OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 30, 2025

 लोरन्स बिष्णोयि संघः भीकरवादिसंघटनत्वेन कल्पितः।

लोरन्स् बिष्णोय्। 

ओट्टावा> कानडां केन्द्रीकृत्य   अधोलोकप्रवर्तनानि क्रियमाणः लोरन्स बिष्णोयि नामकः कुप्रसिद्धापराधी तस्य संघश्च कानडराष्ट्रेण भीकरवादिरूपेण विज्ञापितः।  अतीतैः कतिपयवर्षैः कानडायां विद्यमानां सिख-कानडीयनागरिकोपेतां खालिस्थानानुकूलसंस्थां विरुध्य प्रवर्तन्ते इत्यस्ति बिष्णोयिसंघं भीकरवादिनमिति कल्प्यमानस्य कारणम्। राष्ट्रमधिवसतां सर्वेषां सुरक्षा स्वकीयकर्तव्यमिति कानडायाः सामान्य सुरक्षामन्त्री गारी आनन्दसंग्री इत्यनेन निगदितम्। 

  २०२३ तमे वर्षे खालिस्थान विघटनवादिनेता हर्दीप सिंह निज्जर् इत्यस्य हत्यायाः पृष्ठतः बिष्णोयि इति सूचितमासीत्। तदनन्तरं नैकेषु विध्वंसकप्रवर्तनेषु च तस्य भागभागित्वं प्रमाणीकृतमासीत्। अत एव कानडायाः अयं प्रक्रमः। इदानीं भारते अहम्मदाबादस्थे सबर्मती कारागृहे बद्धः भवति लोरन्स बिष्णोयि।