एष्या चषक टि - २० क्रिकट्।
भारत-पाकिस्थानकिरीटयुद्धम् अद्य।
दुबाय्> आराधकैः आकाङ्क्षया अवलोक्यमानः एष्या चषक टि - २० क्रिकट् स्पर्धायाः अन्तिमप्रतिद्वन्द्वः अद्य सम्पद्यते। क्रिकट्क्षेत्रे चिरवैरिणः इति सङ्कल्प्यमानौ भारत- पाकिस्थानदलौ एव कीरीटाय स्पर्धिष्येते। रविवासरे रात्रौ अष्टवादने अस्ति स्पर्धा।