OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 21, 2026

 दक्षिणप्रान्तीयराज्यानां मेलनं सम्पन्नम्। 

मुल्लप्पेरियार् - नूतनः जलबन्धः आवश्यक इति केरलम्। 

दक्षिणप्रान्तीयराज्यानां मेलने तमिलनाटमुख्यमन्त्रिणा विजय जोसफेन सह केरलमुख्यमन्त्री वि डि सतीशः, उद्योगमन्त्री पि के कुञ्ञालिकुट्टी च सौहृदभाषणे। 

चेन्नै> दक्षिणप्रान्तीयराज्यानां समितेः ३१ तममुपवेशनं तमिलनाटे चेन्नैनगरे सम्पन्नम्। केन्द्रगृहमन्त्री अमित शाहस्य आध्यक्षे आयोजिते उपवेशने केरलं, तमिलनाट्, कर्णाटकम्, आन्ध्रप्रदेशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः, तेलङ्कानस्य उपमुख्यमन्त्री, पुदुच्चेरी तथा अन्तमान् निकोबार् केन्द्रशासनप्रदेशयोः लफ्टनन्ट् पदीयौ राज्यपालौ, लक्षद्वीपात् प्रदेशशासकश्च भागं गृहीतवन्तः। 

  नदीजलोपयोगविषये उद्भूताः तर्कवितर्काः परस्परचर्चया परिहर्तव्याः इति अमित शाह वर्येण निर्दिष्टम्। ब्रह्मपुत्रः, गोदावरी, कावेरी इत्यादीनां महानदीनां संयोजनेन आगामिशतवर्षाणि यावत् राष्ट्रे जलदौर्लभ्यं न भवेदिति च तेन प्रोक्तम्। 

 मुल्लप्पेरियारे नूतनजलबन्धः आवश्यकः।

   केरले  मुल्लप्पेरियार् नद्यां वर्तमानस्य जलबन्धस्य स्थाने नूतनः जलबन्धः आवश्यकः इति केरलराज्येन निर्दिष्टम्। जलबन्धस्य स्थानं, रूपकल्पनम् इत्यादिकं तमिलनाटेन निर्णीयतामिति च केरलाय मुख्यमन्त्रिणा वि डि सतीशेन प्रोक्तम्। नूतनजलबन्धस्य निर्माणव्ययः सर्वः केरलेनैव वोढुं सन्नद्धमिति च तेनोक्तम्।  किन्तु वर्तमानीने जलबन्धे जलतलस्य उन्नतिः १५२ पादमितेन वर्धयितव्य इति दढमते अस्ति तमिलनाटः।