सार्थकयोगशाला-योगासनक्रीडाकादम्या: भव्यम् उद्घाटनम् ।
कण्वनगरी अधुना योगकारणात् सार्थकतामवाप्नोत् - ऋतुखण्डूरी (विधानसभाध्यक्षा)
योगक्षेत्रे राकेशकण्डवालस्य विद्यते महायोगदानम्
-कुलदीपमैन्दोला
कोटद्वारम्> सार्थकयोगशालायोगासनक्रीडाकादम्याः विधिवतं भव्यं च उद्घाटनं माननीयाविधानसभाध्यक्षया श्रीमती-ऋतुखण्डूरी-भूषणमहाभागया करकमलैः सम्पन्नम्। अस्मिन् शुभावसरे राजनीतिक्षेत्रात् आरभ्य शिक्षाजगत्, शिक्षकसंघाः, क्रीडा–योगक्षेत्रे सम्बद्धाः च अनेके गणमान्यजनाः उपस्थिताः आसन्।
उद्घाटनसमारोहस्य अवसरे प्रसिद्धयोगप्रेमिभिः सह प्रायः द्विशतपञ्चाशत् (२५०) जनानां गरिमामयी उपस्थितिः कार्यक्रमं दिव्यं भव्यं च अकरोत्। अस्मिन् अवसरे राजगौरव:, नमनभटनागर: (जिलापरामर्शक:), मम युवाभारत – युवा-कल्याण-क्रीडा-मन्त्रालयः, भारतसरकारः), गुरुकुलमहाविद्यालय-कण्वाश्रमस्य पूज्यः स्वामीजी, श्री मनमोहननौटियालमहाभागः (प्रधानाचार्यः), आधुनिकभीमवैदिकगुरुकुलः, कण्वाश्रमः), अन्ताराष्ट्रिय पादकन्दुक-प्रशिक्षक: श्री सुनीलरावतमहाभागः तथा "डिस्कवर-उत्तराखण्ड 24 न्यूज " इत्यस्य मुख्यसम्पादक: श्री अम्बेशपन्तमहाभागः