OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Tuesday, April 11, 2017
Monday, April 10, 2017
प्रोफ. एम् अच्युतः दिवंगतः।
कोच्ची>
केरळे नवीननिरूपणसाहित्यस्य शक्तः प्रमुखश्च वक्ता प्रोफ. एम् अच्युतः
[८७] दिवंगतः। ज्वरबाधया सः आतुरालयं प्रविष्टः आसीत्। रविवासरे अपराह्ने
त्रिवादने अन्त्यमभवत्। कैरल्याः निरूपण - विमर्शसाहित्य मण्डले नवपथं प्रकाशयन् तत्र अनिषेध्यं स्थानं प्राप्तः अध्यापकश्रेष्ठ आसीत् प्रोफ. एम् अच्युतः। पाश्चात्य साहित्यविमर्शे अगाघपण्डितः सः ग्रीक् साहित्यादारभ्य आधुनिकमार्क्सियन् साहित्यपर्यन्तं निरूपणशैल्या प्रपठ्य अगाधं ज्ञानमार्जितवान्। प्रथमज्ञानपीठपुरस्कारजेतुः जि शङ्करक्कुरुप्प् वर्यस्य जामाता सः आख्यायिकासाहित्ये [नोवल्] अतीवतत्परः आसीत्।
पाश्चात्यसाहित्यदर्शनं ,नोवल् प्रश्नङ्ङलुं पठनङ्ङलुं, कवितयुं कालवुं , समन्वयं , चेरुकथा इन्नले इन्न् इत्यादयः साहित्यविमर्श पठनमण्डलेषु प्रचुरप्रचारमाप्ताः ग्रन्थतल्लजाः सन्ति।
मलाला ऐक्यराष्ट्रसभायाः शान्तिदूती।
इस्लामबाद्
> चतुर्दशाधिक द्विसहस्रतमसंवत्सरे विश्वशान्त्यर्थं नोबेल्
पुरस्कारेेण समादृता मलाला यूसफ् सायी नामिका पाकिस्थानीयबालिका
ऐक्यराष्ट्रसभायाः शान्तिदूतिकारूपेण नियुक्ता। सभायाः सचिवाध्यक्षेण
अन्टोणियो गुट्टरस् वर्येण प्रख्यापितो यं वृत्तान्तः। ऐक्यराष्ट्रसभायाः
चरिते न्यूनतमवयस्का शान्तिदूती भवति मलाला। आविश्वं बालिकानां शैक्षिकप्रोत्साहनाय प्रयत्नं कुर्वन्ती मलाला तालिबानस्य वधोद्यमात् रक्षां प्राप्य इदानीं ब्रिट्टन् राष्ट्रम् अधिवसति।
अमेरिकायाः उन्नतस्थानयोः द्वौ भारतवंशजौ।
वाषिङ्टण्
> अमेरिका राष्ट्रस्य अत्युच्च स्थानयोः द्वौ भारतीयौ चितौ। राष्ट्रपतिना डोणाल्ड् ट्रम्पेन एतदर्थं निदेशः दत्तः। इन्फर्मेशन् आन्ट्
रगुलेट्टरी अफयेर्स् कार्यश्य निदेशकत्वेन नियमिरावुः तथा इन्टलक्ट्वल्
एन्फोर्स्मेन्टस्य संयोजक-रूपेण विशाल् अमीन् च ट्रम्पेन चितौ। एतयो:
नियुक्ति: सेनट् संविधानेन अङ्गीकरणीया।जोर्ज् डब्लियू बुषस्य शासनकाले वैट्हौस्मध्ये उन्नत स्थानयोः विराजमानौ आस्ताम् एतौ। अमीनः इदानीं जनप्रतिनिधिसभायां नियमआयोगस्य अध्यक्षः भवति। नियोमि रावु: जोर्ज् मेसण् विश्वविद्यालये वरिष्ठाध्यापकः च भवति।
Sunday, April 9, 2017
सिरिया राष्ट्रं प्रति मिसैल् आक्रमणम्। यु एस्- रष्या बन्धः शिथिलः। विश्वम् आशड्कायाम्।
वाषिड्टण्> युएस् रषिया बन्धः पुनः शिथिलः जातः। षट् संवत्सरेषु प्रथमवारं युएस् सिरियायां मिसैल् आक्रमणम् अकरोत्। युएस् राष्ट्पतेः डोणाल्ट् ट्रंपस्य निदेशानुसारं सिरियायां षयारत् व्योमसेनाक्षेत्रे आसीत् आक्रमणम्। विश्वं सम्पूर्णं स्वेन सहैव स्थातव्यमित्यपि ट्रंपेन निवेदितम्। आक्रमणं एनं अरेब्यन् राष्ट्रः स्वागतमकरोत्।सिरियायां गत षटसंवत्सरेषु प्रचलिते आभ्यन्तर कलापे चतुर्लक्षोपरि जनाः हताः इति गण्यते। यु एस् नेतृत्वेन सख्यसेना २०१४ आरभ्य सिरियायां ऐ एस् केन्द्रेषु अग्निगोलकाक्रमणं करोति।
वयनाट् गिरौ केरळ सर्वकारस्य बस् यानम् आपति पतितम्। यात्रिका: भाग्यात् रक्षिताः
कल्पट्टा(केरळम् )> वयनाट् पर्वतमार्गे अनियन्तृकात् बस् यानात् यात्रिका: भाग्यात् रक्षिताः। तोटुपुषत: सुल्तान्बतेरिं प्रतिगतवत् बस् यानं नवमे पर्वतमार्गे भित्तौ संघट्टनं कृत्वा इयं घटना जाता। शनिवासरे प्रातः एक वादने विपत्तिरियं संजाता। बस् यानस्य कश्चन पार्श्र्व: पूर्णरूपेण सुरक्षाभित्तेः बहिरभवत्। अर्ध भागादाधिक: पार्श्र्वः गर्तस्य भागे आसीत्। तथापि यानं न पातितं इत्यतः अनेकेषां प्राणाः एव रक्षिता:। चालक स्य पार्श्र्वे विद्यमानेन द्वारेण एव यात्रिकाः बहिरानीता: चालक: निद्रायां पतितः इत्येतत् आपत्कारणमिति चिन्त्यते।Saturday, April 8, 2017
विश्वे धूमपानमरणं वर्घितम्।
पारीस्> धूमपत्रोत्पन्नोपयोगिनां संख्या बहुषु राष्ट्रेषु १९९० आरभ्य न्यूनीभूयते तथापि धूमपानेन मृत्युवशमुपगतानां संख्या वर्घितेति गवेषकाः। धूमपत्रोत्पन्न निर्माणसंस्थाः नूतनविपणीः अन्विष्यमाणाः सन्ति। तादृशे सन्दर्भे इयं दुरवस्था वर्धिष्यतेति दलान्सेट् नामकेन समाचारपत्रेण प्रसिद्धीकृते शोधप्रबन्धे स्पष्टीक्रियते। विश्वे संभूयमानेषु दशसु मरणेषु एकं धूमपानेनैव सम्भवति। अस्य प्रतिशतं पञ्चाशत् परिमितं चीना भारत यू एस् रष्या राष्ट्रेषु वर्तते। कानिचन राष्ट्राणि अधिककरैः अवबोधवत्करणादिप्रवर्तनैश्च धूमपानोपयोगे गण्या न्यूनता कारिता । ब्रसील् राष्ट्रेण अस्मिन् विषये अधिकलाभः प्राप्तः। तत्र धूमपानिनां पुरुषाणां संख्या पञ्चविंशतिसंवत्सरेभ्यः प्रतिशतं २९ परिमितात् प्रतिशतं १२परिमितमित् न्यूनीकृतम्।
