केरले श्रावणोत्सवस्य विलम्बरकाहलं सम्पन्नम्।
पूर्णवेदपुर्यां हस्तघोषयात्रा वर्णशबलं जातम्। 
हस्त घोषयात्रायां प्रस्तुतानि कलारूपाणि।
तृप्पूणित्तुरा> केरलस्य देशीयोत्सवाय श्रावणोत्सवाय विलम्बरकाहलं पूर्णवेदपुर्यां [तृप्पूणित्तुरा नगरे] वर्णशबलेन सम्पन्नम्। ग्रामीणकलारूपाणि, नृत्त-कथाकेलिवेषाः, विविधाः भेरीतालमेलनानि, निश्चलदृश्यानि च सहस्रशः जनेषु आह्लादतरङ्गान् जनयामासुः।
'अत्तं नगरी'ति कृतनामधेये सर्वकारीयबालकेच्चविद्यालये [Govt Boys' High school] समायोजिते कार्यक्रमे मुख्यमन्त्री वि डि सतीशः हस्तोत्सवस्य उद्घाटनमकरोत्। मन्त्री अनूप जेकबः हस्तपताकाम् उन्नीतवान्। प्रान्तस्थाः संसदीयसदस्याः, विधानसभासदस्याः, सांस्कृतिकप्रमुखाः जनपदाधिकारिणी इत्यादयः कार्यक्रमे भागं गृहीतवन्तः।
अत्तं नगरे समीपसभागारेषु च २५ तमदिनाङ्कपर्यन्तं विभिन्नाः सांस्कृतिक-कलाकार्यक्रमाः आयोज्यमानाः सन्ति। २६ तमे दिनाङ्के अस्ति 'तिरुवोणं' नाम सुदिनम्।