सेवानिवृत्तेभ्यः 'मिग् विमानेभ्यः' राष्ट्रस्य विरामाभिवाद्यानि।
३६ युद्धविमानानि, ६२ संवत्सराणां सेवा, त्रीणि युद्धानि।
चण्डिगढः> ६२ संवत्सराणि भारताय सेवाम् अनुष्ठीयमानानि ३६ संख्याकानि 'मिग् २१' नामकानि युद्धविमानानि सेवानिवृत्तानि अभवन्। चण्डीगढ़ वायुसेनानिलये आयोजिते कार्यक्रमे रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे राष्ट्रस्य आदराभिवाद्यानि समर्पितानि।
भारतीयवायुसेनायाः गभीरं शक्तिस्रोतः आसीत् मिग् २१ युद्धविमानानि। १९६३ तमे वर्षे मिग् विमानानि भारतसेनायाः अंशः अभूत्। त्रिषु युद्धेषु भारताय अभिमानकराणि प्रवर्तनानि प्रदर्शितानि।