OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, January 31, 2026

 सन्तोष् ट्रोफी पादकन्दुकं

केरल-वंग-तमिल् नाटदलाः प्रपूर्वान्त्यं प्रविष्टाः। 

दिब्रुगढः [असमः]> भारतस्य राष्ट्रियपादकन्दुकक्रीडा सन्तोष् ट्रोफी नामकपुरस्काभिधाना असमराज्ये पुरोगम्यते। संघद्वयेन १२ दलाः परस्परं स्पर्धन्ते। केरलं, पश्चिमवंगः,  तमिलनाट्, असमदलाः प्रपूर्वान्त्यस्तरे स्थानं दृढीकृतवन्तः। 

  बी संघे प्रथमस्थानमवाप्तं केरलं ए संघे चतुर्थस्थानं प्राप्तेन आतिथेयेन असमेन सह स्पर्धिष्यते। ए संघे विद्यमानौ उत्तरखण्ड-नागालान्टदलौ क्रीडापरम्परायाः बहिर्नीतौ।

 केन्द्रायव्ययपत्रं श्वः। 

नवदिल्ली> केन्द्रप्रशासनस्य  आयव्ययपत्रं रविवासरे लोकसभायां वित्तमन्त्रिणी निर्मला सीतारामः प्रस्तौष्यति। 

  निर्मलायाः नवमम् आयव्ययपत्रं , रविवासरे प्रस्तुतिः इति सविशेषता अप्यस्ति।

 केरल-संस्कृताध्यापक फेडरेषन् - जनपदस्तरीयमेलनानि समारब्धानि

आलप्पुष़ जनपदमेलनं डा. गुरुवायूर् पद्मनाभः उद्घाटयति।

मेलने संस्कृतोत्सवे विजयीभूताः छात्राः सम्मानिताः। निवृत्ताः अध्यापकाः समादृताः। कर्मकुशलाः विशिष्टाध्यापकाः समादृताः। संस्कृतछात्राणां कला-कार्यक्रमाः च आसीत्।

Friday, January 30, 2026

 ट्रम्पस्य भीषा

शक्तः प्रत्याघातः भविष्यतीति इरानः। 

टेह्रान्> यू एस् पक्षतः यत्किमपि आक्रमणं भविष्यति चेत् शक्तः प्रत्याघातः भविष्यतीति इरानस्य विदेशकार्यमन्त्री  अब्बास् अराग्चि इत्यनेन पूर्वसूचना दत्ता। "अस्माकं भूमिम् आकाशं समुद्रं वा विरुद्ध्य भविष्यमाणम् आक्रमणं तस्मिन् समये एव  प्रतिरोद्धुं इरानस्य सायुधसेना पूर्णसज्जा वर्तते। तेषामङ्गुल्यः शतघ्निप्रयोगक्षमाः सत्यः प्रतीक्षन्ते एव।"अराग्चिना एक्स् मध्ये सूचितम्। 

  आणवनिर्व्यापनाय सन्नद्धः न भवेत्तर्हि इरानं प्रति तीव्रमाक्रमणं भविष्यतीति यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य भीषायाः आधारे अस्ति इरानस्य प्रत्युत्तरम्।

 भारत-न्यूसिलान्ट टि २०

चतुर्थस्पर्धायां भारतस्य पराजयः। 

विशाखपत्तनं> भारत-न्यूसिलान्टयोः टि-२० क्रिकट् परम्परायाः चतुर्थस्पर्धायां भारतं पराजयं प्राप। ५० धावनाङ्कैः आसीत् भारतस्य पराजयः। 

  प्रतिद्वन्द्वस्य प्रथमचरणे न्यूसिलान्टः सप्तद्वारकाणां विनष्टे २१५ धावनाङ्कान् सम्प्राप। भारतस्य प्रत्युत्तरं १८. ४ क्षेपणचक्रेषु १६५ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः। परम्परायां प्रथमाभिभवः अपि भारतं ३-१ इति क्रमेण परम्परायाम् अग्रे तिष्ठति। पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः शनिवासरे अनन्तपुर्यां सम्पत्स्यते।

Thursday, January 29, 2026

 इरानं प्रति ट्रम्पस्य अन्त्यादेशः। 

वाषिङ्टणः> आणवनिर्वापनचर्चायै सन्नद्धं न भवेत्तर्हि इरानं प्रति तीव्रमाक्रमणं करिष्यतीति अमेरिकायाः राष्ट्रपतिः डोनाल्ड ट्रम्पः उद्घोष्तवान्। ट्रूत् सोष्यल् नामकमाध्यमेन आसीत् ट्रम्पस्य अन्त्यादेशः। 

  यू एस् एस् अब्रहाम लिङ्कन् नामकविमानवाहिन्याः नेतृत्वे अमेरिकायाः नौसेना पश्चिमेष्यां प्रति प्रस्थिता इत्यपि ट्रम्पेन प्रस्तुतम्। समयः अतिक्रामति, आणवायुधानि परित्यक्तुम् अनुयुक्तं सन्धिं प्रमाणीकर्तुं चर्चायै इरानः शीघ्रमेव सन्नद्धो भवेदिति ट्रम्पेन सूचितम्।

 महाराष्ट्रस्य उपमुख्यमन्त्री

अजित पवारः विमानदुर्घटनया मृतः। 


मुम्बई> महाराष्ट्रस्य उपमुख्यमन्त्री तथा एन् सि पि दलस्य वरिष्ठनेता च अजित पवारः [६६] बारामत्यां दुरापन्नया विमानदुर्घटनया मृतः। बुधवासरे प्रभाते ८. ४० वादने तेन अटनं कृतवत् लघुविमानं साङ्केतिकदोषकारणेन आपत्कालिकावतरणवेलायां भग्नीभूय अधः पतितमासीत्। तेन सह यात्रां कृतवन्तः चत्वारः अपि मृत्युभूताः। 

  जिल्लापरिषदः निर्वाचनप्रचरणाय बारामतीं गमनासन्दर्भे आसीत् दुर्घटना। एन सि पि दलनेतुः शरत् पवारस्य सोदरस्य पुत्रः भवति अजित पवारः।

 राष्ट्रियवार्तापत्रिकादिनस्य शुभकामनाः


Wednesday, January 28, 2026

 

भारतीय-चिकित्सा-परम्परायाः रहस्योद्घाटनम्

ताडपत्रात् अनुसन्धान-ग्रन्थपर्यन्तम् : सी.सी.आर्.ए.एस्–सी.एस्.यू. उपक्रमेण दुर्लभ-आयुर्वेद-पाण्डुलिपीनां अनुसन्धानयोग्यता

  भारतीयस्य शास्त्रीय-चिकित्सा-परम्परायाः संरक्षणाय विकासाय च महत्त्वपूर्णं पादं संस्थापयन्, भारतसरकारस्य आयुष-मन्त्रालयान्तर्गतः केन्द्रीय-आयुर्वेद-विज्ञान-अनुसन्धान-परिषदः (CCRAS), नयी-दिल्ली-स्थितया केन्द्रीय-संस्कृत-विश्वविद्यालयेन (CSU) सहकार्येण, केरळराज्यस्य त्रिश्शूर्-मण्डले गुरुवायूर्-समीपस्थे पुराणत्तुक्कर-स्थिते सी.एस्.यू. परिसरे, २०२६ तमस्य वर्षस्य जनवरी-मासस्य १२ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं पञ्चदश-दिवसीयं आयुर्वेद-पाण्डुलिपि-लिप्यन्तरण-क्षमता-वर्धन-कार्यशालां सफलतया आयोजयत्।

द्विसप्ताहात्मकः आवासीयः अयं कार्यक्रमः आयुर्वेद-विद्याक्षेत्रात् अष्टादश विद्वांसः, संस्कृत-विद्याक्षेत्रात् पञ्चदश विद्वांसः च सहिताः त्रिंशत्त्रयः शोधकान् एकत्र समानीय, पाण्डुलिपि-अध्ययनस्य अन्तर्विषयक-दृष्टिकोणं संवर्धितवान्।

सी.सी.आर्.ए.एस्–सी.एस्.यू. संस्थयोः मध्ये स्थापितस्य समझौता-स्मरणपत्रस्य (MoU) आधारेण आयोजितः अयं कार्यशाला-कार्यक्रमः, आयुर्वेदस्य शास्त्रीय-पाण्डुलिपीनां अभिलेखनं, अङ्किकीकरणं (डिजिटलीकरणं), अनुसन्धानाधारित-उपयोगं च लक्ष्यीकृत्य, सी.सी.आर्.ए.एस् संस्थया प्रवर्तितस्य राष्ट्रिय-उद्यमस्य एकः अङ्गः आसीत्।

कार्यशालायाः उपसंहार-समारोहः

 अमेरिकाभूखण्डे अतिशैत्यम्। 

शीतवायुप्रवाहे हिमपाते च ३० मरणानि। 

न्यूयोर्क्> अमेरिकायां ताण्डवनृत्तं क्रियमाणे 'राक्षसवातः' इति कथ्यमाने प्रचण्डशीतवातप्रवाहे महति हिमपाते च अद्यावधि ३० जनाः मृत्युमुपगताः। अतिशैत्येन २० जनाः, हिमपातसम्बधाभिः दुर्घटनाभिः इतरे च मृताः। न्यूयोकनगरे ८ मरणानि प्रस्तावितानि। 

  गतदिने अमेरिकायां ५. ४ लक्षं जनाः विद्युतस्थगनेन क्लेशमनुभूतवन्तः। रविवासरे ११,००० विमानसेवाः निरस्ताः। ५५०० सेवाः विलम्बीकृताः।  कानडाराष्ट्रे अपि हिमपातः तीव्रः वर्तते।

 निप्प वैराणुः, एष्या विमानपत्तनेषु निरीक्षणं शक्तमकरोत्। भारतीययात्रिकाः निरीक्षन्ते।


     पश्चिमवङ्गेषु निप्पा वैराणुबाधा यदा प्रतिवेदिता तदारभ्य एष्यायाः केचन भागेषु आशङ्का वर्धते। एष्यायां सर्वत्र स्वास्थ्यपरिशोधना तथा निरीक्षणं च प्रचलत् अस्ति। अस्य भागतया एष्यायाः केचन भागेषु विमानपत्तनेषु सीमासु च निरीक्षणं दृढीकृतम्। पश्चिमवङ्गदेशात् विमानानि आगतेषु तायलण्ड् देशे विद्यमानेषु त्रिषु विमानपत्तनेषु यात्रिकान् परिशोधयितुं तायलण्ड्देशः समारभ्यते।

 भारत-यूरोपीयराष्ट्रसंघयोर्मध्ये महद्व्यापारसन्धिः सम्पन्नः। 

विश्वसन्धिषु जननीरूपा इति राष्ट्रनेतारः। 

व्यापारसन्धिवेलाया् नरेन्द्रमोदिना सह अन्टोणियो लूयिसः, उर्सुला फोण्टे च। 

नवदिल्ली> विश्वचरित्रस्य बृहत्तमं स्वतन्त्रव्यापारसन्धिम् अधिकृत्य चर्चाः सफलीकृत्य भारतं योरूपीयराष्ट्रसंघश्च। उभयमपि पक्षं शुल्कलाघवेन परस्परं विपणिं उद्घाटयिष्यति। वर्तमानीनआर्थिरसंवत्सरे एव स्वतन्त्रव्यापारसन्धिः हस्ताक्षरीकरिष्यते। 

