यू एस् सैनिकानां शिरसे पारितोषिकम् उद्घोष्य इरानः।
टेहरानं> ये इरानीयाः यू एस् सैनिकान् घ्नन्ति वा गृह्णन्ति तेषां कृते आर्थिकसम्मानानि उद्घोषितानि इरानेन। यदि महिलाः एतत्कर्म कुर्वन्ति चेत् ताभ्यः पारितोषिकं युगलीकरिष्यति। इरानस्य सेनामुख्यं अमीर् हातमी इत्येनं पुरस्कृत्य इर्ना नामिकया वार्तासंस्थया एवायं वत्तान्तः बहिरागतः।
किन्तु अस्य प्रवृत्तिपथे सन्देहो वर्तते। यतः इदानीं यू एसः इराने स्थलयुद्धं न करोति। अस्मिन् सन्दर्भे कथं यू एस् सैनिकान् हन्तुं निगृहीतुं वा शक्यते इति सन्देहः।