भारवाहनान्दोलनं निराकृतम्।
कोष़िक्कोट्
>दक्षिणभारते भारवाहनस्वामिभिः दशदिनानि यावत् कृतं कर्मविरामान्दोलनं
निराकृतम्। योगक्षेम नियन्त्रण-विकसन संस्थायाः [Insurance Regulatory
& Development Authority] अधिकृतैः सह भारवाहनस्वामिसंघटनानां
प्रतिनिधिभिः कृतां चर्चामनुसृत्यैव अयं निर्णयः। निगमस्य अधिकमूल्यवर्धनं
प्रतिशतं ५० इत्यस्मात् प्रतिशतं २७ इति न्यूनीकरिष्यतीति सम्मतिः लब्धा।
६४ तम राष्ट्रिय चलनचित्र पुरस्काराः प्रख्यापिताः
नवदेहली>मिन्नामिनुड् इति मलयालचलनचित्रस्य अभिनयाय सुरभी उत्तम अभिनेत्र्याः पुरस्कारम् प्राप। रुस्तम् इति चलनचित्रस्य अभिनयाय अक्षय् कुमारः उत्तम नटस्य पुरस्कारं प्राप। मुन्तिरिवल्लिकल् तलिर्कुम्बोल्,जनता गारेज्,पुलिमुरुकन् इत्यादि चलनचित्राणाम् अभिनयाय मोहन्लालः विधिकर्तॄणां विशिष्टं परामृष्टं प्राप। महेषिण्टे प्रतिकारं उत्तम चलनचित्रत्वेन चयितम्।उत्तम शब्दालंकारः - जयदेवन् चक्काडत्त्(काड् पूक्कुन्न नेरम्)
उत्तम पटकथा- श्यां पुष्करः(महेषिण्टे प्रतिकारं)
उत्तम ताडननिर्देशः- पीट्टर गेयिन्(पुलिमुरुकन्)
उत्तम बालकेगृहस्य नटःआदिष् प्रवीणः (कुञ्चुदैवम्)
अन्याः राष्ट्रीय पुरस्काराः।
उत्तम चलनचित्रम्- कासव्(मराठी)
उत्तम निर्देशकः-राजेष् मपुस्तर्(चित्रं वेण्डिलेट्टर्)
जनप्रीति चलनचित्रम्- शतमानं भवति(तेलुग्)
उत्तम सह अभिनेत्री-सैरा वासिम् (दंगल्- हिन्दी)
उत्तम सह नटः- मनोज् जोषि।
विधिकतॄणां विशिष्ट पुरस्कारं - आदिल् हुसैन्(मुक्ति भवन्)
Friday, April 7, 2017
पादकन्दुकश्रेणीकरणे भारतस्य उत्कृष्टता
नवदिल्ली > फिफायाः श्रेणीकरणे भारतीयं पादकन्दुकदलं १०१तमम् इति उत्कृष्टस्थानं प्राप्तम्। गतमासस्य श्रेणीकरणे १३२तमं स्थानमासीत् भारतस्य।
मार्च् २२तमे दिनाङ्के कम्बोडिया देशं २-३ इति लक्ष्यकन्दुकस्थितौ २८ तमे दिनाङ्के म्यान्मर् राष्ट्रं एकपक्षीयेन लक्ष्यकन्दुकेन च पराजित्य एव इदं स्थानं लब्धम्। अनेन एष्याभूखण्डे ११तमं स्थानं च भारतेन प्राप्तम्।
नवदिल्ली > फिफायाः श्रेणीकरणे भारतीयं पादकन्दुकदलं १०१तमम् इति उत्कृष्टस्थानं प्राप्तम्। गतमासस्य श्रेणीकरणे १३२तमं स्थानमासीत् भारतस्य।
मार्च् २२तमे दिनाङ्के कम्बोडिया देशं २-३ इति लक्ष्यकन्दुकस्थितौ २८ तमे दिनाङ्के म्यान्मर् राष्ट्रं एकपक्षीयेन लक्ष्यकन्दुकेन च पराजित्य एव इदं स्थानं लब्धम्। अनेन एष्याभूखण्डे ११तमं स्थानं च भारतेन प्राप्तम्।
उत्तरप्रदेशात् वृकसंवर्धिता मौग्ली इव,वानरैस्सहोषितां बालिकाम् अमोचयत् ।।
बराय्च् > उत्तरप्रदेशे वृकसंवर्धिता मौग्ली इति बालिका इव, वानरैस्सहोषितां अष्टवर्षीयां बालिकाममोचयन् आरक्षका:। सः कल्पितकथापात्रं किंतु उत्तरप्रदेशे यथार्थरूपा एषा बालिका उपलब्धाधुना। कट्टार्नियगट्टवन्यजीविसड्केतादेव एतां बालिकाम् अपश्यन्। वन्यजीविसड्केते प्रवृत्ते आरक्षकाणां साधारणजाग्रदन्वेषणे एव वानरैस्सह बालिका दृष्टा। नवभारत टैंस्ना एव वार्ता आवेदिता। आरक्षकसड्घेन आयोजितात् रक्षाप्रवर्तनात् तेषां पुरत: एव बालिका पलायनमकरोत्। तत: अनुवर्तिते अन्वेषणे बालिका प्रतिप्राप्ता। समीपस्थे सर्वकारीयातुरालये प्रवेशिता च।
भरते अष्टराज्याणि अनावृष्ट्या क्लिष्टानि - २४००० कोट्या: धनसाहाय्यम्।।
अनन्तपुरी >वृष्टिमानके गण्यन्यूनतयाअष्टराज्यानि अनावृष्ट्या क्लिष्टाः प्रदेशाः इत्यादेशः केन्द्रसर्वकारैः प्रख्यापितः। अष्टानां राज्यानां कृते २४००० कोटि रूप्यकाणि धनसाहाय्यं मासद्वयाभ्यन्तरे एव दीयते। विहितधनात् ६५% पानजलपद्धत्यै विनियोक्तव्यमिति च सर्वकारै: निर्देशित: । गतवर्षे केरलसर्वकारै: १४ मण्डलान्यपि अनावृष्ट्या शुष्कानि इति प्रख्यापितानि । गत १० वर्षाभ्यन्तरे परं न्यूनमानक: वर्षाकालः एव अस्मिन् वर्षे अतीत:। वर्षमानकन्यूनतायां कृत्रिमवर्षं पातयितुं पद्धती: स्वीकरणीया: भवन्तीति गतनियमसभासम्मेलने सर्वकारै: निर्दिष्टमासीत्। किन्तु कालावस्थाविभागः एतद्विरुध्य स्थित:। वर्षन्यूनतायाम् उष्णस्य क्रमातीतवर्धनं लक्षितम्। राज्ये बहुत्र रूक्षं शुद्धजलदौर्लभ्यं च अनुभूयते।