  'विश्वस्मिन् अद्यावधि हस्ताक्षरीकृतेषां सर्वेषां सन्धीनां जननीरूपः भवत्ययं सन्धिः' इति २७ सदस्योपेतस्य 'यूरोप्यन् यूणियन्' इति राष्ट्रसंघस्य भारतस्य च नेतृभिरयं सन्धिः विशिष्टः। नवदिल्ल्यां हैदराबाद हौस् इत्यत्र सम्पन्नायां प्रस्तुतसन्धिमधिकृत्य चर्चायां 'यूरोप्यन् कम्मीषन्' इत्यस्य अध्यक्षा उर्सुला फोण्टे लैन्, यूरोप्यन् कौण्सिल् इत्यस्य अध्यक्षः अन्टोणियो लूयिस् सान्टोस्, भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्येते नेतृत्वमावहन्।

Tuesday, January 27, 2026

 गणतन्त्रदिनं समुज्वलं सम्पन्नम्। 

१३१ पद्मपुरस्काराः उद्घोषिताः। 


नवदिल्ली> भारतस्य ७७ तमं गणतन्त्रदिनं सम्पूर्णे राष्ट्रे विविधैः राष्ट्रभिमानोन्मुखकार्यक्रमैः  समुज्वलं सम्पन्नम्। नवदिल्ल्यां कर्तव्यपथे सेनात्रयस्य पथचलनं, निश्तलदृश्यानि, व्योमाभ्यासप्रदर्शनानि इत्यादिभिः कार्यक्रमैः गणतन्त्रदिनोत्सव‌ः गभीरं प्रौढोज्वलं चासीत्। 

  दिनोत्सवस्य अंशतया १३१ पद्मपुरस्काराः राष्ट्रेण उद्घोषिताः। तेषु ५ पद्मविभूषणानि,१३ पद्मभूषणानि, ११३ पद्मश्रियश्च सन्ति। महाराष्ट्रीयः धर्मेन्द्र सिंह डियोलः,केरलीयाः वि एस् अच्युतानन्दः [भूतपूर्वमुख्यमन्त्री], न्यायाधीशः के टि तोमसः, पि नारायणः, उत्तरप्रदेशीया एन् राजम् वर्या च पद्मविभूषणपुरस्कारेण सम्मानिताः। भारतवंशजौ अमेरिक्कीयौ डो. नोरि दत्तात्रेयडु [स्वास्थ्यक्षेत्रं], विजय अमृतराजः[कायिकं] च पद्मभूषणेन पुरस्कृतौ। तानतिरिच्य महाराष्ट्रतः त्रयः, तमिलनाडतः द्वौ, केरलतः द्वौ, उत्तरखण्डः कर्णाटकं, झार्खण्डः, दिल्ली इत्येतेभ्यः राज्येभ्यः एकैकश्च विभिन्नमण्डले श्रेष्ठकर्मभ्यः पद्मभूषणपुरस्कारेण समादृताः। इतरे ११३ विशिष्टाः पद्मश्रीपुरस्कृताः जाताः।

Monday, January 26, 2026

 यू एस् राष्ट्राय आणवविवरणानि चोरितानि। चीनस्य सैनिकाधिकारिं विरुद्ध्य प्रक्रमाः।

 बैजिङ् > यू एस् राष्ट्राय आणवविवरणानि अतीवगुढतया चोरणं कृतवान्। सैनिकाधिकारिं षाङ् योषिं विरुद्ध्य प्रक्रमाः स्वीकृताः। चीनस्य आणवायुधप्रक्रमाणं रहस्यः एव एषः अमेरिकायै प्रदत्तः।

 टि-२० क्रिकट् - परम्परा भारतेन प्राप्ता। 

गुवाहाटी> भारत-न्यूसिलान्टयोः टि-२० क्रिकट् परम्परा भारतेन प्राप्ता। पञ्चस्पर्धात्मिकायाः परम्परायाः प्रथमतिस्रः स्पर्धा‌ः विजित्य एव भारतस्य परम्पराप्राप्तिः। 

 गुवाहाटि क्रीडाङ्कणे सम्पन्ने तृतीये प्रतिद्वन्द्वे २० क्षेपणचक्रेषु न्यूसिलान्टेन प्राप्ताः १५३ धावनाङ्काः प्रत्युत्तरक्रीडायां केवलं १० क्षेपणचक्रेषु भारतेन अतिक्रान्ताः। कन्दुकताडने, कन्दुकक्षेपणे, क्षेत्ररक्षणे च भारतस्य सम्पूर्णाधिपत्यं प्रकटमासीत्।

कण्वाश्रमे योगप्रतियोगिता–पुरस्कारवितरणं तथा शक्तिप्रदर्शनकार्यक्रमश्च सम्पन्नः। 

 कण्वाश्रमे वसन्तोत्सवस्य पावनावसरे योगप्रतियोगिता–पुरस्कारवितरणं तथा शक्तिप्रदर्शनकार्यक्रमश्च अत्यन्तं भव्यतया हर्षोल्लासेन च सम्पन्नः। अस्मिन् आयोजने योगस्य शारीरिक–मानसिक–आध्यात्मिकमहत्त्वं प्रतिपादयितुं विविधाः प्रतियोगिताः आयोजिताः, यत्र बालकाः, बालिकाश्च उत्साहपूर्वकं सहभागं कृतवन्तः।

     योगप्रतियोगितायां सर्वश्रेष्ठयोगी इति उपाधिना सार्थकः कण्डवालः सम्मानितः, तथा सर्वश्रेष्ठयोगिनी इति उपाधिना संस्कृतिः गुसैं अलङ्कृता।कलात्मक–योगासनप्रतियोगितायां सौम्या शर्मा प्रथमस्थानं प्राप्तवती, तुलसी जुयाल: द्वितीयस्थानं तथा वंशिका बौंठियाल: तृतीयस्थानं प्राप्तवती।


     सामूहिक–प्रारम्भिक–योगासनप्रतियोगितायां गुरुकुलमहाविद्यालयः ज्वालापुरः प्रथमस्थानं प्राप्तवान्, सार्थकयोगशाला द्वितीयस्थानं तथा वैदिकगुरुकुलः कण्वाश्रमः तृतीयस्थानं प्राप्तवान्। सर्वेषां विजेतॄणां सम्मानार्थं आयोजिते पुरस्कारवितरणसमारोहे मुख्यातिथिरूपेण भारतीयजनतापक्षस्य श्रीराजगौरवः नौटियालः उपस्थितः आसीत्। अतिथिभि: अत्र स्वकरकमलाभ्यां विजेतृभ्यः पदकानि, प्रमाणपत्राणि तथा पदकं प्रदाय सम्मानं कृतं। अतिभि: योगस्य जीवनोपयोगिता, अनुशासनस्य आवश्यकता तथा युवसन्तते: शारीरिक–मानसिकस्वास्थ्ये योगस्य महत्त्वं विशेषतया प्रतिपादितम्। अत्र संस्कृतभारत्या: कार्यकर्तृषु पंकजध्यानी, रोशनबलूनी, गणेशपसबोला इत्यादय: स्थानीया: जना: उपस्थिता: आसन् ।

 कण्वाश्रमे पुरस्कारै: सह योगशक्तिप्रदर्शनस्य सम्पूर्ति: 

 सर्वश्रेष्ठयोगी सार्थकः कण्डवालः च सर्वश्रेष्ठयोगिनी संस्कृतिः गुसैं अतिथिभि: सम्मानितौ 

      कण्वनगरीकोटरम्> वैदिकगुरुकुलमहाविद्यालयकण्वाश्रमे द्विदिवसीयकार्यक्रमे सार्थकयोगशालाद्वारा, क्रेडिलपब्लिकस्कूल् इत्यनेन च गुरुकुलमहाविद्यालयज्वालापुरहरिद्वारद्वारा च आश्रमस्य छात्रै: विविधयोगासनप्रदर्शनं च शक्तिप्रदर्शनं कृतम् । शनिवासरे आश्रमस्य परमाध्यक्षेण स्वामीविश्वपालजयन्तवर्येण कार्यक्रमस्य शुभारम्भ: कृत: , यस्य परिणाम: रविवासरे गणमान्यातिथीनां समक्षे घोषित: सहैव शक्तिप्रदर्शनस्य विशेषावसर: दर्शनीय: आसीत् यत्र छात्रै: अग्निगोले प्रवेश: , लौहदण्स्य अवगुण्ठनं, एवं च कारयानस्य कर्षणं सौरवराणाद्वारा प्रदर्शितं। 

       योगप्रतियोगितानां कार्यक्रमे निर्णायकमण्डले सन्तोषी रावतप्रशिक्षिका, सोनमरावतप्रशिक्षिका, शुभमरावतप्रशिक्षिक:, कविता कण्डवालप्रशिक्षिका तथा प्राचार्य: श्री संजयरावत: इत्येते विशिष्टाः व्यक्तयः निर्णायकभूमिकायां च संयोजनसहयोगे गुरुकुलस्य प्रधानाचार्यः मनमोहननौटियालः, योगमहाविद्यालयस्य प्राचार्यः संजय: रावतः, डा. राजवीरवर्य:, डा. रमाकांतकुकरेती, डा.हेमन्ततिवारीवर्य: , पूजा अग्रवालवर्या, डा. मेजर् वीरपालविद्यालंकारः , जयवीररावत:, सचिनरावत:, रविन्द्ररावतश्च सार्थकयोगशालाया: संरक्षकः राकेशकण्डवालः, विभाग–सहसंयोजकः कुलदीपमैन्दोला च सत्यप्रकाशवर्य: , स्वामीनारायणवर्य:, स्वामी प्रबुद्धानन्दवर्य:, स्वामी प्रबोधानन्दवर्य: आदय: आसन् । सार्थककण्डवालद्वारा संगीतमययोग: प्रदर्शित: तथा च सौम्यासंस्कृतिद्वारा अपि प्रारम्भिकयोगमयीप्रस्तुति: प्रदत्ता ।


      

 उत्तराखण्डज्योतिषरत्नः डॉ. चण्डीप्रसादः घिल्डियालः “ राज्यपालमहाभागेन “श्रीचक्रसम्मानेन” सम्मानितः।

-कुलदीपमैन्दोला

   देहरादूनम्।> राष्ट्रीयज्योतिषमहाकुम्भस्य समापनावसरे मुख्यातिथिरूपेण आगतेन महामहिम्ना राज्यपालेन लेफ्टिनेन्ट्जनरल्गुरमीत्सिंह्कौरमहाभागेन उत्तराखण्डज्योतिषरत्नः आचार्यः डॉ. चण्डीप्रसादः घिल्डियालः “दैवज्ञः” इति ख्यातः “श्रीचक्रसम्मानेन” सम्मानितः। अस्मिन् अवसरे अन्ताराष्ट्रियजगतः केवलं द्वादश ज्योतिषविदां मध्ये डॉ. घिल्डियालेन सह राज्यपालमञ्चे उपवेशनस्य सौभाग्यमपि प्राप्तम्।

