जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य 
प्रचाराय-प्रसाराय च आमुखपटले संस्कृतज्ञानवर्धकं जीवंत प्रश्नोत्तरी 
प्रतियोगिता "संस्कृतं जनभाषा भवेत्" इति आमुखपटलसमूहे प्रत्येक-रविवासरे 
भवति । एषा प्रतियोगिता प्रत्येक रविवासरे रात्रौ नववादनत: सार्धनववादन 
पर्यन्तं भवति । अस्यां प्रतियोगितायां संस्कृतस्य दशप्रश्नाः सन्ति । 
अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति। सहायका: पण्डितः
 दीपक: शास्त्री, अमित: ओली, मञ्जु भट्टाचार्य:, डॉ. सन्ध्या ठाकुर:, डॉ. 
योगेशव्यास: शिवांगी शर्मा च सन्ति । अस्या: प्रतियोगिताया: पुरस्कारस्य 
प्रायोजक: दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', भुवनेश्वरी 
बालकुमारी ट्रस्ट-हरिद्वारं च स्त: । गत रविवासरे १०/१२/२०१७ तमे दिनाङ्के 
प्रतियोगितायाम् आहत्य ३२० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण 
सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता भूपेशः जोशी (उत्तराखंड), द्वितीया विजयिनी कुनी साहु (ओडिशा), तृतीय विजेता
संतोषकुमार: चौधरी (बिहार) च ।
संतोषकुमार: चौधरी (बिहार) च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं संस्कृतसमाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं लप्स्यते । यदा 
भुवनेश्वरी बालकुमारी ट्रस्ट-हरिद्वारपक्षत: प्रथमविजेते उपहारस्वरुपे 
धार्मिक-पुस्तकं मेलिष्यति ।
आगामी प्रतियोगिता १७/१२/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
आगामी प्रतियोगिता १७/१२/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
 



 
    


