ॐ हरिः श्री गणपतये नमः अविघ्नमस्तु ॥
OUR YouTube Channel 1. SampratiVartah |
marquee
Thursday, October 2, 2025
Wednesday, October 1, 2025
शबरिगिरौ मूल्योपेतवस्तूनां मूल्यगणनाय उच्चन्यायालयस्य आदेशः।
कोच्ची> केरले शबरिगिरि धर्मशास्तामन्दिरस्य सुवर्णमभिव्याप्य सर्वेषां मूल्योपेतवस्तूनां मूल्यगणनाय उच्चन्यायालयः आदेशं व्यजिज्ञपत्। सेवानिवृत्तः न्यायाधिपः के टि शङ्करः एतदर्थं न्यायालयेन नियुक्तः।
शबरिगिरौ भगवतः सुवर्णमभिव्याप्य वस्तूनां समग्रसूचनाः न लभ्याः इति निर्णयस्य आधारे अस्ति न्यायालयस्य अयमादेशः।
राष्ट्रिय-स्वयंसेवक- सङ्घस्य शताब्धिमेलने प्रधानमन्त्री सम्मिलिष्यति। चित्रमुद्रां नाणकं च प्रकाशयति ।
नवदिल्ली> नवदिल्याम् आयोज्यमाने राष्ट्रिय-स्वयंसेवक- सङ्घस्य शताब्दिमेलने प्रधानमन्त्री नरेन्द्रमोदी अद्य मुख्यातिथिः भविष्यति। अंबेदकर इन्टर् नाषणल् सेन्टर् मध्ये प्रभाते १० वादने एव कार्यक्रमः। आर् एस् एस् संघस्य कार्यदर्शी दत्तात्रेय होसबले महाशयाः च भागं स्वीकरिष्यन्ति। निस्वार्थ राष्ट्रसेवाय जीवः दन्तवन्तः भवन्ति स्वयं सेवकाः इति विगते दिने 'मन् की बात्' कार्यक्रमे प्रधानमन्त्रिणा उक्तम् आसीत्।
Tuesday, September 30, 2025
साफ् ऊन - १७ पादकन्दुकं
भारतस्य वीरतापदम्।
कोलम्बो> श्रीलङ्कायां कोलम्बो नगरे सम्पन्ने साफ् संघटनराष्ट्राणां ऊन १७ वयस्कानां पादकन्दुकवीरतास्पर्धायाः अन्तिमप्रतिद्वन्द्वे किरीटं भारतेन प्राप्तम्। अनुस्यूततया पञ्चमवारमेव भारतस्य किरीटप्राप्तिः।
अन्तिमस्पर्धायां बङ्गलादेशम् त्वरितनिर्णये [Shoot Out] ४ - १ इति लक्ष्यकन्दुकक्रमेण पराजयत। निश्चितसमये गणद्वयमपि २ - २ इति समस्थितिमभजताम्।
लोरन्स बिष्णोयि संघः भीकरवादिसंघटनत्वेन कल्पितः।
लोरन्स् बिष्णोय्।
ओट्टावा> कानडां केन्द्रीकृत्य अधोलोकप्रवर्तनानि क्रियमाणः लोरन्स बिष्णोयि नामकः कुप्रसिद्धापराधी तस्य संघश्च कानडराष्ट्रेण भीकरवादिरूपेण विज्ञापितः। अतीतैः कतिपयवर्षैः कानडायां विद्यमानां सिख-कानडीयनागरिकोपेतां खालिस्थानानुकूलसंस्थां विरुध्य प्रवर्तन्ते इत्यस्ति बिष्णोयिसंघं भीकरवादिनमिति कल्प्यमानस्य कारणम्। राष्ट्रमधिवसतां सर्वेषां सुरक्षा स्वकीयकर्तव्यमिति कानडायाः सामान्य सुरक्षामन्त्री गारी आनन्दसंग्री इत्यनेन निगदितम्।
२०२३ तमे वर्षे खालिस्थान विघटनवादिनेता हर्दीप सिंह निज्जर् इत्यस्य हत्यायाः पृष्ठतः बिष्णोयि इति सूचितमासीत्। तदनन्तरं नैकेषु विध्वंसकप्रवर्तनेषु च तस्य भागभागित्वं प्रमाणीकृतमासीत्। अत एव कानडायाः अयं प्रक्रमः। इदानीं भारते अहम्मदाबादस्थे सबर्मती कारागृहे बद्धः भवति लोरन्स बिष्णोयि।
Monday, September 29, 2025
एष्या चषकः भारतेन प्राप्तः।
