादः अस्य गीता-ज्ञानयज्ञादयः दक्षिण भारते सुप्रसिद्धा एव।
गीताचार्यः, चिकित्सकः , प्रभाषकः, पणडितः इत्यादि रूपेण तेन समाजः सेवितः। रोगिभ्यः औषधं उपदेशं च युगपद् दत्वा कृतः चिकित्सारीतिः सर्वान् आकर्षयत्। दक्षिणभारते विशेषतया केरले सर्वत्र जनपदेषु यात्रां कृत्वा चिकित्सां अकरोत् इति भवति तस्य संन्यासकौशलम् ।

ड्यन्तं कार्-यानं विक्रयणाय सुसज्जम्।
आम्स्टर् डाम् > वाणिज्याय निर्मितं विश्वस्य प्रप्रथमं कार् यानं विक्रयणाय सज्जम् अभवत् । पि ए एल् वि नाम डच् कम्पनि द्वारा निर्मितस्य कार् यानस्य नाम लिबर्टी इत्यस्ति। लिबर्टी स्पोर्ट, लिबर्टी पयनियर् इति द्वे निर्मितिः (Model) स्तः।

        लिबर्टी स्पोर्ट् कार्-यानस्य ३,९९,००० डोलर् (२.६६ कोटि रुण्यकाणि) पयनियर् निर्मितेः ५.९९ लक्षं डोलर् च मूल्यम्। भूमौ आकाशे च उपयुज्यमानं कार् यानं ३५०० मीट्टर् उपरि डयितुं प्रभवति। आकाशवेगः प्रतिघण्टं११२ किलोमीट्टर् एव। भूमौ१०० च ।

        त्रिचक्रयुत-यानस्य यूरोप्यन् एवियेषन् सेफ्टी संघस्य तथा यू एस् फेडरल् एवियेषन् शासनविभागस्य च मानदण्डानुसारमेव निर्माणमिति निर्मातारः वदन्ति। कार् चालनाय चालनानुमतिपत्रं तथा डयनानुमतिपत्रं च आवश्यके। एकवारं इन्धनपूरितं चेत् १३१४ किलोमीट्टर् दूरं यावत् डयितुं शक्यते।

पाकिस्थानस्य सिन्ध् प्रविश्यायां माहम्मदीये देवालये विस्फोटः।
८० जनाः  मृताः।
कराच्ची > पाकिस्थानस्य सिन्ध् प्रविश्याया: सूफि देवालये बोंब् उपयुज्य कृतेन विस्फोटनेन ८० जनाः कालकवलीभूताः। शताधिकाः व्रणिताः। सेह् वान् नगरस्य लल्षाबास् खलन्दर् सूफि देवालये एव विस्फोट: जातः। विस्फोटस्य उत्तरदायित्वम् इस्लामिक्‌स्टेट् नाम भीकर सङ्खटनया स्वीकृतः। अस्मिन् सप्ताहे क्रियमाणः पञ्चमः विस्फोटः भवति अयम्।