      स्वीयसम्बोधने राज्यपालमहाभागः अवदत्— “अन्ताराष्ट्रियस्तरे प्रतिष्ठिताः ये द्वादश ज्योतिषविदः मया सह मंचे विराजन्ति, ते वास्तविकरूपेण राष्ट्रस्य तथा च अन्ताराष्ट्रियजगतः ज्योतिषविद्यायाः संवाहकाः, ब्राण्ड्-अम्बेस्डर इत्यनेन रूपेण अपि कार्यं कुर्वन्ति। ज्योतिषविद्या क्वाण्टमितिसिद्धान्ताधिष्ठिता विद्या अस्ति, या समाजस्य सर्ववर्गाणां सम्यक् मार्गदर्शनं करोति।”

  एतेषु एव आचार्येषु ए. दुबे पद्मेशः, अजयः भाम्बी, पण्डितः लेखराजः शर्मा, पण्डितः सतीशः शर्मा इत्यादयः “श्रीकीर्तिचक्रसम्मानेन” सम्मानिताः। राज्यपालमहाभागेन उक्तं यत्— राष्ट्रोन्नतौ एतेषां महती जिम्मेदारी अस्ति, यतः राजनेतारः, उच्चाधिकारिणः, न्यायाधीशाः, व्यापारीवर्गः, महिलावर्गः, युवावर्गश्च एतेषां प्रेरणया दिव्यानि कर्माणि कुर्वन्ति।

    अस्मिन् समारोहसमये उत्तराखण्डज्योतिषपरिषदः अध्यक्षः आचार्यः रमेशः सेमवालः, संस्कृतशिक्षासचिवः दीपकः गैरोला, डॉ. पी.पी.एस्. राणा, पूजा अवस्थी, शुभी गुप्ता, पण्डितः रामलखनः गैरोला इत्यादयः संस्कृतजगतः प्रख्याताः अनेकाः विद्वांसः उपस्थिताः आसन्।

 भारतस्य अन्तर्देशीयः माध्यमप्रवर्तकः 

मार्क् टलिः दिवंगतः। 


नवदिल्ली> स्वतन्त्रतानन्तरभारतस्य चरित्रमुहूर्तानां साक्षीभूतः सन् तानि आविश्वं विज्ञापितवान् , बी बी सी वार्तामाध्यमस्य भारतीयवार्ताहरः मार्क् टलिः [९०] दिवंगतः। २२ वर्षाणि यावत् बी बी सी इत्यस्य दिल्ली वार्ताहरः आसीदयम्। 

  बङ्गलादेश विमोचनयुद्धम्, आपत्कालीनकालः, 'ओपरेषन् ब्लू स्टार्',इन्दिरागान्धिनः हत्या,  सिखविरुद्ध कलहः, राजीवगान्धिनः हत्या, बाबरि मस्जिदविनाशः इत्यादिकं सर्वं बी बी सी द्वारा सः विश्वं बोधितवान्। 

  १९३५ तमे वर्षे कोल्कत्तायां लब्धजन्मा मार्क टली नवमे वयसि ब्रिटनं गत्वा अध्ययनं सर्वं समाप्य १९६५ तमे वर्षे भारतं प्रत्यागतवानपि सः एतदाभ्यन्तरे ब्रिटीषनागरिकत्वं स्वीकृतवानासीत्। आजीवनान्तं भारते वस्तुम् 'ओ सि ऐ' पत्रमपि तेन स्वायत्तीकृतवान्। पद्मश्री, पद्मभूषण पुरस्काराभ्यां भारतस्यादरं सम्प्राप्तवान् आसीत्।

 ७७ तमगणतन्त्रदिनोत्सवाय  भारतं सज्जम्। 


नवदिल्ली> नवदिल्ल्यां कर्तव्यपथे अद्य ७७ तमः गणतन्त्रदिनोत्सवः वैपुल्येन कार्यक्रमेण आमान्यते। राष्ट्रपतिः द्रौपदी मुर्मू राष्ट्रियध्वजम् उन्नेष्यति। राष्ट्रिययुद्धस्मारके प्रधानमन्त्री नरेन्द्रमोदी पुष्पचक्रं समर्पयिष्यति। 

  यूरोपियन् कौण्सिल् इत्यस्य अध्यक्षः अन्टोणियो कोस्टा, यूरोपियन् कम्मीशन् इत्यस्य अध्यक्षः उर्सुल फोण्टे लेनः इत्येतौ कार्यक्रमे  मुख्यातिथी भविष्यतः। विभिन्न राज्यैः प्रस्तूयमानानि निश्चलदृश्यानि कलाप्रस्तुतानि च कार्यक्रमममुं प्रौढोज्वलम् आकर्षकं च करिष्यन्ति।

Sunday, January 25, 2026

 योगः मानसिकशान्तेः, आत्मानुशासनस्य च आधारः -स्वामीविश्वपालजयन्त:

कण्वाश्रमे योगप्रतियोगितायाः भव्यम् आयोजनमम्

- कुलदीपमैन्दोला। 

    कण्वाश्रमे वैदिकगुरुकुलमहाविद्यालये वैदिकवटुभिश्च सार्थकयोगशालाद्वारा, क्रेडिलपब्लिकस्कूल् इत्यनेन च गुरुकुलमहाविद्यालयज्वालापुरहरिद्वारद्वारा च  छात्रछात्रामाध्यमेन विविधाः योगासनप्रदर्शनं कृतम्। अस्यां योगप्रतियोगितायां राष्ट्रीयस्तरस्य प्रतिभागिनः अपि उत्साहपूर्वकं सहभागितां कृतवन्तः। बालकानां बालिकानां च योगप्रदर्शनं दृष्ट्वा सर्वे दर्शकाः अतीव विस्मिताः अभवन्। 

   कार्यक्रमे निर्णायकमण्डले सन्तोषी रावतप्रशिक्षिका, सोनमरावतप्रशिक्षिका, शुभमरावतप्रशिक्षिक:, कविता कण्डवालप्रशिक्षिका तथा प्राचार्य: श्री संजयरावत: इत्येते विशिष्टाः व्यक्तयः निर्णायकभूमिकां निर्वहन्तः आसन्। 

 योगप्रतियोगिताकार्यक्रम: वैदिकगुरुकुल–कण्वाश्रमे  स्वामीविश्वपालजयन्तवर्यस्य परमसान्निध्ये समुपस्थितोभवत्।प्रतियोगितायाः शुभारम्भे स्वामिवर्यश्च  गुरुकुलस्य प्रधानाचार्यः मनमोहननौटियालः, योगमहाविद्यालयस्य प्राचार्यः संजय: रावतः, डा. राजवीरवर्य:, डा. रमाकांतकुकरेती, हेमन्ततिवारीवर्य: 

 केरलम्।

न्यायाधिपः सिरिजगः दिवंगतः। 


कोच्चि>  राज्यस्य उच्चन्यायालये भूतपूर्वन्यायाधिपः एस् सिरिजगः [७४] कोच्चीनगरस्थे स्वभवने दिवंगतः अभवत्।  वीथीशुनकाक्रमणविधेयेभ्यः   क्षतिहानिपरिहारदानक्रमं समर्पितुं सर्वोच्चन्यायालयेन नियुक्तः एकांगायोगः सः आसीत्। 

  कोच्ची 'नुवाल्स्' [National University of Advanced Legal Studies] इत्यस्य कुलपतेः कार्यभारं निर्वहति स्म सिरिजगनवर्यः। वर्तमाने शबरिगिरि उन्नताधिकारसमित्याः अध्यक्षपदमलङ्कुर्वन् आसीत्।

 केरलम्। 

विष़िञ्ञं परियोजना - २. ० आरब्धा। 

विष़िञ्ञं परियोजनायाः द्वितीयस्तरः केरलमुख्यमन्त्रिणा उद्घाट्यते। 

अनन्तपुरी> केरलस्य समुद्रवाणिज्यव्यापारमण्डले अतिप्राधान्यं वहन्ती विष़िञ्ञं महानौकाश्रयाभियोजना इत्यस्य द्वितीयश्रेण्याः निर्माणोद्घाटनं मुख्यमन्त्री पिणरायि विजयः निरवहत्। केन्द्र महानौकाश्रयविभागस्य मन्त्री सर्बानन्द सोनोवालः मुख्यातिथिः अभवत्। केरलविधानसभायाः विपक्षनेता वि डि सतीशः, इतरे मन्त्रिणः, राजनैतिकनेतारश्च कार्यक्रमेSस्मिन् भागमकुर्वन्। 

  महनौकाश्रयस्य द्वितीयस्तरस्य लक्ष्याणि एवमेव - 

+ ९७०० कोटि रूप्यकाणां निक्षेपः। 

+ महानौकाश्रयस्य सन्नाहः दशलक्षं टि ई यू मितात् ५० लक्षं टि ई यू मितरूपेण वर्धिष्यते। 

+ दीर्घदूरयात्रां कृतवतीनां महानौकानां द्रवेन्धनपूरणाय सुविधा लभते। इयं तु राज्यस्य करवर्धनाय साहाय्यं भविष्यति।

Saturday, January 24, 2026

 ट्रम्पस्य शान्तिसमित्यां १९ राष्ट्राणि हस्ताक्षरमकुर्वन्। 

दावोस्> गासायां सुस्थिरशान्तिसंस्थापनं, ततः आगोलसंघर्षपरिहाराय संस्था इति लक्ष्येन डोनाल्ड् ट्रम्पेन रूपीकृते Board of Peace नामके शान्तिसंघटने १९ राष्ट्राणि सादस्यं प्राप्नुवन्ति स्म। संयुक्तराष्ट्रसभायाः प्रतिद्वन्दिरूपेण विभाव्यमानायामस्यां समित्यां पाकिस्थानं हंगरी अर्जेन्टीना इत्यादीनि राष्ट्राणि प्रमाणपत्रे हस्ताक्षरमकुर्वन्। किन्तु भारतम् अद्यावधि हस्ताक्षरं नाकरोत्।

 टि २० विश्वचषकात् बङ्गलादेशः बहिर्गमिष्यति। 

भारते न क्रीडिष्यतीति निर्णीतम्। 

नवदिल्ली> आगामिमासे प्रचाल्यमाने टि २० विश्वचषके भारते न क्रीडिष्यतीति बङ्गलादेशस्य निर्णयहेतोः तद्राष्ट्रं विश्वचषकात् बहिर्नेष्यति। तत्स्थाने स्कोट्लान्ट् राष्ट्रम् अन्तर्भावयितुं ऐ सि सि संस्थया निश्चितम्। 