भारतम् ऐक्यराष्ट्रसभायां स्थिराड्गत्वं प्राप्स्यति इति सुषमा।
नवदेहली > ऐक्यराष्ट्रसभाया सुरक्षा विभागे भारतं स्थिराड्गत्वं प्राप्स्यति इति विदेशकार्य सचिवा सुषमा स्वराज महोदया अवदत्। स्थिराड्गानां सर्वाः अपि सुविधाः भारतस्य अपि लप्स्यते इति ताः आत्मविश्वासं प्राकटयत्। यु एन् स्थिराड्गत्वं लब्धुं भारतं सक्षममिति प्रश्नोत्तरवेलायां सुषमया व्यक्तीकृतम्। वर्तमानेषु पञ्च स्थिराड्गेषु यु एस्,इड्गलाण्ड्,फ्रान्स्,रषिया च भारतस्य अनुकूलाः सन्ति। चैनया परस्यरूपेण प्रतिकूलत्वं न प्रकटितम्। सुषमा अवदत्।वस्तुसेवनकरपत्रं अङ्गीकृतम्
नवदिल्लि>वस्तुसेवनकरपत्रं राज्य सभया अपि अंड्गीकृतम् ।
पूर्वं लोकसभया अङ्गीकृतम् इदं पत्रं परिवर्तनं विना राज्यसभया अपि अङ्गीकृतम् ।
गतमासे लोकसभया अङ्गीकृता: वस्तु सेवनसंबन्धाः सुप्रधाननियमा: गुरुवासरे राज्यसभया अङ्गीकृताः।
सर्वस्मिन् राज्ये एक: एव करः इति केन्द्रनियम: एतेन भविष्यति इत्यतः एषः श्रमः सुप्रधान : एव ।
Thursday, April 6, 2017
एकलक्षं यावत् कार्षिकऋणानि मुक्तं करिष्ये -योगी आदित्यनाथ:।
लकनौ > एकलक्षं यावत् कार्षिक ऋणानि मुक्तं कर्तुं योगिन: आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशमन्त्रिसभाया: प्रथमयोगे निर्णय: स्वीकृत:। राज्ये 2.15 कोटि कृषकाः तथा अन्ये 7 लक्षं जनाश्च एतस्य फलं लभेयु:। एतावता प्रत्यप्राप्यानीति उद्घोषितानि 36359 कोटि रूप्यकाणां ऋणानि एव एवं ऋणमुक्तः भविष्यति। ऋणसड्ख्यामेतां प्रत्यभिज्ञातुं कार्षिकऋणपत्रं प्रकाशयितुमपि व्यवस्था क्रियते। कार्यमिदं भा ज पा निर्वाचन-वाक्दान-पत्रिकायां वाग्दानेषु अन्तर्भवति। आलुकस्य मूल्यशोषणे परिहारमन्वेष्टुम् उपमुख्यमन्त्रिण: केशवप्रसादमौर्यस्य नेतृत्वे त्र्यड्गोपसमितिश्च रूपीकृता । गोधूमस्य आलम्बमूल्यं प्रति क्विन्टल् 10 ₹ इति वर्धयेयु: । व्यवसायनयरूपीकरणं लक्षीकृत्य उपमुख्यमन्त्रिण: दिनेशशर्मण: नेतृत्वे मन्त्रिसभाया: उपसमिति: विभिन्नराज्येषु सन्दर्शनमपि कुर्यात्।
व्याजरुप्यकपत्राणां भीषाः-द्विसहस्रस्य रुप्यकपत्रं स्थास्यतीति केन्द्रसर्वकारः।
नवदेहली > द्विसहस्ररुप्यकपत्रेषु व्याजपत्राणाम् आगमनेन अपि तानि स्थास्यतीति केन्द्रगृहसहसचिवेन किरण् रिज्जु महोदयेन उक्तम्। एवं व्याजपत्राणाम् ग्रहणे बहु प्रयत्नं कुर्मः इत्यपि सः अवोचत्। चोद्योत्तरवेलायां कोण्ग्रस् दलस्य अड्गेन मधुसूदन मिस्रि महोदयेन पृष्टस्य प्रश्नस्य समाधानं ददाति आसीत् सचिवः।व्याजरुप्यकपत्राणि मुख्यतया गुजरातराज्यात् तथा पश्चिमबंगाल राज्यात् च ग्रहीतानि। व्याजपत्राणाम् अभिज्ञानं दुष्करमिति वादं न सत्यमिति तेन उक्तम्। पञ्चशत सहस्र रुप्यकपत्राणां निरोधनानन्तरं सीमासुरक्षासेनाया द्विसहस्रस्य ३७८ व्याजरुप्यकपत्राणि तथा एन् ऐ ए द्वारा ४.५३ कोटि रुप्यकाणां व्याजपत्राणि च ग्रहीतानि।
भारतस्यअन्यः लाभः;यू एन् मध्ये इतो आरभ्य गणनाकार्यक्रमाय (ओडिटिङ्) भारतस्य सि ए जि।
दिल्लि>केवलं विकसितराष्ट्राः एव विहरितमाने कस्मिन्नपि मण्डले भारतं स्वस्य सान्निध्यं ज्ञापयति। न्यूयोर्क् मध्ये ऐक्यराष्ट्रसंस्थायाः कार्यालये इदानीं भारतेन गणाकार्यक्रमाः क्रियन्ते। भारतस्य गणना कार्यक्रमस्य इदं महदङ्गीकारम् इति CAG शशिकान्तशर्मणा उक्तम्। यू एन् बोर्ड्आफ् संस्थायां अध्यक्षः भवति इदानीं शशिकान्तशर्मा। बोर्ड् मध्ये जर्मनीराष्ट्रः तथा तान्सानिया राष्ट्रः च अङ्गौ भवतः। विंशत्यधिक द्वि सहस्रपर्यन्तं (२०२०) अस्मिन् स्थाने CAG पदस्य कालपरिपरिधि।
सि सि टि वि स्थापयितूम् निर्देशः उच्चन्यायालयेन दत्तम्।
नव दिल्ली >न्यायालयेषू परीक्षणार्थं सि सि टि वि स्थापयितुं निर्देशः उच्चन्यायालयेन दत्तम्। शब्दरेखॉं विना एव सि सि टि वि उपकरणस्य उपयोगः करणीयः इति विशेषः निर्देशः। प्रथमतया प्रति जनपदं द्वौ द्वौ न्यायालयेभ्यः स्थापयितुं निर्देशः। ज्ञानाधिकार नियमानुसारं बहिः सि सि टि वि दृश्यान् न दादव्यम् इति निर्देशः अपि तेन दत्तम्। कार्यस्य निरीक्षणं न्यायालयाघ्यक्षे निक्षिप्तमस्ति। निरीक्षणानूसारं सर्वत्रापि सि सि टि वि स्थापयितुं निर्देशः। जस्टिस्-आदर्श गॊयल् , यूयू, ललित् च विधिप्रवचनं कृतवन्ताःWednesday, April 5, 2017
