आपद्बान्धवः केरलराज्यपालः।
गात्रसीदनात् पतिताय यात्रिकाय आर्लेकरवर्यस्य परिचर्या।
मार्गे समक्षं सीदनात् पतितं यात्रिकं साहाय्यमाचरन् राज्यपालः राजेन्द्र आर्लेकरः।
अनन्तपुरी> लोकभवनस्य पुरतः गात्रसीदनात् भूमौ पतिताय यात्रिकाय १५ निमेषान् यावत् परिचरणादिकं साहाय्यं दत्वा केरलस्य राज्यपालः राजेन्द्र आर्लेकरः आपद्बान्धवः अभवत्।
राज्यपालः कार् यानेन लोकभवनात् बहिः गच्छन्नासीत्। तदा वेल्लयम्पलं निवासी गिरीशः लोकभवनस्य पुरतः पतन्निति दृष्ट्वा यानं स्थगयित्वा बहिरवतीर्य गिरीशस्य समीपं प्राप्तवान्। तस्मै आवश्यकं साहाय्यं दातुं स्वसेवकान् निरदिशत्। गिरीशस्य दूरवाणीतः तस्य परिवारमाहूय वृत्तान्तं न्यवेदयच्च। किन्तु परिवारस्य विदूरवर्तित्वात् गिरीशम् आतुरालयं प्रवेशयितुं व्यवस्थां कृतवान्। १५ निमेषान् यावत् तस्य समीपम् स्थित्वा आर्लेकरवर्यः परिचरणादिकं कृतवान्। आतुरालयं प्रविष्टस्य तस्य स्वास्थ्यं समीचीनं वर्तते।
Latest newsLatest news