पाकिस्थानं पञ्च द्वारकैः पराजयत।
विजयश्रीलालितः भारतगणः।
दुबाय्> आपादचूडं किरीटयुद्धस्य अखिलमुत्साहं प्रदर्शितायाः टि - २० क्रिकट् एष्या चषकस्पर्धायाः अन्तिमे प्रतिद्वन्द्वे पाकिस्थानं पञ्च द्वारकैः पराजित्य भारतं किरीटं स्वायत्तीकृतवत्।
प्रथमं कन्दुकताडनं कृतवान् पाकिस्थानगणः १९. १ क्षेपणचक्रेषु १४६ धावनाङ्कान् सम्प्राप्य बहिरगच्छत्। भारतं तु प्रत्युत्तरताडने १९. ४ क्षेपणचक्रेषु ५ कन्दुकताडकान् विनष्टीकृत्य १५० धावनाङ्कान् सम्पाद्य लक्ष्यं प्राप। ५३ कन्दुकैः ६९ धावनाङ्कान् सम्पाद्य तिलकवर्मा अबाह्यः संवृत्तः।
प्रथमचरणे ताडकद्वयस्य विनष्टे ११३ इत्येवं वर्तितस्य पाकिस्थानस्य ४ द्वारकाणि कुलदीप यादवेन ३० धावनाङ्कान् दत्वा उन्मूलितानि।
Sunday, September 28, 2025
अफ्गानिस्थाने यू एस् सैनिककेन्द्रं न आवश्यकम् - चीनः रष्यः इरानः पाकिस्थानः च।
न्यूयोर्क्> अफ्गानिस्थाने परिसरेषु च सैनिककेन्द्राणां स्थापनां विरुद्ध्य चीनः रष्यः इरानः पाकिस्थानः इत्येतानि राष्ट्राणि तेषां विप्रतिपत्तयः प्रकाशिताः। काबुलस्य शसनाधिकारः भौगोलिकाम् अखण्डतां च अङ्गीकरणीया इत्यस्ति तेषाम् आवश्यकता।
तमिळ् नाट् देशीयस्य नटस्य तथा विजयस्य दलप्रचरणपर्यटने उपचत्वारिंशत् जनाः मारिताः।
चेन्नै> तमिळक वेट्रिकष़कम् (TVK) इत्यस्य अध्यक्षेन विजयेन आयोजिते दलप्रचरण-पर्यटने ४० जनाः इतः पर्यन्तं मारिताः। १११ जनाः व्रणिताः। एते आतुरालये चिकित्सायां वर्तन्ते। दलसमेलनेन जातः जनसमर्दः एव दुरन्तस्य कारणत्वेन उच्चते। सर्वकारेण अन्वेषणं ख्यापितम् अस्ति।
एष्या चषक टि - २० क्रिकट्।
भारत-पाकिस्थानकिरीटयुद्धम् अद्य।
दुबाय्> आराधकैः आकांक्षया अवलोक्यमानायाः एष्या चषक टि - २० क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वः अद्य सम्पद्यते। क्रिकट्क्षेत्रे चिरवैरिणौ इति सङ्कल्प्यमानौ भारत- पाकिस्थानदलौ एव कीरीटाय स्पर्धिष्येते। रविवासरे रात्रौ अष्टवादने अस्ति स्पर्धा।
गासायुद्धम् 'ऐ बन एस् ए' राष्ट्रसंघेन अपलपितम्।
न्यूयूर्कः> गायायाम् इस्रयेलेन क्रियमाणं युद्धं भारत-ब्रसील-दक्षिणाफ्रिकाराष्ट्राणां गणेन ऐ बन एस् ए' नामकेन शक्तियुक्तम् अपलपितम्। अधिनिवेशितपालस्तीनदेशस्य वर्तमानावस्थायाम् आशङ्का अपि प्रकाशिता।
न्यूयोर्के सम्पद्यमानस्य यू एन् सामाजिकसभासम्मेलनस्य विरामवेलायामासीत् प्रस्तुतत्रिराष्ट्रसंघस्य उपवेशनम्। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, ब्रसीलस्य विदेशकार्यमन्त्री मौरो वियेरा, दक्षिणाफ्रिकायाः विदेशकार्यमन्त्री सिन् डिसिवे चिकुङिगा इत्येते उपवेशने भागं कृतवन्तः।