गृहकार्येषु हस्ताक्षेपः न कार्यः। चैनाराष्ट्राय भारतस्य निर्देशः।
नवदेहली>भारतस्य गृहकार्येषु चैना हस्ताक्षेपः न कर्तव्यः इति गृहमन्त्रालयः। डिबट्ट देशस्य आत्मीयाचार्यस्य दल्लैलामा महोदयस्य अरुणाचलसन्दर्शनसंबन्धितया आसीत् भारतस्य एषः उद्घोषः। विवादानां निर्माणाय चैना प्रयतते। दलैलामायाः सन्दर्शनं वस्तुतः धार्मिकाधिष्ठितं मात्रंम्। राजनैतिकतायै न।
अरुणाचलप्रदेशः अस्माकं शासनान्तर्गतः इति चैना वदति। अतः विदेशनेतॄणां सन्दर्शनं तैः रोधयितुम् उद्यम्यते। किन्तु अरुणाचलप्रदेशः अस्माकम् अविभाज्यः इति भारतं व्यक्तीकरोति।
चैनायाः कर्मसु केन्द्रगृहसहसचिवः किरण् रिज्जु पूर्वमेव मतप्रकटनमकरोत्। चैनायाः गृहकार्येषु वयं हस्तप्रसारं न कुर्मः। अस्माकम् आभ्यन्तरकार्येषु स्वकीयेषु विषयेषु तेषामपि हस्ताक्षेपः नआवश्यकः। इति रिज्जु अवदत्।
सिरियायां रासायुधप्रयोण 35 जनाः मृताः
डमास्कस् > सिरियायां पुनरपिरासायुध प्रयोगः । अनेन पञ्च त्रिंशत् जनाः मृताः षष्ठिजनाः गुरुतर रीन्या व्रणिताः च । उत्तरपश्चिम सिरियायाः विमतानां स्वाधीनमण्डलमिति सुज्ञातम् इड्लिब् प्रवि श्यायाः खान् षैखोण् प्रदेशे एव इयं दुर्घटना। 'क्लोरिन्' वातकः एव वर्षितः । पीडितेषु अधिकेषु शिशव: साधारणजना: च अन्तर्भवन्ति। रासायुधवर्षेण तेषां श्वसनेबाधा वमनश्च अभवत् । घटनायाः चित्राणि तत्रत्येषु अन्तर्जालवार्तापुटेषु प्रकाशितानि सन्ति।
केन इदं दुष्कृतं कृतमिति न ज्ञायते। सिरियायाः सर्वकारः रष्याया: ' जेट्' वा स्याताम् इति मनुष्याधिकार-संस्थया आरोपितः। २०१४-२०१५ संवत्सरान्तरे वारत्रयं यावत् सिरियायाः सर्वकार सेनया रासायुध-प्रयोगं कृतम् इति UN तथा रासायुध प्रयोगान् विरुद्ध्य प्रवृत्तमानया Organisation for the prohibition of Carmichael vepons नाम र्सस्थया संदृष्टम् आसीत् । अस्मिन् घटनायां कृतः दोषारोपः सिरियायाः सर्वकारेण निरस्था।
भक्षणस्पर्धाभ्यन्तरे फुल्लपूरगलनेन तत् कण्ठे संरुध्य विद्यार्थिनी मृता।
वाषिड्टण् >भर्जफुल्लपूरखादनस्पर्धाभ्यन्तरे तत् कण्ठे संरुध्य सर्वकलाशाला विद्यार्थिनी दिवंगता । कणक्टिकटे सेक्रट् हार्ट् सर्वकलाशालाया: समाजकार्यविभागविद्यार्थिनी केय्ट्लिन् नेल्सण् ( २० ) एव दिवंगता । गुरुवारे कलाशालायां ग्रीक्जीवनकार्यक्रमेण सहैव खादनस्पर्धापि आयोजिता।फुल्लपूरखादनसमनन्तरमेव नेल्सणस्य शारीरिकास्वास्थ्यमभवत्। तदा तत्रत्यैव आतुरसेविकाविद्यार्थिनी झटिति प्राथमिकशुश्रूषां दत्तवती। तत: अधिकारिण: ताम् आतुरालयं प्रापितवन्त: चेदपि रविवासरे मरणं समभवत् ।
Tuesday, April 4, 2017
सार्वजनिकशिक्षा - संरक्षणयज्ञस्य शुभारम्भः
तिरुवनन्तपुरम्> केरळसर्वकारस्य सार्वजनिक शिक्षा संरक्षणयज्ञः अध्यापक परिशीलनसत्रेण समारब्धः। विविधेषु विषयेषु राज्यस्तरीय प्रशिक्षणं प्रचलन्ति। सार्वजनिकशिक्षामण्डलेषु विद्यमानाः विद्यालयाः राष्ट्रान्तरोन्नतस्थानं प्रापणीयः । तदर्थमेव एतादृश प्रशिक्षणकार्यक्रमः इति केरलस्य शिक्षामन्त्रिणा सि रवीन्द्रनाथ महोदयेन उक्तम्। एप्रिल्मासस्य अन्तिमे सप्ताहे अध्यापकानां प्रशिक्षणं सम्पूर्णं भविष्यति।
छात्राणं कृते अपि पञ्चदिनस्य विरामकालविशेषसत्रमपि प्रति विद्यालयम् आयोक्ष्यते । सर्वजनिकविद्यालयान् प्रति छात्राणाम् आकर्षणमुद्दिश्य भवति अस्यवर्षस्य प्रयत्नमिति च मन्त्रिणा उक्तम्।
तिरुवनन्तपुरम्> केरळसर्वकारस्य सार्वजनिक शिक्षा संरक्षणयज्ञः अध्यापक परिशीलनसत्रेण समारब्धः। विविधेषु विषयेषु राज्यस्तरीय प्रशिक्षणं प्रचलन्ति। सार्वजनिकशिक्षामण्डलेषु विद्यमानाः विद्यालयाः राष्ट्रान्तरोन्नतस्थानं प्रापणीयः । तदर्थमेव एतादृश प्रशिक्षणकार्यक्रमः इति केरलस्य शिक्षामन्त्रिणा सि रवीन्द्रनाथ महोदयेन उक्तम्। एप्रिल्मासस्य अन्तिमे सप्ताहे अध्यापकानां प्रशिक्षणं सम्पूर्णं भविष्यति।
छात्राणं कृते अपि पञ्चदिनस्य विरामकालविशेषसत्रमपि प्रति विद्यालयम् आयोक्ष्यते । सर्वजनिकविद्यालयान् प्रति छात्राणाम् आकर्षणमुद्दिश्य भवति अस्यवर्षस्य प्रयत्नमिति च मन्त्रिणा उक्तम्।
सोमालियायाः सागरतस्करैः भारतस्य भारनौका बलात्कारेण ग्रहीता