  सुरक्षाकारणेन भारते क्रिडितुं न शक्यते,तस्मात् भारतस्थस्पर्धाः श्रीलङ्कां परिवर्तनीयमिति बङ्गलादेशीय क्रिकट् समित्याः निवेदनं ऐ सि सि संस्थया निरस्तम्।

Friday, January 23, 2026

 प्रधानमन्त्री अद्य केरलराजधान्याम्। 


अनन्तपुरी> प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे प्रभाते केरलस्य राजधानीनगरं प्राप्नोति। भा ज पा दलप्रशास्यमानस्य अनन्तपुरी महानगरस्य विकसननयरेखायाः उद्घोषणं ११ वादने मोदिवर्यः करिष्यति। 

  केरले नूतन्यः चतस्रः रेल् यानसेवाः प्रधानमन्त्री उद्घाटयिष्यति। नगरे भाजपादलेन आयोज्यमाने वीथीप्रदर्शने अरि प्रधानमन्त्री भागं करिष्यति च।

Thursday, January 22, 2026

 भारत-न्यूसिलान्ट् टि २०

प्रथमविजयः भारतस्य। 

नागपुरं> न्यूसिलान्टं विरुध्य भारतस्य टि २० क्रिकट्परम्परायाः प्रथमे प्रतिद्वन्द्वे भारतस्य अत्युज्वलविजयः। ४८ धावनाङ्कानां विजयः एव भारतेन प्राप्तः। प्रथमं कन्दुकताडनं कृतवान् भारतसंघः २० क्षेपणचक्रेषु ७ क्रीडकानां विनष्टे २३८ धावनाङ्कान् सम्पादितवान्। न्युसिलान्टः २० क्षेपणचक्रेषु सप्त ताडकानां प्रयत्ने केवलं १९० धावनाङ्कान् सम्पादितवान्।

  भारताय अभिषेक शर्मा ३५ कन्दुकैः ८४ धावनाङ्कान् सम्पादितवान्। रिङ्कु सिंहः २० कन्दुकैः ४४ धावनाङ्कान् प्राप्तवान्। न्यूसिलान्ट दले ग्लेन् फिलिप्सः ४० कन्दुकैः ७८ धावनाङ्कान् सम्पाद्य क्रीडायां शोभितवान्।

 सुनिता विल्यंसः नासातः निवृत्ता। 


केप् कानवेरल्> बहिराकाशपर्यवेक्षणमण्डले नैकान् लाभान् स्वायत्तीकता भारतीयवंशजा सुनिता विल्यंसः [६०] 'नासा' नामकान्ताराष्ट्रिय बहिराकाश गवेषणसंस्थायाः सेवानिवृत्ता अभवत्। 

  नासायां २७ संवत्सराणां सेवाभ्यन्तरे त्रिवारम् अन्ताराष्ट्रियबहिराकाशनिलयं [ऐ एस् एस्] यात्रां कृतवती। ६०८ दिनानि तत्र वासं कृत्वा परीक्षणानि कृतवती च। बहिराकाशे अधिकतमसमयं चलितवती महिला इति चरित्रोपलब्धिरपि तस्याः नाम्नि वर्तते। बहिराकाशे 'मारत्तण्' नामकधावनविशेषं  कृतवान् प्रथमजनः इति चरित्रोपलब्धिरपि तस्याः नाम्नि अस्ति।

Wednesday, January 21, 2026

 नितिन् नबीनः भाजपा दलस्य नूतनाध्यक्षः। 


नवदिल्ली> भा ज पा दलस्य  प्रवर्तमानाध्यक्षः नितिन् नबीनः राष्ट्रियाध्यक्षरूपेण कार्यभारं स्वीकृतवान्। दलस्य १२ तमाध्यक्षः भवति ४५ वयस्कः बिहारीयः नबीनः। बिहारे नियम-नगरविकासमन्त्रिरूपेण प्रवृत्तः  सः डिसम्बरमासे भाजपायाः प्रवर्तमानाध्यक्षरूपेण नियुक्तः आसीत्।

 विश्वस्मिन् राजनैतिक-आर्थिकासमत्वं वर्धते। 

लोकस्य अतिदारिद्र्यनिर्मार्जनाय आवश्यकी सम्पत् विश्वसम्पन्नानां सकाशे! 

दावोस्> विश्वस्मिन् राजनैतिक-आर्थिकासमत्वं गौरवतरं वर्धमानमिति 'ओक्स्फेम्' [OXFIRM] नामकस्य अधिकारसंघटनस्य आवेदनम्। २०२५ तमे विश्वस्य अतिसम्पन्नानां धनराशिः गतपञ्चवर्षाणां धनराशेः त्रियुगलम् अवर्धत इति आवेदनपत्रे सूच्यते। स्विट्सर्लान्टस्थे दावोसे आयोज्यमानस्य ५६ तम आगोल आर्थिक संघटनस्य [Global Economical Form] सांवत्सरीयोपवेशनस्य भूमिकारूपेण आसीत् ओक्स्फेमेन प्रस्तुतवार्षिकावेदनं प्रकाशितम्। 

  वर्तमानीनकाले शतकोटीश्वराणां सकाशे आहत्य धनराशिः १८. ३ लक्षं कोटि डोलर् मितं [१६६२ लक्षं कोटि रूप्यकाणि] इति अभिलेख्योच्चे स्तरे वर्तते। २०२५ तमे महाधनेश्वराणां वित्तराशौ १६% वर्धनं - २. ५लक्षं कोटि डोलर् मितं- जातम्। एतत्तु विश्वस्मिन् अशेषजनसंख्यायाः अर्धांशं कल्प्यमानानां, नीचस्तरे वर्तमानानां ४१० कोटि जनानां सम्पूर्णवित्तराशेः तुल्यं भवति। इयं धनराशिः विश्वस्य अतिदौर्भिक्षाम् उन्मूलनं कर्तुं अपेक्षितधनस्य २६ गुणितमितं भवति। 

  लोके २५% जनाः आवश्यानुसारं भोजनमलभ्यमानाः तथा च जनसंख्यायाः अर्धांशे इदानीमपि अतिदारिद्र्ये वर्तमाने अस्ति सम्पत्तिः महाधनिकानां सकाशे एव  पिण्डीक्रियते इति अहितप्रवणता। राजनैतिकस्थानमानानि सम्प्राप्तुं महाधनिकानां सामान्यजनेभ्यः ४००० गुणितस्य साध्यता कल्प्यते। 

  स्वकीयोपलब्ध्यर्थं अशेषे विश्वे वर्तमानानां सामान्यजनानां अधिकारान् स्वातन्त्र्याणि च निहन्य एव सामाजिक आर्थिकनियमान् नवीकर्तुमेव एतादृशाः अतिधनिकेश्वराः राजनैतिकाधिपत्यं वहन्ति इति आवेदनपत्रे सूच्यते। 

  ६६ राष्ट्रेषु कृतस्य अन्वीक्षणस्य आधारे आसीत् ओक्सफेमस्य अनुशीलनम्। दारिद्र्यम् असमत्वं न्यायराहित्यम् इत्येतानि विरुध्य कलहायमानानां २१ संघटनानां सख्यं भवति ओक्सफेम्।

Tuesday, January 20, 2026

 संस्कृतभारत्याः ब्रजप्रान्ते एकदिवसीयः संस्कृतभाषाप्रवेशवर्गः।

वार्ताहर:- आचार्यदीनदयालशुक्ल:

संस्कृतभारत्याः व्रजप्रान्तस्य हरिगढशाखा षड्विंशत्यधिकद्विसहस्रतमे कृष्टाब्दे प्रथममासस्य अष्टादशे दिनाङ्के रविवासरे हरिगढस्थे सासनीगेटक्षेत्रवर्तिनि विश्वभारतीसार्वजनिकविद्यालये एकदिवसीयसंस्कृतभाषाप्रवेशवर्गम् आयोजयत्। कार्यक्रमस्य शुभारम्भः वैदिकमन्त्रोच्चारणेन सह दीपप्रज्वालनेन सरस्वत्याः पूजाऽर्चनया च अभवत्। सर्वप्रथमं कार्यक्रमस्य अध्यक्षा विश्वभारतीसार्वजनिकविद्यालयस्य प्रधानाचार्या च सुनीतासिंह: अस्मै वर्गाय शुभकामनाः प्राददात्। स्वल्पाहारविरामात् अनन्तरं मथुराविभागस्य संयोजकः श्यामसुन्दरशर्मा प्रशिक्षणकार्यं प्रारभत।

विशिष्टातिथिः वार्ष्णेयमहाविद्यालयस्य संस्कृताविभागाध्यक्षः देवेन्द्रकुमार: भारतीयसंस्कृतेः संरक्षणार्थं संस्कृतभाषायाः पोषणस्य संवर्धनस्य च आवश्यकतां प्रत्यपादयत्। प्रशिक्षणस्य सञ्चालनं चतुर्षु सत्रेषु अभवत्। येषु संस्कृतजिज्ञासवः संस्कृतभाषायां स्वपरिचयं लिङ्गं वचनं पुरुषः

 जम्मु-काश्मीरे सैनिकस्य वीरमृत्युः। 


श्रीनगरं> जम्मु-काश्मीरस्थे किष्त्वारे भीकरैः सह प्रतिद्वन्द्वे व्रणितः भारतसैनिकः वीरमृत्युं प्राप। हविल्दार् पदीयः गजेन्द्र सिंह अस्ति वीरमृत्युं प्राप्तवान्। 

  भीकरनिर्मार्जनाय सेनया आरब्धे 'ओपरेषन् ट्राषि-१' प्रक्रमे भीकरैः स्थापितं ग्रनेड् स्फोटकं विस्फोट्य अष्ट सैनिकाः व्रणिताः आसन्। तीव्रतया व्रणितः गजेन्द्र सिंहः गत दिने मृत्युमुपगतः।

 केरलम्। 

विधानसभासम्मेलनम् अद्य आरभते। 

अनन्तपुरी> १५ तम केरलविधानसभायाः अन्तिममेलनं मङ्गलवासरे राज्यपालस्य नयप्रख्यापनप्रभाषणेन आरभ्यते। मार्च् २६ दिनाङ्कपर्यन्तं सम्मेलनं भविष्यति। जनुवरि २९ तमे दिनाङ्के राज्यस्य आयव्ययपत्रं वित्तमन्त्रिणा के एन् बालगोपालेन प्रस्तौष्यति।

 यू ए ई राष्ट्रपतये ऊष्मलं स्वीकरणम्। 

यू ए ई राष्ट्रपतिं नरेन्द्रमोदी विमाननिलयं सम्प्राप्य स्वीकरोति। 

नवदिल्ली> ह्यः सायं भारतं सम्प्राप्तं यू ए ई राष्ट्रपतिं षैख् मुहम्मद बिन् सायद् अल् नह्यान् नामकं प्रधानमन्त्री नरेन्द्रमोदी दिल्ली विमाननिलयं प्राप्य स्वीकृतवान्। उभयोरपि राष्ट्रयोः सौहृदं परं प्रबलीकृत्य विभिन्नमण्डलेषु परस्परसहकरणाय प्रवर्तयितुं मोदी-मुहम्मद बिन् मेलने निश्चयमभवत्। 