दुर्भिक्षां निर्मीय तदेव आयुधम् इत्येवं रूपेण क्रियमाणस्य इस्रयेलचेष्टां राष्ट्रनेतारः विमृष्टवन्तः। गासायां सम्पूर्णयुद्धविरामः अपेक्षितः, बन्धिताः हमासेन मोचयितव्याः इति अभ्यर्थना राष्ट्रसंघेन पुनरावर्तिता।
Saturday, September 27, 2025
सेवानिवृत्तेभ्यः 'मिग् विमानेभ्यः' राष्ट्रस्य विरामाभिवाद्यानि।
३६ युद्धविमानानि, ६२ संवत्सराणां सेवा, त्रीणि युद्धानि।
चण्डिगढः> ६२ संवत्सराणि भारताय सेवाम् अनुष्ठीयमानानि ३६ संख्याकानि 'मिग् २१' नामकानि युद्धविमानानि सेवानिवृत्तानि अभवन्। चण्डीगढ़ वायुसेनानिलये आयोजिते कार्यक्रमे रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे राष्ट्रस्य आदराभिवाद्यानि समर्पितानि।
भारतीयवायुसेनायाः गभीरं शक्तिस्रोतः आसीत् मिग् २१ युद्धविमानानि। १९६३ तमे वर्षे मिग् विमानानि भारतसेनायाः अंशः अभूत्। त्रिषु युद्धेषु भारताय अभिमानकराणि प्रवर्तनानि प्रदर्शितानि।
Friday, September 26, 2025
उद्योगात् निष्कास्यन्ते कर्मचारिणः।
अमेरीकसंयुक्तराज्यस्य शासनं वित्तीयव्ययविषयके राजनैतिकविवादे निमग्नम्। अस्य विवादस्य परिणत्या शासनस्तम्भनस्य महान् सम्भवो जातः। एतदनुसृत्य वैट् हौस् सर्वाः सङ्घीयसंस्थाः सम्भाव्य पिधानाय सज्जतामाचरितुम् आदिशत्। शासनस्य व्ययविधेयकं काङ्ग्रेस् इति विधायिकायां डेमोक्रेट् -रिपब्लिक पक्षयोर्मध्यगतेन गतिरोधेन नानुमोदितम्। अतः यदि विधेयकमिदं नियतकालात् प्राक् न अङ्गीकरिष्यते तर्हि अनेके शासकीयविभागाः स्वकार्याणि निश्चलीकरिष्यन्ति। एवं सति लक्षशः कर्मचारिणः उद्योगात् बहिः प्रेषयिष्यन्ते। यद्यपि राष्ट्रसुरक्षादिसम्बद्धा अत्यावश्यकसेवाः अनवरतं चलिष्यन्ति तथापि इतराणि नैकानि कार्याणि रुद्धानि भविष्यन्ति॥
'रेल् यानात्' भारतस्य अग्निशस्त्र विक्षेपणपरीक्षणम्।
२००० कि मी दूरपरिधिः; राष्ट्रे प्रथमम्। ![]()
ओडीशयां रेल् अधिष्ठित जंगम विक्षेपिण्याः कृतस्य अग्निशस्त्र विक्षेपणस्य दृश्यानि।
एष्या चषकान्तिमस्पर्धा
भारतस्य प्रतियोगी पाकिस्थानम्।
दुबाय्> एष्या चषक टि - २० क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वे रविवासरे भारतं पाकिस्थानेन सह स्पर्धिष्यते। गतदिने सम्पन्ने पाकिस्थान-बङ्गलादेशयोः 'सूपर् फोर्' प्रतिद्वन्द्वे पाकिस्थानं बङ्गलादेशं ११ धावनाङ्कैः पराजित्य अन्तिमचक्रं प्राविशत्।
प्रथमं कन्दुकताडनं कृतवत् पाकिस्थानं २० क्षेपणचक्रेषु अष्ट ताडकानां विनष्टे १३५ धावनाङ्कानि सम्प्रापयामास। बङ्गलादेशस्य प्रत्युत्तरताडनं ९ ताडकानां विनष्टे १२४ धावनाङ्कान् सम्प्राप्य समाप्तम्।
Thursday, September 25, 2025
सि बी एस् ई १०, १२ परीक्षाः फेब्रुवरि १७ तमदिनाङ्कतः।