दुबाय् > येमन् देशतः दुबाय् नगरं प्रति गता भारनौका सोमालियायाः सागरतस्करैः बलेन ग्राहीता। कौषर् नाम नौका एव तस्करैः ग्रहीतायां नौकायाम् एकादशः कर्मकराः सन्ति।एप्रिल् मासस्य प्रथमे दिने एवेयं घटना। येमन् देशास्य अल् मुक्काल सागरमुखात् दुबाय् नगरं प्रति गच्छती आसीत् नौका। कर्मकराः मुम्बैवासिनः भवन्ति।
कोलम्बिया राष्ट्रे प्रलयेन मृत्पातेन च २५४ जीवहानिः।
मोकोवा> ( कोलम्बिया) दक्षिण कोलम्बियायां अतिवृष्ट्या जातेन बृहता मृत्पातेन न्यूनातिन्यूनं २५४ जनाः मृताः। २२० जनाः अप्रत्यक्षाः,२०२ क्षतबाधिताः च अभवन्।कोलम्बियन् नगरे मोकोवायां मृत्पातेन गृहाः सेतवः यानानि च अप्रत्यक्षाः अभवन्। कानिचन क्षेत्राणि अपि नष्टानि। रक्षाप्रवर्तनानि त्वरितगत्या प्रचलन्ति। शुक्रवासरे रात्रौ अतिशक्ता वृष्टिः अभवत्। अत एव मृत्पातः अभवदिति अधिकारिणः अवदन्।
Monday, April 3, 2017
हिमालयगिरिं वेध्य भारतस्य अभिमान गह्वरमार्गः। दूरं एकोनविंशति कि.मी.
नवदेहली> ९.२ कि.मी दीर्घः गह्वरमार्गः जम्मुकाश्मीरराज्ये अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः। उधंपूर जिल्लायां चेनायाम् आरभ्य रंबान् जिल्लायां नश्रियायां समाप्तः एषः गह्वरमार्गः हिमालयपर्वतं वेध्य गच्छति। भारतस्य बृहत्तरः गह्वरमार्गः एषः।जम्मुतः श्रीनगरम् प्रति वर्तमानः एषः गह्वरमार्गः समुद्रतलात् १२०० मीट्टर उपरि वर्तते। कुद्,पट्निटोप् इत्यादि क्षेत्रेषु जीयमानः हिमपातः गिरिपातः च एतेन दूरीक्रियते। मार्गेण एतेन गमनेन त्रिशत् कि.मी.लाभः तथा यात्रा समये खण्डाद्वयस्य न्यूनत्वमपि अस्ति।
३७२० कोटिरूप्यकाणि अस्ति अस्य निर्माणव्ययः। सार्धपञ्चसंवत्सराणां प्रयत्नं तदर्थं अभवत्। निर्माणाय आधुविक अभियान्त्रिकविद्यानाम् उपयोगः अकुर्वन्। गह्वरमार्गे समान्तररूपेण मार्गान्तरमस्ति । १३ मीट्टर व्यासे प्रधानमार्गः तथा ६ मीट्टर व्यासे अन्यः सुरक्षा मार्गः अस्ति। तयोः मिथः बन्धनार्थं २९ लघुमार्गाः सन्ति। मिलित्वा १९ मीट्टर दैर्घ्यम् अस्ति।
अलीकरूप्यकाणि- रूप्यकाणां सुरक्षाक्रमीकरणेषु परिवर्तनम् आनेष्यति ।
नवदिल्ली> त्रि- चतुरात्मक वर्षावधौ एकदा 2000,500 रूप्यकाणां सुरक्षाक्रमीकरणेषु परिवर्तनमानेतुं सर्वकारै: आलोचना क्रियते। रूप्यकाणामसाधूकरणात्परं चतुर्मासाभ्यन्तरे एव अलीकरूप्यकाणां संचय: गृहीत:इति साहचर्यम् लक्षीकृत्य एवं श्रम:। धनमन्त्रालयस्य आभ्यन्तरमन्त्रालयस्य च उन्नतोद्योगस्थैस्सह आभ्यन्तरकार्यदर्शिना श्री राजीव महर्षिणा कृतचर्चायां विषयोयं उपस्थापितम्। उपस्थापित:। प्राय: सर्वेषु विकसितराष्ट्रेषु त्रिचतुर्वर्षाभ्यन्तरे एकवारमेतादृशं सुरक्षाक्रमीकरणपरिवर्तनं क्रियमाणं दृश्यते। भारतेनापि नयोयमनुवर्तनीय: इति आभ्यन्तरमन्त्रालयोद्योगस्थै: सूचित:।Sunday, April 2, 2017
धूम्रपानोत्पन्नानाम् उपरिचित्रं नवीकृतम्
नवदिल्ली> धूम्रपानोत्पन्नानां सञ्चिकायाः उपरि विद्यमानं सूचनाचित्रं नवीकृत्वा केन्द्र सर्वकारेण विज्ञप्ति पत्रं प्रकाशितम्। एप्रिल्मासस्य प्रथमदिनात् आरम्भ नूतन चित्रस्य प्रबलता अस्ति। आरोग्य मन्त्रालयेन एव एतादृशः निर्देशः विज्ञापितः । सिगरट्ट् , बीडी, इत्यस्योपरि गलस्थस्य अर्बुदरोगस्य चित्रं धूमरहित धूम्रपानोत्पन्नानानां पान्मसालादीनाम् उपरि वदनान्तर्भागास्य अर्बुदरोग चित्रं च प्रदर्शनीयम् । उत्पन्नानां सञ्चिकायाः प्रतिशतं पञ्च अशीति (८५%) भागेषु इदं चित्रं दातव्यम् । नो चेत् निर्मातृणे दण्डशुल्कं कारागार वासं च लब्धुं दोषः भविष्यति। www.mohfw.nic.in इति अन्तर्जालपुटे चित्रस्य विशदांशाः प्रकाशिताः सन्ति।
मदिराशालाः पिहिताः।
केरले -१९५६ , महाराष्ट्रायां - १५,५००।
नवदिल्ली> राष्ट्रिय-राज्यमार्गवर्तिन्यः मदिराशालाः एप्रिल् प्रथमदिनाङ्कादारभ्य पिहितव्याः इति सर्वोच्चन्यायालयस्य आदेशमनुसृत्य आराष्ट्रं मदिराशालाः पिधातुमारब्धाः। महाराष्ट्रायां तादृश्यः पञ्चशताधिक पञ्चदशसहस्रं मदिरविक्रयणशालाः बन्धिताः। तासु बार् , बियर् पार्लर् , मद्यपरिवेषणीयभोजनालयाः इत्यादयश्च अन्तर्भवन्ति। केरले राष्ट्रिय-राज्यमार्गपार्श्ववर्तिन्यः तालीशालासहिताः १९५६ मदिराशालाः पिहिताः। पिहितानां मद्यशालानां पट्टिका एवमस्ति।
बेव्को , कण्स्यूमर् फेड् - २०७
पञ्चनक्षत्रबार् शालाः - ११
बियर् वैन् पार्लर् शालाः - ५८६
तालीशालाः - ११३२
क्लब् - १८
अन्ये - २
शाकानां मूल्यवर्धनम् नियन्त्रणाधीनम्।
