यू जि सि नेट् पुनःपरीक्षा।
सार्धमासं गूढक्रीडा।
नव दिल्ली> यू जि सि संस्थायाः देशीय योग्यता परीक्षायां (नेट् NET) त्रिषु विषयेषु गुरुतरदोषाः सन्तीति आक्षेपः परीक्षासमाप्तिसन्दर्भे एव परीक्षार्थिभिः सूचितः आसीत्। किन्तु स्वकीयदोषान् अङ्गीकर्तुम् एन् टि ए संस्थायाः सार्धमासस्य कालः आवश्यकमभवत्। प्रारम्भदशायां स्वकीयदोषान् अवगणितवती एन् टि ए संस्था विमर्शने प्रक्षोभे च शक्ते सति प्राज्ञसमितिं रूपीकृत्य अन्वेषणाय निर्बद्धा जाता। ततः आंगल-कोमेर्से-सोष्योलजी विषयेषु पुनःपरीक्षा निर्दिष्टा।
प्रश्नपत्रस्रवणात् नीट्-यू जी पुनःपरीक्षा सञ्चालनस्य लज्जाकरावस्थायां नेट् परीक्षादोषारोपः एन् टि ए संस्थाम् इतोSपि सङ्कीर्णताम् अनयच्च।
सेप्टम्बरमासे नवम दशमदिन्ङ्कद्वये एव पुनःपरीक्षा निर्णीता।