  व्यापारः, वाणिज्यं, ऊर्जं, राष्ट्रसुरक्षा, बहिराकाशं, शास्त्रसाङ्केतिकम् इत्यादिषु क्षेत्रेषु परस्परसहकारं वर्धापयितुं पञ्च सन्धिपत्राणि उभाभ्यां राष्ट्राभ्यां हस्ताक्षरीकृतानि।

Monday, January 19, 2026

उत्तराखण्ड-संस्कृत-विश्वविद्यालयस्य कुलपतिपदे प्रो. रमाकान्तपाण्डेयवर्यः नियुक्तः।
       हरिद्वारम्> उत्तराखण्ड-संस्कृत-विश्वविद्यालये कुलपतिपदे प्रख्यातः संस्कृतविद्वान् प्रो. रमाकान्तपाण्डेयवर्यः नियुक्तः। उत्तराखण्डस्य माननीयैः राज्यपालैः तथा विश्वविद्यालयस्य कुलाधिपतिभिः लेफ्टिनन्ट् जनरल् गुरमीत् सिंह् वर्यैः एषा नियुक्तिः कृता। संस्कृतसाहित्ये, काव्यशास्त्रे, नाट्यशास्त्रे, भारतीयज्ञानपरम्परासु च विश्रुतः प्रो. पाण्डेयवर्यः अध्यापन–अनुसन्धान–प्रशासनक्षेत्रेषु दीर्घकालं सेवां कृतवान्। पूर्वं केन्द्रीय-संस्कृत-विश्वविद्यालयस्य भोपाल–जयपुर-परिसरयोः निदेशकपदस्य दायित्वं निर्वहन् सः शैक्षणिकगुणवत्तायाः उन्नयनं कृतवान्।
       कुलपतिपदभारग्रहणानन्तरं प्रो. पाण्डेयवर्येण उक्तं यत् विश्वविद्यालयः अनुसन्धान–नवाचार–पाण्डुलिपिशास्त्र–योग–दर्शन–भारतीयज्ञानपरम्पराणां संरक्षण–संवर्धनमार्गे अग्रेसरः भविष्यति। राष्ट्रिय-अन्तर्राष्ट्रियस्तरे भारतीयविद्यायाः प्रतिनिधिरूपेण विश्वविद्यालयस्य प्रतिष्ठा वर्धयिष्यतीत्यपि तेन सूचितम्।

 भीकरैः सह संघर्षः - अष्ट सैनिकाः व्रणिताः। 

श्रीनगरं> जम्मु-काश्मीरस्थे किष्त्वारे रविवासरे प्रवृत्ते भीकरैः सह संघर्षे अष्ट सैनिकाः व्रणिताः जाताः। भीकरान् अपाकर्तुम् अधिके सैनिकाः प्रदेशे विन्यस्ताः। जय्षे मुहम्मदीयभीकराः निलीनाः वर्तन्ते इति सूचनायाः आधारे कृते अन्वेषणाभ्यन्तरे आसीदाक्रमणम्। 

  अस्मिन् वर्षे जम्मुक्षेत्रे प्रवृत्तः  तृतीयः प्रतिद्वन्द्वः भवत्येषः। जनुवरि ७, १३ दिनाङ्कद्वये कृते आक्रमणे भीकराणां गुप्तशिबिराणि सुरक्षासेनया विनाशितानि आसन्।

 कोहलिशतकं विफलम्। 

एकदिनपरम्परा न्यूसिलान्टेन प्राप्ता।

भारते न्यूसिलान्टस्य प्रथमपरम्पराप्राप्तिः। 

प्राप्तशतकः तथा परम्परायाः श्रेष्ठक्रिडकश्च न्यूसिलान्टस्य डारिल् मिचलः। 

इन्दोरं> भारत-न्यूसिलान्टयोः एकदिनक्रिकट् परम्परायाः अन्तिमप्रतिद्वन्द्वं विजित्य न्यूसिलान्टः परम्परां प्राप। ४१ धावनाङ्कैः आसीत् तेषां विजयः। भारते प्रथमतया एव न्यूसिलान्टस्य एकदिनपरम्पराप्राप्तिः। 

 प्राप्ताङ्कसूचिका - न्यूसिलान्टः - ३३७/८,   भारतं - २९६/१०। प्रथमचरणे न्यूसिलान्टस्य डारिल् मिचल् [१३७/१३१], ग्लेन् फिलिप्स् [१०६/८८] च शतकं प्राप्तवन्तौ। प्रत्युत्तरचरणे भारताय विराट कोहली शतकं [१२४/१०८] प्राप्तवानपि तत् विजयार्थम् अपर्याप्तमभवत्।  

Sunday, January 18, 2026

 एष्यायाः बृहत्तमा कौमारकलामेला समाप्ता। 

कलाकिरीटं कण्णूर् जनपदाय - १०२८ अङकाः। 

मोहन लालः मुख्यातिथिः। 

समाप्तिसम्मेलनम् उद्घाटनं कुर्वन् विपक्षनेता वि डि सतीशः। 

तृश्शूर्> एष्याभूखण्डस्य बृहत्तमः कलोत्सवः इति ख्यातिं प्राप्तस्य केरल विद्यालयकलोत्सवस्य प्रौढोज्वलपरिसमाप्तिः। ६४ तमः विद्यालयछात्राणां साहित्य-कलास्पर्धाः अस्मिन् वर्षे तृशिवपेरूर् नगरे सम्पन्ना। 

 पञ्चदिनात्मिकायाः कलामेलायाः समाप्तिसमारोहस्य उद्घाटनं केरलविधानसभायाः विपक्षनेता वि डि सतीशः अकरोत्। मलयालस्य महानटः, फाल्के पुरस्कारजेता, पद्मश्री मोहनलालः मुख्यातिथिरभवत्। 

  १०२८ अङ्कान् सम्पाद्य कण्णूर् जनपदेन  सुवर्णचषकः सम्प्राप्तः। १०२३ अङ्कान् सम्पाद्य तृश्शूर् जनपदः द्वितीयस्थानं प्राप। तृतीयस्थानं तु कोष़िक्कोट् जनपदेन प्राप्तं - १०१७ अङ्काः।

Latest news

 रफाल् विमानेभ्यः ३. २५ लक्षं कोटि रूप्यकाणां सन्धिः। 


नवदिल्ली> फ्रन्च् संस्था दसो एवियेषन् इत्यस्मात् भारतीय वायुसेनायै  ११४ रफाल् युद्धविमानानि क्रेतुं रक्षासम्भारसमित्याः अनुज्ञा लब्धा। वर्तमाने काले ३६ रफाल् युद्धविमानानि व्योमसेनायाः सन्ति। 

  ३. २५ लक्षं कोटि रूप्यकाणां सन्धिरिति सूच्यते। सन्ध्यनुसारं १८ विमानानि २०३० तमे वर्षे भारतं प्राप्स्यन्ति। अवशिष्टानि विमानानि भारते एव निर्मास्यन्ति। आगामिमासे यदा फ्रान्सस्य राष्ट्रपतिः इमानुवल् मक्रोणः भारतं प्राप्स्यति तदा सन्धौ हस्ताक्षरं करिष्यति।

 भारत-न्यूसिलान्टयोः तृतीयम् एकदिनम् अद्य। 

इन्दोरः> भारत-न्यूसिलान्टयोः एकदिनक्रिकट् क्रीडापरम्परायाः तृतीयं तथा अन्तिमं च एकदिनं रविवासरे मध्याह्ने इन्दोरे सम्पत्स्यते। परम्पराप्राप्त्यर्थम् अद्यतनक्रीडा उभयोरपि दलयोः निर्णायकी भवति। 

  प्रथमस्पर्धायां भारतं, द्वितीयायां न्यूसिलान्टः च विजित्य १ - १ इति समस्थितिं भजतः अधुना।

 ऊन१९ विश्वचषकक्रिकट् 

 भारतस्य विजयः।

बुलावायो> सिम्बाब्वे राष्ट्रे सम्पन्ने ऊननवदशवयस्कानां विश्वचषकक्रिकट् स्पर्धायां भारतं बङ्गलादेशं १८ धावनाङ्कैः पराजयत। वृष्टिकारणात् क्रीडायां स्थगितायां 'डक्वर्त लूयिस्' नियानुसारेण आसीत् भारतस्य विजयः। प्राप्ताङ्कसूचिका - भारतं ४८. ४ क्षेपणचक्रेषु २३८ धावनाङ्काः। बङ्गलादेशः २८. ३ क्षेपणचक्रेषु १४६। [लक्ष्यं तु २९ क्षेपणचक्रेषु १६५।] 

  भारतस्य प्रारम्भकक्रीडकः वैभव सूर्यवंशी [६७ कन्दुकैः ७२], अभिग्यान कुण्डुः [११२ कन्दुकैः ८०] च भारताय श्रेष्ठां क्रीडां कृतवन्तौ।

Saturday, January 17, 2026

 केरलम्। 

संस्कृतोत्सवानुशासनपरिष्करणं- आशङ्कां परिहरिष्यति - वि शिवन्कुट्टिः 

तृश्शूर्> यदा केरलस्य विद्यालयीयकलोत्सवस्य अनुशासनं [manual] परिष्करिष्यति तदा संस्कृतम्, अरबी, उर्दु भाषाविषयककलोत्सवेषु वर्तमानाः शिक्षकाणां छात्राणां च आशङ्काः परिहरिष्यन्तीति राज्यशिक्षामन्त्री वि शिवन्कुट्टिः निगदितवान्। ६४ तम राज्यस्तरीय विद्यालयकलोत्सवस्य अंशतया आयोज्यमानायाः संस्कृतसंगोष्ठ्याः उद्घाटनं निर्वहन् भाषमाणः आसीत् सः।

  सामाजिकविद्यालयेषु सर्वासां भाषाणाम् अध्ययनं समानरीत्या प्रोत्साहनीयं, नवकेरलस्य निर्माणे भाषाध्यापकेषु सविशेषम् उत्तरदायित्वं वर्तते इति च शिवन्कुट्टिवर्येण प्रस्तुतम्। संगोष्ठीकार्यक्रमे राजस्वं [Revenue] मन्त्री के राजः अध्यक्षः अभवत्। 

  संस्कृतभाषायाः अक्षरशास्त्रम् [Neuro Linguistics in Sanskrit] इति विषये श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य पय्यन्नूर् परिसरस्य भूतपूर्वः निदेशकः डो ई श्रीधरः प्रबन्धं प्रस्तुतवान्। केरल संस्कृताध्यापक फेडरेशन् संघटनस्य अध्यक्षः सि सुरेष् कुमारः मध्यवर्तिरूपेण संगोष्ठिं प्रचालितवान्। 

 संस्कृतमण्डले विभिन्नक्षेत्रेषु  प्रशस्तं योगदानं कृतवन्तः प्रतिभायुक्ताः कार्यक्रमे सर्वकारेण समादृताः। एम् वि नटेशः, प्रोफ. के के षैनः, पि वि सन्तोष् कुमारः,  के एन् जनार्दनः, पि वि मधुसूदनः, के प्रदीप कुमारः, वि टि हरिप्रसादः, शैलजा, एड्वेर्ड् चाल्स् के आल्बर्ट् [युवकः सङ्गीत संविधायकः] इत्येते समादृताः।

