एष्या चषकः भारतेन प्राप्तः।
पाकिस्थानं पञ्च द्वारकैः पराजयत।विजयश्रीलालितः भारतगणः।
दुबाय्> आपादचूडं किरीटयुद्धस्य अखिलमुत्साहं प्रदर्शितायाः टि - २० क्रिकट् एष्या चषकस्पर्धायाः अन्तिमे प्रतिद्वन्द्वे पाकिस्थानं पञ्च द्वारकैः पराजित्य भारतं किरीटं स्वायत्तीकृतवत्।
प्रथमं कन्दुकताडनं कृतवान् पाकिस्थानगणः १९. १ क्षेपणचक्रेषु १४६ धावनाङ्कान् सम्प्राप्य बहिरगच्छत्। भारतं तु प्रत्युत्तरताडने १९. ४ क्षेपणचक्रेषु ५ कन्दुकताडकान् विनष्टीकृत्य १५० धावनाङ्कान् सम्पाद्य लक्ष्यं प्राप। ५३ कन्दुकैः ६९ धावनाङ्कान् सम्पाद्य तिलकवर्मा अबाह्यः संवृत्तः।
प्रथमचरणे ताडकद्वयस्य विनष्टे ११३ इत्येवं वर्तितस्य पाकिस्थानस्य ४ द्वारकाणि कुलदीप यादवेन ३० धावनाङ्कान् दत्वा उन्मूलितानि।