OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 20, 2026

 केरलम्। 

विष़िञ्ञं नौकाश्रयेण निर्यातायाताः समारब्धाः। 

राज्यस्य विशिष्टकालं प्रति पदक्षेपः इति मुख्यमन्त्री।

एक्सिम् दौत्यं मुख्यमन्त्री वी डी सतीशः ध्वजप्रदर्शनेन उद्घाटयति। 

अनन्तपुरी> राज्यस्य आर्थिकाभिवृद्धये राष्ट्रस्य समग्रविकासाय च नूतनाध्यायं विरचयन् विष़िञ्ञम् अन्ताराष्ट्रनौकाश्रयेण सम्पूर्णनिर्यातायातप्रवर्तनानि [EXIM - Export & Import] समारब्धानि। प्रथमं निर्यातस्य समुद्रवहनभाण्डस्य (Container) प्रस्थानं मुख्यमन्त्री वि डि सतीशः ध्वजप्रदर्शनेन उद्घाटनमकरोत्। 

  राज्यस्य आर्थिकाभिवृद्धये विशिष्टकालस्य प्रारम्भ इति उद्घाटनकार्यक्रमे मुख्यमन्त्रिणा प्रोक्तम्। भौगोलिकव्यापारमार्गान् ऋजुरूपेण सम्बद्ध्यमानम् अन्ताराष्ट्रकवाटरूपेण अयं नौकाश्रयः परिणमिष्यते इति सः प्रतीक्षां प्रकटयामास। 

  विष़िञ्ञम् अन्ताराष्ट्रनौकाश्रयेण विभिन्नान् भूखण्डान् प्रति मातृमहानौकया एव  पण्यवस्तूनाम् उपसंक्रमणं साध्यमस्ति। अनेन यातायायव्ययः न्यूनीकर्तुं शक्यते। विश्वस्मिन् ११० नौकाश्रयान् प्रति केरलस्य उत्पन्नानि ऋजुरूपेण  अतिशीघ्रं नीतुं शक्यते।