 ऊन१९ क्रिकट् विश्वचषकः। 

प्रथमस्पर्धायां भारतस्य विजयः।

प्रथमस्पर्धायां भारतक्रीडकाः। 

अद्य भारत-बङ्गलादेशस्पर्धा।

बुलवायो (सिम्बाब्वे)> ऊननवदशवयस्कानां क्रिकट् विश्वचषकस्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतेन प्राप्तस्य आधिकारिकविजयस्य उत्साहे अद्य द्वितीयस्पर्धायै भारतदलः सन्नद्धः। शनिवासरे भारतसमयानुसारं  मध्याह्ने एकवादनतः बङ्गलादेशं विरुद्ध्य बुलवायो इत्यत्र अस्ति स्पर्धा। 

  गुरुवासरे सम्पन्ने 'ए' संघस्य प्रथमे प्रतिद्वन्द्वे भारतं यू एसं पराजयत। यू एसं ३५. २ क्षेपणचक्रेषु १०७ धावनाङ्कैः बहिर्नीतवान्  भारतदलः वृष्टिनियमानुसारं १७. २ क्षेपणचक्रेषु विजयतीरं प्राप।

Friday, January 16, 2026

 रसना मासपत्रिकायाः प्रबंधसंपादकः के एम् जनार्दनः समादृता।

के. एम्. जनार्दनः सम्मानं स्वीकरोति

त्रिश्शिवपेरूर् > रसना मासपत्रिकायाः सम्पादकः के एम् जनार्दनः केरलसर्वकारेण समादृतः। संस्कृतभाषायाः प्रचाराय रसना मासिकायाः प्रकाशनेन के एम् जनार्दनः संस्कृतभाषायाः प्रचारणमण्डले प्रयत्नं कृतवान्। केरलात् प्रकाश्यमाना इयंपत्रिका २००९ तमात् संवत्सरादारभ्य अनुस्यूततया प्रकाशिता भवति। केरलस्य शिक्षामन्त्री वि शिवन् कुट्टी महोदयस्य हस्तात् के . एम् जनार्दनः स्वीकृतवान्। 

 गासा युद्धविरामः द्वितीयचरणं प्रविशति। 

वाषिङ्टणः> गतवर्षे ओक्टोबरमासे गासायां प्रवृत्तिपथमानीतः युद्धविरामः तस्य द्वितीयचरणं प्रविशन्नस्तीति यू एस् राष्ट्रपतेः सविशेषप्रतिनिधिः स्टीव् विट् कोफ् इत्यनेन बुधवासरे निगदितम्। चरणेSस्मिन् हमासस्य निरायुधीकरणं, गासायाः पुनरुद्धारणं, गासायाः प्रतिदिनकार्यतन्त्रार्थं अमेरिकायाः अधीशत्वे कुशलपलस्तीनीयानां समितिः इत्येतानि अन्तर्भवन्ति।

 इराने प्रक्षोभः शाम्यते। 

दुबाय्> सप्ताहत्रयेण इरानवीथिषु प्रज्वाल्यमानः प्रक्षोभाग्निः शाम्यते इति सूच्यते। गतदिने गणनीयाः अनिष्टघटनाः अक्रमाः न जाताः। भुषुण्डिप्रयोगध्वनयः अत्यन्तं न्यूनाः आसन्निति दृक्साक्षिप्रामाण्यम् उद्धृत्य ए पि नामकवृत्तान्तसंस्थया निगदितम्। 

  इराने वर्तमानेषु ३१ प्रान्तेषु १८० नगरेषु बहुजनप्रक्षोभः व्याप्तः आसीत्। १५० सुरक्षासैनिकान् अभिव्याप्य २५७२ जनाः मृताः। १९७९ तमे जातस्य इस्लामिकान्दोलनस्यानन्तरं अधिकः रक्तरूषितः संघर्षः अस्ति इदानीं प्रवृत्तमानः संघर्षः।

 बी एस् एफ्, ऐ टि बी पी, एन् ऐ ए संस्थासु नूतनमुख्याधिकारिणः नियुक्ताः। 

नवदिल्ली> सीमा रक्षासेना [बी एस् एफ्], इन्डो-टिबटन् बोर्डर् पोलीस् [ऐ टि बी पी], राष्ट्रिय अन्वेषण नियुक्ता [एन् ऐ ए] इत्येतासां संस्थानां नूतनाः मुख्याधिकारिणः केन्द्रप्रशासनेन नियुक्ताः। वरिष्ठः ऐपिएस् पदीयः शत्रुजित् सिंह कपुरः ऐ टि बी पी मुख्यनिदेशको जातः। वर्तमानीन ऐ टि बी पी मुख्यनिदेशकः प्रवीण कुमारः बी एस् एफ् दलस्य मुख्यनिदेशकरूपेण नियुक्तः। वरिष्ठः ऐपिएस् पदीयः राकेश अगर्वालः एन् ऐ ए इत्यस्य मुख्याधिकारी अभवत्।

Thursday, January 15, 2026

 महाराष्ट्रम्। 

 नगरसभानिर्वाचनं सम्पन्नम्। 

मुम्बय्यां जनविधिः आकाङ्क्षां भजते। 

मुम्बई> भारतराष्ट्रस्य आर्थिकराजधानीति प्रसिद्धिं भजमानं मुम्बैयम् अभिव्याप्य २९ महानगरेषु नगरेषु च तद्देशीयनिर्वाचनं समभवत्। 

 किन्तु सर्वाण्यपि नेत्राणि बृहन्मुम्बई मुनिसिपल् कोर्परेषन् [बी एम् सि] इति कथ्यमानम् आर्थिकराजधानीं केन्द्रीकृतानि सन्ति। बी एम् सि संस्थायाः प्रशासनपदप्राप्तिः सर्वेषां राजनैतिकदलानाम् आत्माभिमानस्य विषयो भवति। एष्याभूखण्डे बृहत्तरेषु आयव्ययपत्रकराशिविहितात्मकेषु महानगरेषु अन्यतमं भवति बी एम् सि। ७५,४२७ कोटि रूप्यकाणि आसीत् २०२५-२६ आर्थिकवर्षस्य आयव्ययराशिः। 

  बी जे पी, शिवसेना [षिन्डे विभागः], आर् पि ऐ इत्येतेषां सख्यं, उद्धव ताकरे पक्षस्य शिवसेना राज ताकरे पक्षस्य एम् एन् एस्, शरद पवारस्य एन् सि पि इत्येतेषां सख्यं, कोण्ग्रस्, वि बी ए दलयोः सख्यं च परस्परं स्पर्धन्ते। 

 बि एम् सि मध्ये २२७ प्रशास्यमण्डलानि - wards - सन्ति। एककोट्यधिके मतदायकाः सन्ति। २९ नगरसभासु सार्धत्रिकोटिसंख्यकाः मतदायकाः च सन्ति।

 ऊन१९वयस्कानां क्रिकट् विश्वचषकः समारब्धः। 

हरारे> क्रिकेट क्रीडाक्षेत्रस्य कौमारताराणां युद्धं समारब्धम्। ऊननवदशवयस्कानां विश्वचषकक्रिकट् क्रीडाः सिम्बाब्वे नमीबिया राष्ट्रद्वये  सम्पत्स्यन्ते। 

  आहत्य १६ दलाः चतुर्षु संघेषु स्पर्धन्ते। भारतम् अन्तर्भूयमाने बी संघे बङ्गलादेशः, न्यूसिलान्टः, यू एस् इत्येतानि राष्ट्राणि च सन्ति।

 भारत-न्यूसिलान्ट् एकदिनम्

द्वितीयस्पर्धायां न्यूसिलान्टः विजितः।

न्यूसिलान्टाय शतकं प्राप्य श्रेष्ठक्रीडकत्वेन चितः डारिल् मिच्चलः। 

राज्कोट्> भारत-न्यूसिलान्टयोः स्पर्धात्रयात्मिकायाः एकदिन क्रिकेट परम्परायाः द्वितीये प्रतिद्वन्द्वे न्यूसिलान्टस्य सप्तद्वारकाणां विजयः। डारिल् मिच्चलस्य शतकेन [१३१*] विल् यङ् नामकस्य अर्धशतकेन [८७] च २८५ इति विजयलक्ष्यम् न्यूसिलान्टः अनायासेन प्राप। अनेन विजयेन प्रथमस्पर्धाविजयिना भारतेन समं १-१ इति समस्थितिं भजते न्यूसिलान्टः । अन्तिमा एवं तृतीया  स्पर्धा परम्परालब्धये निर्णायकप्राधान्यमावहति। 

  प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु सप्त द्वारकैः २८४। तत्र के एल् राहुलः भारताय शतकं प्राप्तवान् आसीत्। न्यूसिलान्टः ४७. ३ क्षेपणचक्रेषु त्रिभिः द्वारकैः २८६।

 जम्मु-काश्मीरे भीकर-सेनयोः प्रतिद्वन्द्वः। 

नियन्त्रणरेखायां ड्रोण् यन्त्राणि।

श्रीनगरं> कठुव जनपदस्थे नजोट् काननमण्डले सुरक्षासेना भीकराश्च मिथः भुषुण्डिप्रयोगः जातः। गतसप्ताहं यावत् जेय्षे मुहम्मदीयभीकरेभ्यः सुरक्षासेनया मार्गणमारब्धमासीत्। भीकरैः भुषुण्डिप्रयोगे जाते सैन्येन प्रतिप्रयोगः कृतः। 

  रजौरि जनपदे नियन्त्रणरेखायाः समीपं मंगलवासरे द्वयोः ड्रोणयन्त्रयोः सञ्चारसान्निध्यमभवत्। भीकराणां ड्रोण् इति सूच्यते।

Wednesday, January 14, 2026

 पश्चिमवंगः। 

राज्ये 'निपा' बाधा ; द्वे अनुवैद्ये कठिनतरावस्थायाम्। 

कोल्कोत्ता> पश्चिमवंगस्य बारासात् प्रान्ते निजीयातुरालये वृत्तिं कुर्वत्यौ द्वे अनुवैद्ये निपावैराणुबाधिताः जाताः इति दृढीकृतम्। परिचर्यायां वर्तमानयोः एतयोरवस्था कठिनतरा वर्तते। वैराणुबाधायाः स्रोतावगमनाय अन्वेषणमारब्धमिति राज्याधिकारिणी नन्दिनी चक्रवर्ती निगदितवती।

 राज्य-राष्ट्रीय-स्तरे राकेश-कण्डवालः छात्रैः सह योगेन प्रसृत:

केटरम् > मार्गदर्शनं कुर्वन् मुख्यातिथिः श्री ऋषिकण्डवालः अवदत्—

“संयमः अनुशासनं च एव योगः। अल्पवयसि एव योगाभ्यासेन या प्रतिभा अर्ज्यते, सा अस्माकं सभ्यता-संस्कारयोः प्रतीकम्। आधुनिक-कौशल-संयुक्तयोगासनानि सम्पूर्ण-जीवनस्य स्वास्थ्याय भवितुमर्हन्ति। राकेशः कण्डवालः कण्वनगरीतः प्रदेशे देशे च विद्यार्थिभिः योगस्य कीर्तिं प्रसारयति।”

 संस्कृतक्षेत्रस्य आचार्यः शारीरिक-शिक्षकश्च राकेशः कण्डवालः योगक्षेत्रे विशिष्टां उपलब्धिं प्राप्नोति। सः 2011 वर्षात् आरभ्य संस्कृतशिक्षणेन सह शारीरिकशिक्षायां योगप्रशिक्षणमपि ददाति। तस्य छात्राः जनपदे, प्रदेशे, राष्ट्रस्तरे च विजयध्वजं प्रसारयन्ति। तस्य पुत्रः सार्थकः कण्डवालः अपि योगासनेषु गिनीज-वर्ल्ड-बुक इत्यत्र स्वनामाङ्कनं कृतवान्। अद्य तेषां माध्यमेन विविधेषु क्षेत्रेषु योगशालाः सञ्चालिताः सन्ति, छात्राः प्रशिक्षकरूपेण योगप्रशिक्षण-कार्यशालाः अपि सञ्चालयन्ति।

एतस्य वर्षस्य प्रारम्भे तेषां निज-आवासे सार्थकयोगशाला क्रीडायोगासन-कार्यशालायाः विधिवत् उद्घाटनं सम्पन्नम्, यस्याः अध्यक्षपदे श्रीमती कविता कण्डवाल: विराजन्ते, संरक्षकः राकेशः कण्डवालः अस्ति। प्रशिक्षकरूपेण सन्तोषी रावत:, सोनम रावत:, शुभम् रावत:, सार्थकः कण्डवालः इत्यादयः तेषां शिष्याः प्रतिदिनं योगप्रसारे महत्त्वपूर्णं योगदानं ददति।

 सभ्यता-संस्कारयोः प्रतीक: योग: - "ऋषिकण्डवाल:"

-कुलदीपमैन्दोला

      कण्वनगरी>कोटद्वारे योगक्षेत्रे सार्थकयोगशाला- योगासन-क्रीडा-प्रशिक्षण-कार्यशालायाः सफलं समापनम् सञ्जातम् । ख्यातिप्राप्तैः योगविद्यार्थिभिः प्रशिक्षकैश्च संयुक्तरूपेण कार्यशाला आयोजिता। अस्याः कार्यशालायाः समापनं मङ्गलवासरे हर्षोल्लासेन सम्पन्नम्। अवसरेऽस्मिन् योगासन-प्रतियोगिता, एकल-नृत्य-प्रतियोगिता, चित्रकला-प्रतियोगिता, तथा पुरस्कार-वितरण-सम्मान- समारोहः अपि आयोजितः।

     कार्यक्रमस्य शुभारम्भः मुख्यातिथिना श्री ऋषिकण्डवाल-महाभागेन (सिंचन-परामर्शक-उपाध्यक्षः, सम्मानप्राप्त-राज्यमन्त्री – उत्तराखण्ड-सर्वकार:) दीपप्रज्वलनेन कृतः। मुख्यातिथिना बालकैः सह गणमान्य-अतिथयः छात्राश्च सम्मानिताः, पुरस्काराश्च वितरिताः। राष्ट्रीयस्तरे पदक-प्राप्तेषु क्रीडकेषु बालयोगी सार्थकः कण्डवालः, संस्कृतिः गुसाईं, सन्तोषी रावत:, किशिता गुप्ता इत्येते विशेषरूपेण सम्मानिताः। तथा प्रतियोगितासु प्रथम-द्वितीय-तृतीय-स्थान-प्राप्ताः सर्वे प्रतिभागिनः पदकप्रमाणपत्रैश्च अलंकृताः। एतत् आयोजनम् । सार्थकयोगशालायाः कृते नितान्तं गर्वकरः क्षणः अभवत्।

     कार्यक्रमे डिस्कवर् उत्तराखण्ड 24 न्यूज़ इत्यस्य प्रतिनिधिः श्री अम्बेशः पन्तः, डॉ. रमाकान्तः कुकरेती, कुलदीपः मैन्दोला, रोशनः गौडः, जितेन्द्रः धस्मानः, ममता गौडः, जनार्दनः द्विवेदी, प्रमोदः कण्डवालः, जगदम्बा कण्डवाल:, अञ्जलिः विष्ट:, पूजा रावत: तथा सर्वे अभिभावकाः उपस्थिताः सन्तः पूर्णं सहयोगं प्रदत्तवन्तः।

 संसदः आयव्ययपत्रोपवेशनं जनु. २८तमः आरप्स्यते। 

आयव्ययपत्रं फेब्रुवरि प्रथमदिनाङ्के। 

नवदिल्ली> तृतीयमोदिप्रशासनस्य द्वितीयम् आयव्ययपत्रोपवेशनं जनुवरि २८ तमदिनाङ्कतः आरभ्य एप्रिल् द्वितीयदिनाङ्कपर्यन्तं सम्पत्स्यते। प्रशासनस्य अस्य वर्षस्य आयव्ययपत्रं फेब्रुवरि प्रथमदिनाङ्के रविवासरे वित्तमन्त्री निर्मला सीतारामः लोकसभायां प्रस्तौष्यति। राष्ट्रस्य आर्थिकावलोकनपत्रं जनु. २९ तमे दिनाङ्के प्रस्तौष्यति। 

  आयव्ययपत्रसम्मेलनात् आरभ्य संसदि २२ प्रादेशिकभाषासु परिभाषाः लप्स्यन्ते इति सभानाथेन ओं बिर्लावर्येण प्रोक्तम्। सदस्याः प्रादेशिकभाषया भाषितुं शक्यन्ते। भाषणं  संसदा अङ्गीकृतासु २२ भाषासु अन्तर्भवति चेत् परिभाषा लप्स्यते।

 केरलम्।

कौमारकेरलस्य राज्यस्तरीयकलोत्सवः अद्य आरभते। 

कलोत्सवस्य मुख्यवेदिका। 

तृश्शूर्> ६४ तमः केरलविद्यालयीयकलोत्सवः बुधवासरे तृश्शूर् नगरे समारभते। अद्य आरभ्य १८ दिनाङ्कपर्यन्तं २५ वेदिकासु १२,००० छात्राः २४९ साहित्यकलाप्रकरणेषु स्वप्रतिभाः स्पर्धाभावेनैव प्रकाशयिष्यन्ति। 

  बुधवासरे प्रभाते दशवादने मुख्यमन्त्री पिणरायि विजयः कलामेलायाः उद्घाटनं करिष्यति। शिक्षामन्त्री वि शिवन् कुट्टिः अध्यक्षः भविष्यति। १८ तमे दिनाङ्के सम्पत्स्यमाने समाप्तिसम्मेलने कैरल्याः जनप्रियः चलच्चित्रनटः मोहन लालः मुख्यातिथिः स्यात्।

Tuesday, January 13, 2026

 राष्ट्रनगरेषु ४४% संख्यकानि 

वायुमलिनीकरणे चिरस्थायीनि।

नवदिल्ली> राष्ट्रस्य नगरेषु ४४% संख्यकानि दीर्घकालिकां वायुमलिनीकरणसमस्याम् अभिमुखीकुर्वन्तीति Center for Research on Energy and Clean Air - CRECA - नामिका संस्था। भारतस्थेषु ४०४१ नगरेषु विधत्ते अनुसन्धानात्मके अनुशीलने १७८७ संख्यकेषु वायुमलिनीकरणं चिरस्थायी भवति। एतावत् तीव्रतरेषु  मलिनीकृतवायुयुक्तेषु नगरेषु केवलं चतुर्षु प्रतिशतमेव - ४%- (१३० नगरेषु) राष्ट्रिय शुद्धवायुपरियोजना [NCAP - National Clean Air Project] सर्वकारेण क्रियते इति सूच्यते। 

  अधिकाधिकं वायुमलिनीकृतनगराणि उत्तरप्रदेशे वर्तन्ते - ४१६।राजस्थाने १५८, गुजराते १५२, मध्यप्रदेशे १४३, पञ्चाबे १३६, बिहारे १३६, पश्चिमवंगे १२४ - इत्येवं भवति समीपस्थराज्यानां पट्टिका। २०२५ तम वर्षस्य अनुशीलनानुसारं मेघालयस्थं बिर्णीहट्, दिल्ली, उत्तरप्रदेशस्थं गासियाबादः इत्येतानि नगराणि अधिकतमानि वायुमलिनीकृतानि नगराणि। 

  केरले स्थिरमलिनीकरणनगरं नास्ति।

 केरले कोच्ची, कोष़िक्कोट्, तिरुवनंतपुरं, एलूर्, कण्णूर् नगराणि अनुशीलनविधेयानि  अभवन्नपि कस्मिंश्चिदपि नगरे चिरं मलिनीकरणं नाधिगतम्। उपग्रहसूचिकाम् आधारीकृत्य आसीत् अनुशीलनम्। २०१९तः आरभ्य पञ्च वर्षेषु १७८७ नगरैः  अनुस्यूततया राष्ट्रिय वार्षिक मलिनीकरणमानपरिधिः - २. ५ - उल्लंघिता।

 वेनस्वेलायाः आचर्यमाणाध्यक्षरूपेण ट्रम्पः स्वयमुद्घोषितः। 

वाषिङ्टणः> वेनस्वेलायाः आचर्यमाणाध्यक्षपदे [Acting President] स्वयमारुह्य 'ट्रूत् सोष्यल्' नामके नवमाध्यमे तद्वार्ताम्  आत्मना एव उद्घोषितवान् यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः। 

  मासेSस्मिन् वेनस्वेलायाम् अधिनिवेश्य राष्ट्रपतिं निकोलास् मडुरोमं पत्न्या सह निगृह्य कारागारे निक्षिप्तवान् ट्रम्पः।

 पि एस् एल् वि विक्षेपणं पराजितम्। 

PSLV C-62 इत्यस्य विक्षेपणावसरे। 

चेन्नई> भारतीय बहिराकाश गवेषणसंघटनस्य [ISRO इस्रो] अस्य वर्षस्य प्रथमविक्षेपणदौत्यं 'पि एस् एल् वि - सि 62' नामकं पराजितमभवत्। श्रीहरिक्कोट्टा सतीष् धवान् बहिराकाशकेन्द्रात् ह्यः प्रभाते १०. १७ वादने आसीत् विक्षेपणम्। विक्षेपण्याः तृतीयांशस्य विश्लेषणानन्तरमासीत् साङ्केतिकदोषः आविर्भूतः। सोपानचतुष्टयोपेतस्य   विक्षेपणस्य सोपानद्वयं विजयकरमासीत्। विक्षेपणवाहनस्य कः दोषः जात इति न विज्ञातम्। 