कोच्ची>वातावरणव्यतियानात् शाकानां मूल्यवर्धनं नियन्त्रणाधीनं जातमिति एरणाकुलं विपणिस्वसमित्या: सहाध्यक्षेन के के अषरफेण उक्तम्। उष्णवर्धनम् अनुगम्य भारवाहकानां समरं च मूल्यवर्धने कारणं जातम्।20 त: 50%पर्यन्तं मूल्येषु वर्धनम् आगतम् । ईस्टर् विषु विपणिषु इतोपि वर्धनं प्रतीक्ष्यते इति व्यापारिणः समित्या सूच्यते ।
एस् बि ऐ वित्तकोशेन ए टि एम् सेवनमूल्यं संवर्धितम्
नवदिल्ली > धननिक्षेपाय
प्रतिस्वीकरणाय तथा ए टि एम् सेवनाय च सेवनशुल्कं एस् बि ऐ वित्तकोशेन
संवर्धितम् । वित्तलेखायां अवश्यशिष्टं नास्ति चेत् विंशति रुप्यकात्
शतरुप्यकाणि पर्यन्तं दण्डशुल्कं भविष्यति। सर्वेषां शुल्केषु दण्डशुल्केषु
च प्रतिशतं सार्ध चतुर्दश रूप्यकाणि सेवनकरः च पूरणीयः । प्रतिमासं
पञ्चवाराधिकं धनाहरणयन्त्रात् धनस्वीकारस्य पञ्च रुप्यकाणां स्थाने
दशरुप्यकाणि दातव्यानि । धनाहरणम् अन्येषां धनाहरणयन्त्रात् चेत्
विंशतिः(२०) रुप्यकाणिएव। अवश्यशिष्टाभावे विंशतेः आरभ्य पञ्चाशत्
रुप्यकाणि दण्डशुल्कं । नगरेषु पञ्चविंशतीतः पञ्चाशत् पर्यन्तमेव। अन्येषां
धनरहितविनिमयाय पञ्चभ्यः रूप्यकेभ्यः अष्ट रुप्यकपर्यन्तमेव सेवनशुल्कं
भविष्यति।
मार्गपार्श्ववर्तिनः मद्यालयाः बन्धनीयाः इति उन्नतन्यायालयः।
नवदेहली> राष्ट्रिय-राज्यमार्गपार्श्वस्थाः मद्यशालाः सर्वे बन्धनीयाः इति सर्वोच्चन्यायालयः। ताराभोजनालये वर्तमानानां मद्यशालानामपि विधिः बाधकमिति सर्वोच्चन्यायालयेन व्यक्तीकृतम्। जनसंख्यान्यूनेषु राज्येषु मद्यालयानां दूरपरिधिरपि न्यूनीकृतः। मार्गपार्श्वात् चतु शतं (५००) मीट्टर् इति एतत् विंशत्यधिक द्विसहस्रं (२२०) मीट्टर् रूपेण न्यूनीकृतम्। जनानां स्वास्थ्यं परिगणय्य एव एषः निर्णयः इति उन्नतन्यायाधिपः जे एस् खेहार् न्यायाधिपौ चन्द्रचूड्,एन् नागेश्वररावु महोदयौ च व्यक्तीकृतवन्तः। उच्चन्यायालयस्य अस्य निर्णयस्य कार्यान्वयनं करिष्यतीति केरलस्य सचिवः जी सुधाकरः अवदत्।Saturday, April 1, 2017
महाराष्ट्रराज्ये तापमानं पञ्चचत्वारिंशतादुपरि आगतम्। घोरातपेन राज्यं तपति।
कोचि >राष्ट्रे बहुत्र घोरातपेन जनाः विध्यन्ते। एवम् उष्णवायुना अपि जनाः आतपेन भृष्टीक्रियते। महाराष्ट्र-गुजरात-राजस्थान-उत्तरप्रदेश-उत्तराखण्डं-दिल्ली-पञ्जाब-आन्ध्राप्रदेशादि राजेषु उष्णता असह्या सञ्जाता। महाराष्ट्र-राज्ये उष्णवायुना पञ्चजनाः मृताः। केरले विविध क्षेत्रेषु अत्युष्णता प्रतीयते। पालक्काड् देशे उष्णः अष्टचत्वारिंशदागतम्। राज्यस्थान् राज्यस्य बाडमेर: हरियाणायाः नरनौल: पञ्जाबस्य लुधियाना उत्तरप्रदेशस्य च वाराणसी, अलहबाद, आगरा चेत्यादिक्षेत्रेषु अत्युष्णता प्रतीयते। आस्थाननगर्यां दिल्याम् अस्य संवत्सरस्य अत्युष्णः अभवत्। तमिलनाडु-राज्ये अत्युष्णेन त्रिशतं (३००) कृषकाः मृताः।
दक्षतानिदेशकः स्थानभ्रष्टः।
अनन्तपुरी > केरले आरक्षकसेनायाः दक्षतासंस्थायाः निदेशकः डो. जेक्कब् तोमसः स्थानभ्रष्टः अभवत्। समीपकाले अनुवर्तमानाः उच्चन्यायालयस्य प्रतिकूलपरामर्शाः तं त्यागपत्रसमर्पणाय अनयन्। डि जि पि लोकनाथ बह्रा तत्थानं वक्ष्यति। कतिपयमासेभ्यः पूर्वमेव उपरिष्ठानां शासनाधिकारिणां मध्ये जेक्कब् तोमसः अप्रियः आसीत्। ऐ ए एस्-ऐ पि एस् राजपुरूषाः तं विरुध्य सर्वकारं प्रति तथा मुख्यमन्त्रिणं पिणरायि विजयं प्रति च निवेदनानि समर्पितवन्तः। दक्षतानिदेशकस्थानम् उपयुज्य तान् विरुध्य व्याजव्यवहाराः क्रियन्ते इति आरोपितवन्तश्च। किन्तु मुख्यमन्त्रिणः अनुग्रहेण सः स्वस्थानं संरक्षितवान्। किन्तु वारं वारम् अनुवर्तिताः न्यायालयस्य प्रतिकूलपरामर्शैः जेक्कब् तोमसः स्थानत्यागाय प्रेरितः।
मृत्तैलानां मूल्येषु न्यूनता।
नवदिल्ली >मृत्तैलानां वर्धितानि मूल्यानि न्यूनीकर्तुं तैलशुद्धीकरणशालाभिः निश्चितम्। पट्रोल् तैलस्य त्रीणि रुप्यकाणि सप्तसप्तति पैसाः (३.७७) डीजल् तैलस्य द्वे रुप्यके एकनवति पैसाः (२.९१) रूप्यकाणि न्यूनीकृतानि। बहुकालानन्तरमेव एतादृशं न्यूनीकरणम्। राष्ट्रान्तर विपण्याम् असंस्कृत-मृत्तैलस्य मूल्ये जाता न्यूनता डोलर् पत्रं विरुध्य रुप्यकपत्रस्य मूल्यवर्धनं च अत्रत्यस्य मूल्यन्यूनीकरणस्य कारणम्। वारद्वयारनन्तरं मूल्यालोकनं भवतु इति पूर्व निश्चयानुसारमेव इयं प्रक्रिया। तथापि गाते जनवरिमासानन्तरं मृतैलानां मूल्येषु विशेषाः नासन्।Friday, March 31, 2017