नवदिल्ली> सि बी एस् ई संस्थायाः विद्यालयेषु १०, १२ कक्ष्ययोः वार्षिकपरीक्षाः २०२६ फेब्रुवरि १७ तमदिनाङ्कतः आरप्स्यन्ते। दशमिकक्ष्यापरीक्षायाः अंशद्वयं भविष्यति। प्रथमपरीक्षा फेब्रुवरि १७ तमदिनाङ्कतः मार्च् ६ पर्यन्तं, द्वितीया परीक्षा मेय् १५ तमतः जूण् प्रथमदिनाङ्कपर्यन्तं च विधास्यति इति परीक्षाचालकः सन्यं भरद्वाजः निगदितवान्। प्रथमतया एव दशमकक्ष्यापरीक्षा वारद्वयेन विधास्यते।
एष्या चषक क्रिकट्
भारतम् अन्तिमस्पर्धां प्राविशत्।
दुबाय्> बङ्गलादेशं ४१ धावनाङ्कैः पराजित्य भारतम् एष्या चषक टि - २० क्रिकट् स्पर्धापरम्परायाः अन्तिमचक्रं प्राविशत्। 'सूपर् फोर्' इति चतुष्कक्रीडायां स्पर्धाद्वयमपि भारतेन विजितम्। गुरुवासरे सम्पद्यमानस्य पाकिस्थान-बङ्गलादेशप्रतिद्वन्द्वस्य विजयिदलेन सह भारतस्य अन्तिमस्पर्धा सम्पत्स्यति।
'ले' इत्यत्र प्रक्षोभः अक्रमोपेतः।
४ मरणानि।
![]() |
| ले मध्ये संवृत्तस्य अक्रमस्य दृश्यम्। |
ले [लडाकः]> केन्द्रप्रशासनप्रदेशे लडाके राज्यपदं पुनःस्थापनीयम्, प्रदेशः शासनसंविधानस्य ६तमे विभागे [षेड्यूल्] अन्तर्भावयितव्यः इत्यादीनि आवश्यकानि उन्नीय राजधानीनगरे ले मध्ये विधत्तमानः प्रक्षोभः अक्रमपूर्णः अभवत्। संघर्षे चत्वारः जनाः हताः। रक्षिपुरुषान् अभिव्याप्य ४५ जनाः आहताः।
रक्षिपुरुषैः कृतेन भुषुण्डिप्रयोगेणैव चतुर्णां प्राणहानिरिति प्रक्षोभकाः आरोपयन्ति। प्रदेशे निरोधाज्ञा उद्घोषिता। प्रकृतिसंरक्षणप्रवर्तकः सोनं वाङ् चुक् इत्यनेन आरब्धम् अनशनान्दोलनं स्थगितम्।
वर्षचतुष्टयं यावत् ले प्रदेशे आन्दोलनकार्यक्रमाः अनुवर्तमानाः आसन्। गतदिने तत् अक्रमोपेतमभूत्।
Wednesday, September 24, 2025
मोहन लालस्य संस्कृतप्रतिभां प्रकीर्त्य राष्ट्रपतिः।
![]() |
| कर्णभारं नाटके कर्णस्य वेषं धृत्वा मोहन लालः। |
नवदिल्ली> दादा साहेब फाल्के पुरस्कारप्राप्तस्य मोहन लालस्य संस्कृतभाषानुरागितां विज्ञाय राष्ट्रपतिः द्रौपदी मुर्मू अद्भुतमभिमानं च प्राकटयत्। पुरस्कारदानानन्तरं लालस्य चलच्चित्रयात्रां विशदीकुर्वत् षट् निमेषदीर्घयुक्तं वीडियोप्रदर्शनं कृतम्। तत्र 'कर्णभारम्' इति भासनाटके कावालं नारायणपणिक्कर् वर्यस्य निदेशकत्वे कर्णस्य अंशमभिनीतवान्। तद्दृष्ट्वा आसीत् मुर्मूवर्यायाः अभिनन्दनम्।
केरले मोहन लालस्य संस्कृतसम्बन्धप्रवर्तनानि भाषाभ्युदयकांङ्क्षिणाम् अभिमानास्पदं भवति। 'जनम्' इति कैरलीवार्ताप्रणाल्यां प्रतिदिनसंस्कृतवार्तासंप्रेषणं संस्कृतवार्तावाचनेन अनेन महानटेन समुद्घाटितम्। इदानीमपि १५ निमेषात्मकं 'वार्तासंस्कृतम्' जनं टि वि मध्ये प्रचलदस्ति। संस्कृतोत्कर्षपरासु अनेकासु परियोजनासु मोहनलालः भागं कृतवानस्ति।
कोल्कोत्तायाम् अतिवृष्टिः - नव मृताः।
कोल्कोत्ता> दिनद्वयेन पश्चिमवंगस्य बहुषु प्रदेशेषु अतिवृष्टिरनुवर्तते। कोल्कोत्तानगरे परिसरप्रदेशेषु च जनजीवनं स्तम्भायितम्। अतिवृष्टिदुष्प्रभावेण नव जनाः मृत्युमुपगताः। विद्युदाघातेन एव बहूनि मरणानि।