  भौमनिरीक्षणाय उपयुज्यमानम् अन्वेषाभिधानम् उपग्रहमभिव्याप्य १६ उपग्रहाः विक्षिप्तः आसन्। ४०० कि मी उन्नतेः १६ उपग्रहाः अपि समुद्रं निपतिताः।

Monday, January 12, 2026

 इराने आतुरालयः आहतैः अतिशेते। 

टेह्रान्> तीव्रप्रक्षोभेण कलुषिते इराने आतुरालयाः व्रणितैः परिधिमतिक्रामन्ति। आतुरालयं नीतेषु शिरसि वा नेत्रेषु वा गोलिकाशस्त्रप्रहृतानां संख्या अधिकतरा इति सूच्यते। आवश्यानुसारं स्वास्थ्यप्रवर्तकाः वा शस्त्रक्रियाकुशलाः वा न सन्ति। सहस्रशः जनाः व्रणिताः सन्तः आतुरालयान् आश्रयन्ति।

 केरलम्। 

शबरिगिरौ मकरज्योतिदर्शनं बुधवासरे। 

'तिरुवाभरणघोषयात्रा अद्य आरभते। 

तिरुवाभरणघोषयात्रा आरभते। 

पत्तनंतिट्टा> शबरिगिरितीर्थाटनस्य परिसमाप्तिं आलेख्यमाना 'मकरविलक्क्' इत्याहूयमाना दीपाराधना चतुर्दशदिनाङ्के सायंसन्ध्यायां सम्पत्स्यते। पोन्नम्पलमेट् इत्यतः दृश्यमानाय मकरज्योतिदर्शनाय च लक्षशः 'अय्यप्पाः' शबरिगिरौ प्रान्तप्रदेशेषु च द्वित्राणि दिनानि यावत् भक्तिपुरस्सरं प्रतीक्षमाणाः वर्तन्ते। 

 मकरविलक्क् दीपाराधनसमये देवविग्रहम् अलङ्कर्यमाणानि विशिष्टाभरणानि वहन्ती घोषयात्रा - तिरुवाभरणघोषयात्रा - पन्तलं राजभवनस्थात् वलियकोयिक्कल् मन्दिरात् अद्य समारब्धा। आभरणयुक्तानि पेटकानि वोढुं नियुक्तः संघः पादचलनेनैव बुधवासरे सायं  सन्निधानं प्राप्स्यति।

Latest newsLatest news

 भारत-न्यूसिलान्ट एकदिनक्रिकट्

प्रथमस्पर्धायां भारतस्य विजयः।

विराटकोलिनः कन्दुकताडनम्। 

वडोदरा> अर्हं शतकं विनष्टमपि विराटकोलिनः अत्युज्वले कन्दुकताडनप्रभावे भारत-न्यूसिलान्टयोः एकदिनक्रिकट्स्पर्धापरम्परायाः प्रथमे प्रतिद्वन्द्वे भारतस्य द्वारकचतुष्टयस्य विजयः। 

 प्रथमं कन्दुकताडनं कृतवान् न्यूसिलान्टदलः ५० क्षेपणचक्रेषु अष्ट द्वारकाणां विनष्टे ३०० धावनाङ्कान् सम्पादयामास।प्रत्युत्तरक्रीडायां भारतदलः ४९ क्षेपणचक्रेषु ६ द्वारकाणां विनष्टे ३०६ धावनाङ्कान् सम्पाद्य लक्ष्यं प्राप। परम्परायाः द्वितीयस्पर्धा बुधवासरे सम्पत्स्यते। 

  विराट कोहली भारतविजयस्य शिल्पी अभवत्। ९१ कन्दुकेषु ८ चतुष्कं, एकं षट्कं चाभिव्याप्य सः ९३ धावनाङ्कान् प्राप्तवान्। नायकः शुभमान गिलः (५६/ ७१), उपनायकः श्रेयस् अय्यरः (४९/४७), को एन् राहुलः (२९/२१), हर्षित राणः (२९/२३) इत्येते च भारतस्य विजये प्रधानभागम् अवहन्।

Sunday, January 11, 2026

 इरानः कोलाहलकलुषः। 

नगराणि अभिभाव्यानीति आह्वानम्। 

वाषिङ्टणः> इराने अयोत्तल्ला खमीनि प्रशासनं विरुध्य व्याप्यमानं प्रक्षोभं परं प्रबलीकर्तुं जनान्  भूतपूर्वः राष्ट्राधिकारी रसा पहलवी उद्बोधयामास।  राष्ट्रात् भ्रष्टः सः पञ्च दशकं यावत् यू एस् मध्ये वसति। 

  केवलं वीथीनां स्वायत्तीकरणं, नगराणां नियन्त्रणमेव आवश्यकमिति वीडियो सन्देशे तेन प्रबोधितम्। स्वराष्ट्रं प्रतिनिवर्तयितुं सन्नाहः क्रियते इति तेनोक्तम्।

 अयोध्यायां १५ कि मी परिधौ

मांसाहारस्य निरोधः। 

लखनौ> अयोध्यायां श्रीराममन्दिरस्य १५ कि मी परिधौ मांसभोजनानि निरुद्धानि। प्रदेशे ओण् लेन् भोज्यवितरणं कुर्वद्भिः सस्येतरभोज्यानां वितरणं क्रियते इति परिदेवनानि लब्धानि इत्यत एव अयं प्रक्रमः इति अयोध्या नगरसभाधिकृतैः निगदितम्। कतिपयेषु भवनाधिवासेषु [Home stays] मांसभोज्यानि मदिरापानीयानि च वितरन्ते इति परिदेवनमस्ति। 

  २०२५ तमे वर्षे १४ कि मी परिधौ मद्यमांसादीनां वितरणं निरुध्य आदेशः कृतः अपि फलप्रदः नासीत्। अत एव नूतनोSयमादेशः।

Saturday, January 10, 2026

 अमित शाहः अद्य अनन्तपुर्याम्।

अनन्तपुरी> केन्द्रगृहमन्त्री भा ज पा नेता च अमित शाहः शनिवासरे रात्रौ अनन्तपुरीं प्राप्नोति। रविवासरस्य प्रभाते पद्मनाभस्वामिमन्दिरे भगवद्दर्शनं कृत्वा ११ वादने भाजपादलस्य विधानसभानिर्वाचनप्रचरणस्य उद्घाटनं करिष्यति। रात्रौ दिल्लीं प्रस्थास्यति।

 राज्यवार्ता - केरलम्। 

शबरिगिरि सुवर्णस्तेयः

देवस्य पितृस्थानीयः 'तन्त्री' निगृहीतः; कारागारे बद्धः। 

राजीवर् कण्ठरः। 

अनन्तपुरी> शबरिगिरि सुवर्णस्तेयप्रकरणे  शबरिगिरीशस्य पितृस्थानीयः इति परिकल्प्यमानः क्षेत्रस्य तन्त्रिपदीयः कण्ठर राजीवरः   सविशेषान्वेषणदलेन निगृहीतः; १४ दिनानि यावत् कारागारे बद्धः च। शुक्रवासरे प्रत्युषसि परिपृच्छार्थम् अनन्तपुरीं प्रति आमन्त्र्य पञ्च होराणां परिपृच्छानन्तरमासीत् निग्रहणम्। 

  मन्दिरस्य सुवर्णफलकानां विश्लेषणम् आचारोल्लङ्घनमिति ज्ञात्वा   तन्त्री तदर्थम् आनुकूल्येन व्यवहृतवान्, प्रथमापराधी उण्णिकृष्णन् पोट्टी इत्यस्मै मौनानुज्ञां दत्वा गूढालोचनायां भागं कृतवान्, सुवर्णफलकविश्लेषणे देवात् अनुज्ञालाभाय तान्त्रिकव्यवहारं कमपि न कृतवान् इत्याद्यपराधाः तन्त्रिणः उपरि आरोपिताः सन्ति। 

  प्रकणेSस्मिन्  देवस्वसंस्थायाः षट्  भूतपूर्वाधिकारिणः अभिव्याप्य ११ जनाः निगृहीताः सन्तः कारागारे बद्धाः सन्ति।

 गासायाम् इस्रयेलस्य आक्रमणं - १३ मरणानि। 

दय्र् अल् बिलाह्> गासायां सर्वत्र इस्रयेलेन कृते आक्रमणे १३ जनाः हताः। तेष्वेकः बालको भवति। वर्तमानीनं युद्धविरामं निरीक्षितुं यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः 'बोर्ड् ओफ् पीस्' नामकसमित्याः रूपीकरणे उत्सुकः अस्ति। अत्रान्तरे एवेदम् आक्रमणम्। युद्धविरामानन्तरं प्रवृत्तेषु इस्रयेलाक्रमणेषु चतुश्शताधिकाः पालस्तीनीयाः हताः इति अधिकारिभिः प्रस्तुतम्।

 वैचारिकव्यक्ततायै न्यायशास्त्राध्ययनम् अनिवार्यं - हरि ब्रह्मेन्द्रानन्द तीर्थस्वामिनः। 

चेम्मण्टायां समारब्धा न्यायशास्त्रकार्यशालां हरि ब्रह्मेन्द्रानन्द तीर्थस्वामिनः उद्घाटयति।

तृश्शूर्> लौकिकं वा आत्मीयं वा चर्च्यमानविषयाणां पूर्वापरप्रस्तावान् कार्यकारणसहितं विज्ञातुं न्यायशास्त्राध्ययनं सहायकं भविष्यति, तस्मादेव उत्तमं विषयज्ञानम् अस्माभिः लभते इति उत्तरकाश्याम् आदिशङ्करविद्यापीठस्य आचार्यः हरि ब्रह्मेन्द्रानन्द तीर्थस्वामिनः प्रस्तुतवन्तः। नवदिल्लीस्थस्य भारतीय तत्त्वशास्त्रानुसन्धानकेन्द्रस्य साह्येन केन्द्र संस्कृतविश्वविद्यालयस्य संस्कृतभारत्याः च आभिमुख्ये चेम्मण्टा शारदागुरुकुले आयोज्यमानायाः कार्यशालायाः उद्घाटनकार्यक्रमे भाषमाणाः  आसन् स्वामिनः। 

  गुरुकुले भारतीयशास्त्राणाम् अध्ययनानुसन्धानानाम् अंशतया प्रवृत्तमानायां कार्यशालायां भारतस्य भिन्नराज्येभ्यः ३५ अध्येतारः भागं कुर्वन्ति। डो देवः, प्रफ. सुब्रह्मण्य अय्यरः, डो विजयराघवः, डो टि एस् विजयः इत्येते कक्ष्याः चालयन्ति। 

  उद्घाटनकार्यक्रमे केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर् परिसरनिदेशकः डो के के षैनः अध्यक्षतामवहत्। शारदागुरुकुलस्य कार्यदर्शी न्यायवादी टि के मधुः आमुखभाषणमकरोत्। डो श्रीधरराजः, पि एन् श्रीराम‌ः इत्यादयः प्रभाषणमकुर्वन्। कार्यशालेयं जनवरी १३ तमे दिनाङ्के समाप्स्यते।