वाट्सप् गणैः द्वारा भारतविरुद्ध कार्यक्रमेण पाकिस्थानः।
श्रीनगरम्>जम्मु काश्मीरस्थान् युवकान् आक्रमणाय प्रेरयितुं तथा सेनां विरुध्य प्रवर्तितुं पाकिस्थानः वाट्सप् सहित सामाजमाध्यमाध्यमानाम् उपयोगं करोति। काश्मीरस्य बुल्गां जिल्लायां सैन्येन कृतं आक्रमणं प्रतिषिद्ध्यसुरक्षाकर्यकर्तॄन् प्रति युवकाः पाषाण क्षेपणं अकुर्वन्। यत्र आक्रमणादिकं भवति कदा इत्यादि सर्वमपि वृत्तान्तं सामाजिकमाध्यम द्वारा युवकान् विज्ञापयति। एवं विविध क्षेत्रवासिनः युवकान् परस्परं ज्ञातुमपि भीकराः सामाजमाध्यमान् उपयुनक्ति।
Thursday, March 30, 2017
सुवर्णविक्रयकाणामुपरि दृढनियन्त्रणम् आयाति।
नवदिल्ली>सुवर्णविक्रयणे नियन्त्रणम्। एप्रिल् एकदिनाड्कादारभ्य सुवर्ण विक्रयणे दशसहस्र रुप्यकाणि एव रुप्यकपत्ररूपेण यच्छति। पूर्वं तत् विंशति सहस्रमासीत् । तत्सम्बन्धी नीतिः आगामिनि मासे प्रबली भवति। दशसहस्रधिकं धनं व्यक्तेः आर्थालये एव प्राप्स्यते। एवं न करोति चेत् तदनधिकृतमिति निकुति विभागः परामृशति। केन्द्रसर्वकारस्य एतत् निर्णयं मुख्यतया ग्रामीणक्षेत्रमेव बाधते। प्रायशः बहुत्र ग्रामेषु तादृशसौविध्यानि न सन्तीति तस्य हेतुः।
सीमासुरक्षायै स्त्रीशक्तिः च। सीमासुरक्षासेनायां प्रथमवनिताकार्यकर्त्री तनुश्री।
ग्वालियार् > सीमासुरक्षासेनायां एकपञ्चाशत् वर्षाणाम् इतिहासे प्रथमवनिताकार्यकर्त्री रूपेण पञ्चविंशति आयुयुक्ता तनुश्री परीख् नियुक्ता।तनुश्री परीख् राजस्थान राज्यस्य बिक्कानीर स्वदेशी अस्ति।२०१३ आरभ्य सेनायां स्त्रीणः सन्ति चेदपि उन्नतपदव्यां प्रथमतया एव स्रीणां प्रवेशः।
असिस्टण्ट् कमाण्डर पदे नियुक्ता तनुश्री परीख् पञ्जाबराज्ये पाक् सीमायां सेनागणम् नेष्यति।
Wednesday, March 29, 2017
स्त्रीणां रात्रौ उद्योगे निवेश: मास्तु इति ऐ टी स्थापनानि प्रति कर्णाटकसर्वकारा:।।
बङ्गलूरु >रात्रिकालान्तरेषु स्त्रिय:उद्योगस्था: उद्योगकार्येषु न योजयेयुरिति ऐ टी बयोटेक् स्थापनानि प्रति कर्णाटकनियमसभासमित्या:निर्देश:। स्त्रीणां सुरक्षां स्वकार्यतां च संरक्षितुमेव अयं निर्देश: इति नियमसभासमित्या सूचितम् । ऐ टी बी टी स्थापनानि स्त्रिय:रात्रौ उद्योगेषु योजयन्ति इत्यत्र सहमति:नास्ति तथा च ता:यावच्छीघ्रं दैनिक मध्यन्दिनकालान्तरेषु योजयेयुरिति च सभासमित्या: निर्देश: । नियमसभायां वनिताशिशुक्षेमसमित्या समर्पिते आवेदनपत्रे एव निर्देशोयं वर्तते । एन् ए हारिसस्य नेतृत्वे वर्तमानसमित्या निर्देशोयं पुरस्कृत: सभायाम् । एतादृशसंस्थासु रात्रिकालान्तरे पुरुषोद्योगस्था: नियोजनीया:इत्यपि समित्या निर्दिश्यते । इनफोसिस् बयोकोण् संस्थासु सेवनरतैस्सह २०१६ सेप्टम्बर्मासे समित्या चर्चा कृता । तदाधारीकृत्यैव आवेदनपत्रं सज्जीकृतमपि । किन्तु गतवर्षे सर्वकारै:स्वीकृतचरित्रपरं निर्णयम् उल्लङ्घ्यते अयमावेदनम् । रात्रिकालोद्योगस्थानां स्त्रीणामुपरि विद्यमाननियन्त्रणं व्याक्षिप्तमासीत् गतवर्षे सर्वकारै: उद्योगमण्डलेषु स्त्रीपुरुषसमत्वं प्रदीयादिति उद्देश्येन एव तथा एकं पदं सर्वकारै: विन्यस्तमपि ।
मातुः सम्पत् असाधुरुप्यकपत्राणां विनिमयाय प्रधानमन्त्रिणे पुत्राणाम् आवेदनम्।
जयपुरम्>बन्धितात् गृहात् प्राप्तानि ९६,५०० रुप्यकस्य असाधुरुप्यकपत्राणां विनिमयाय साहाय्यम् अभ्यर्थ्य अनाथबालकानाम् आवेदनं प्रधानमन्त्रिणे प्रदत्तम्। कोट्टा जिल्लायां सरावाडा ग्रामे मृतायाः मातुः उपधानात् रुप्यकाणि प्राप्तानि।मातापित्रोः मरणानन्तरं बान्धवैः तिरस्कृतान् बालान् कोट्टायां सर्वकारस्य अनाथकेन्द्रे ग्रामीणाः अनयन्। अस्मिन् मासस्य सप्तमे दिने जेष्ठे बालके गृहस्य उद्घाटनं कृते सति रुप्यकाणि प्राप्तानि। पूर्णतया सहस्र पञ्चशतानां पत्राणि आसन्।
विनिमयाय रिसर्ववित्तकोशाय आवेदनं दत्तं चेदपि किमपि फलं नासीत् अत एव प्रधानमन्त्रिणः साहाय्याय पत्रं प्रेषितम्।
Tuesday, March 28, 2017
मलप्पुरम् उपनिर्वाचनव्यग्रतायाम् , स्थानाशिनः नव।
मलप्पुरम् > केरले मलप्पुरं लोकसभानियोजकक्षेत्रे उपनिर्वाचनव्यग्रता आरब्धा। ई. अहम्मदवर्यस्य निर्याणेन प्रख्यापिते उपनिर्वाचने नामनिर्देशपत्रिकाणां सूक्ष्मपरिशोधनायां समाप्तायां नवानां स्थानाशिनां पत्रिकाः अङ्गीकृताः।तत्र त्रयः प्रमुखाः वर्तन्ते। यू डि एफ् दलीयः मुस्लींलीग् दलप्रतिनिधिः पी के कुञ्ञालिक्कुट्टिः , एल् डि एफ् सख्यस्य सि पि एम् प्रतिनिधिः एम् बि फैसलः , एन् डि ए सख्यप्रतिनिधिः भाजपादलीयः एन् श्रीप्रकाशश्च परस्परं स्पर्धिष्यमाणाः प्रमुखाः।