रेल् मार्गाः विमाननिलयः च जलनिमग्नाः अभवन्। नगरे बस् यान - रेल् यानगमनागनानि छिन्नभिन्नानि जातानि। वंगसमुद्रान्तराले जातः न्यूनमर्द एव कठिनवृष्टेः कारणम्।
Tuesday, September 23, 2025
"चलच्चित्रम् आत्मनः स्पन्दनम्" - मोहन लालः।
फाल्के पुरस्कारः मोहनलालेन स्वीकृतः।
मोहन लालः राष्ट्रपतेः पुरस्कारं स्वीकरोति।
नवदिल्ली> विज्ञानभवने सम्पन्ने प्रौढगम्भीरे कार्यक्रमे राष्ट्रस्य परमोन्नत चलनचित्रपुरस्कारः - दादा साहेब फाल्के पुरस्कारः - राष्ट्रपतिना द्रौपदी मुर्मू महाभागया कैरल्याः 'महानटाय' मोहनलालाय समर्पितः। ७१ तमः राष्ट्रिय चलच्चित्रपुरस्कारसमर्पणकार्यक्रमे आसीत् २३ तमं फाल्के पुरस्कारं मोहनलालः स्वीकृतवान्। "भवान् कश्चन सर्वोत्कृष्टः अभिनेता" इति वार्ताविनिमयवितरणमन्त्री अश्विनी वैष्णवः लालवर्यं अभिनन्दति स्म।
एषः पुरस्कारः मलयालचलच्चित्रमण्डलाय समर्प्यते इति कृतज्ञताप्रकाशने मोहन लालेन प्रोक्तम्। "चलच्चित्रमिति मम आत्मनः स्पन्दनं भवति।" लालस्य हृदान्तरालात् निर्गलितं वाक्यं श्रुत्वा प्रोक्षकाः श्रोतारश्च अभिमानपुलकिताः जाताः।
अमीबिकमस्तिष्कज्वरः
एकोSपि मृतः।
अनन्तपुरी> केरले इतरः ५९ वयस्कः अपि अमीबिकमस्तिष्कज्वरेण मृत्युमुपगतः। गते दिनद्वये ५ जनाः अपि विविधजनपदेषु अमीबिकमस्तिष्कज्वरबाधिताः जाताः।
मलप्पुरं जनपदस्थे वष़िक्कटव् , कोष़िक्कोट्स्थे ओमश्शेरी, इटुक्कीस्थे राजाक्काट्, कोल्लं जनपदस्थे चवरा इत्येतेभ्यः प्रदेशेभ्यः नूतनतया रोगग्रस्ताः इति प्रत्यभिज्ञाताः।
जि एस् टि परिष्करणम्
प्रयोजनं जनेभ्यः लब्धुं निरीक्षणं कर्कशं करोति।
अनन्तपुरी>केन्द्रप्रशासनेन विधत्तस्य जि एस् टि परिष्करणस्य प्रयोजनं जनेभ्यः लभते इति दृढीकर्तुं केन्द्र वित्तमन्त्रालयस्य निर्देशः। राज्येषु वर्तमानाः केन्द्रीय पण्यकरवस्तुकार्यालयाः एव एवंप्रकारेण निर्दिष्टाः।
औषधानि, नित्योपयोगवस्तूनि, इलेक्ट्रोनिकोत्पन्नानि चाभिव्याप्य ५४ प्रकरणानि सविशेषनिरीक्षणे सन्ति। एषां करन्यूनीकरणात् पूर्वं परं च मूल्यं विशकलनं कृत्वा आवेदनसमर्पणाय एव निर्देशः।
द्वौ मावोनेतारौ व्यापादितौ।
नारायणपुरं> प्रतिशीर्षं ४० रूप्यकाणि मूल्यं विज्ञापितौ द्वौ समुन्नतौ मावोवादिनेतारौ सुरक्षासेनया सह प्रतिद्वन्द्वे निहतौ। छत्तीसगढे नारायणपुरे महाराष्ट्रं स्पृशति अभुजमादवने सोमवासरे प्रभाते आसीत् प्रतिद्वन्द्वः। 'कम्युनिस्ट पार्टी ओफ् इन्डिया (मावोयिस्ट्) ' इत्यस्य केन्द्र समिति सदस्यौ नाम्ना राजुदादा इत्याह्वयमानः कट्ट रामचन्द्र रेड्डिः [६३], कोस दादा इति कथ्यमानः कदारि सत्यनारायण रेड्डिः [६७] इत्येतौ एव निहतौ।






.jpg)

