रसना-पत्रिकायै राष्ट्रियपुरस्कारः।
तृश्शूर्> संस्कृतभाषायां पत्रकारिता क्षेत्रे उत्कृष्टसेवायै दीयमानः २०२६ वर्षस्य 'उत्कर्षसम्मानः' इति राष्ट्रियपुरस्कारः केरलात् प्रकाश्यमानायै 'रसना' इति संस्कृतमासिकपत्रिकायै लब्धः।
केन्द्रीयसंस्कृतविश्वविद्यालयः (नवदेहली), श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः (नवदेहली), तथा तिरुपति-राष्ट्रियसंस्कृतविश्वविद्यालयः इत्येतेषां संयुक्तकार्ययोजनायां तिरुपति-राष्ट्रियसंस्कृतविश्वविद्यालये आयोजितस्य उत्कर्षमहोत्सवस्य अवसरे केन्द्रीयमन्त्री अर्जुनराममेघवाल-वर्यात् रसनामासिकस्य सम्पादिका डा. श्यामला जनार्दनन् पुरस्कारम् गृहीतवती। अस्मिन् पुरस्कारे लक्षरूप्यकाणां धनराशिः, प्रशंसापत्रं च समाविष्टम् अस्ति।
