झार्खण्डे जे एस् एस् सि - सि जि एल् परीक्षाः निरस्ताः।
उद्योगार्थिनां प्रक्षोभस्य विजयः। 
प्रक्षोभकाणां विजयाह्लादः।
राञ्ची> २४ दिनानि यावत् झार्खण्डराज्यस्य राजधान्याम् उद्योगार्थिभिः क्रियमाणम् आन्दोलनं विजितम्। परीक्षाप्रक्रमस्य क्रमभङ्गेन प्रश्नपत्रप्रस्रवणेन च आरोपणविधेयाः जे एस् एस् सि [Jharkhand Staff Selection Commission] तथा सि जि एल् परीक्षाः - Combined Graduate Level Examination - निराकरिष्यन्तीति मुख्यमन्त्री हेमन्त सोरन् उदघोषयत्।
टि एस् आर् डेटा प्रोससिंग् [TSR Data processing] नामकेन अभिकरणेन आयोजिताः सर्वाः परीक्षाः तया कृताः सर्वे सर्वकारनियुक्तयश्च पूर्णतया निरस्ताः इति मुख्यमन्त्रिणा प्रस्तुतम्।
२०१४ तमवर्षादारभ्य राज्ये आयोजितानां सर्वकारनियुक्तिपरीक्षाणां क्रमभङ्गान् अधिकृत्य गुप्तान्वेषणं करिष्यति। परीक्षाप्रक्रमाः सम्पूर्णतया परिष्करिष्यन्ति, सुतार्याः च भविष्यन्ति।