'षेहसाद् भट्टी भीकरश्रृङ्खला' भञ्जिता इति केन्द्र गृहमन्त्री।
१४ राज्येभ्यः २५४ प्रवर्तकाः निगृहीताः।
नव दिल्ली> ऐ एस् ऐ इति पाकिस्थानीचारसंघटनस्य सहयोगेन प्रवर्तमानस्य षेहसाद् भट्टी नामिका भीकरश्रृङ्खला केन्द्र सुरक्षा संस्थाभिः भञ्जिता इति केन्द्र गृहमन्त्रिणा अमित शाहेन प्रस्तुतम्। राष्ट्रस्य १४ राज्येभ्यः संघटनायाः २५४ प्रवर्तकाः निगृहीताः। स्वतन्त्रतादिनं लक्ष्यीकृत्य आसूत्रिता बृहती भीकराक्रमणाभियोजना एव विनाशिता इति गृहमन्त्री अमित शाहवर्यः एक्स् नामकमाध्यमेन प्रकाशिते प्रस्तावे अभिमानितवान्।
उत्तरप्रदेशात् ६२ जनाः निगृहीताः। हरियानं (५२), दिल्ली (५१), पञ्चाबः (४४) इत्येतेभ्यः राज्येभ्यः अधिकतया भीकरप्रवर्तकाः निगृहीताः। राजस्थानं, महाराष्ट्रं, उत्तराखण्डः, कर्णाटकं, गुजरातः, बिहारं, तेलङ्कानं, हिमाचलः, जम्मू-काश्मीरं, केरलम् इत्येतेभ्यः राज्येभ्यः इतराः निगृहीताः। केन्द्र गुप्तान्वेषणसंस्थायै लब्धसूचनायाः आधारे राज्यस्थारक्षकसेनायाः सहयोगेन पूर्वोक्तेषु राज्येषु त्वरितशोधनां कृत्वा निग्रहणं कृतम्।
निगृहीतेभ्यः ग्रनेड-पिस्टलादीनि आयुधानि, सि सि टि वि दृश्योपकरणानि पाकिस्थाने निर्मितानि वस्तूनि च संगृहीतानि।