एप्रिल् मासस्य द्वादशे दिनाङ्के एव निर्वाचनं भविष्यति।
सन्तोष् ट्रोफी वंगेन प्राप्तम्।
पनजी> एकसप्ततितमः सन्तोष् ट्रोफी नामकः पादकन्दुकक्रीडाविजयस्तम्भः वंगराज्येन प्राप्तः। प्रतियोगिनं गोवादलं प्रत्युत्तररहितेन एकेनैव कन्दुकलक्ष्येन पराजित्य विजयस्तम्भे वंगदलस्य द्वात्रिंशत्तमं चुम्बनार्पणम्! निश्चिते समये दलद्वयेनापि विना लक्ष्यकन्दुकं समस्थितौ जाते स्पर्धा अधिकसमयं समुपगता। मत्सरसमापनाय एकनिमिषे अवशिष्टे मन्वीरसिंहस्य लक्ष्यकन्दुकेन वंगराज्यं विजयतीरं संप्राप।Kanakadharayajnam
A chosen group of 32 Archakas representing 32 years of life of Sankara will be reciting the Kanaka Dhara Sthothram with due 'vruthasudhi' and 'thantric nistha'. Devotees could get the Kanaka Dhara Sthothram recited in their name and nakshatra before merciful Thrikaladyappan - Kula Deva of Adi Sankara. The Thanthri for the Yajnam would be Brahmasree Avanaparambu Pradeep Namboothiripad.
A talisman of Kanaka Dhara Yanthra or Elass will be delivered as prasadam marking your fortunate participation. Those who already participated in the Yajnam of 2005 were offered a Punarpooja of their Yanthra after two years and can get it done during this time. The Yanthra is made as per the Yanthra Vidhi instructions of Kanipayyoor Namboothiripad and as per Kerala thantric rituals. Keeping of the Yanthra in the pooja room / place of business with dhooma (agarbathi) and neyvilakku (ghee lamp) on Fridays are considered best for the enhancing of powers of the Yanthra.
This year Kanaka Dhara Yajnam is being concluded on the Akshaya Tridiya Day, the best time of the year to get blessed Gold. The Crystal charged with Kanaka Dhara Sthothram chants covered with Gold is called the Golden Amalka and is available for those blessed devotees. One could wear this as a locket in their chain or can keep in the pooja room.
Your presence and darshan of the unique holy event, hearing of the hymns and darshan of merciful Thrikaladyappan, Sri Krishna is the greatest of fortune and punyam. All are invited to have blessings of fortune of this Kanakadhara.
Monday, March 27, 2017
संस्कृताध्ययनेन वार्धाक्यं विस्मृत्य अनन्तपुरी।
अनन्तपुरी > केरळेषु अनन्तपुर्यां प्रचालिते संस्कृतभारत्याः जनपदस्तरीयवार्षिकमेलने प्रमाणपत्र वितरण सन्दर्भः आसीत् अयं मोदस्य निमेषः। संस्कृतभारत्याः पत्रालयशिक्षणे वृद्धजनाः बहवः सामोदं परीक्षां लिखितवन्तः। उत्तीर्णनां कृते केरलभाषा इन्स्टिट्यूट् संस्थायाः उप-निदेशकेन डॉ के एन् जयकृणन् महोदयेन प्रमाणपत्राणि वितीर्णानि। गृहिण्यः, कर्मकराः उद्योगिनः निवृत्ताः यून वृद्धभेदंविना बहवः जनाः इदानीं पत्रालयशिक्षणद्वारा संस्कृत-भाषाध्ययनं सम्पादयन्ति। कामपि भेदभावनां विना सर्वेषां संस्कृतपठनं सुसाध्यं इति एतत् प्रमाणीक्रियन्ते इति आमुखभाषाणे डॉ ई एन् ईश्वरन् अवदत्। संस्कृतभारत्याः शिक्षण प्रमुखः तथा सम्प्रतिवार्ता पत्रिकायाः सम्पादक-समित्यङ्गं च भवति एषः। Sunday, March 26, 2017
सुरक्षा भीषां प्रतिरोद्धुं भारत-अमेरिका सौहृदं दृढं जायते।
वाषिड्टण् > सुरक्षा क्षेत्रे भारत-अमेरिका सौहृदं दृढं जायते।भीकरकार्याणि तथा समुद्रेण आगताः भीषाः च प्रतिरोद्धुं द्वयोः राष्ट्रयोः मध्ये धारणा सञ्जाता। भारतस्य राष्ट्रीयसुरक्षा उपदेष्टा अजित् डोवेल् अमेरिकायाः उन्नतप्रतिरोध कार्यकर्तृभिः जातायां चर्चायाम् अस्ति निर्णयम्। चर्चां इयम् अतीव फलप्रदमासीदिति भारतस्य प्रतिनिधः अवदत्। राष्ट्रपतेः डोणाल्ट् ट्रंपस्य शासनकाले द्वतीयवारमस्ति डोवलस्य अमेरिका सन्दर्शनम्।भारतस्य आर्थिकपरिष्काराः तथा पद्धत्यः चर्चायाम् आगताः इति सूचना अस्ति। भारतस्य विकासशीलौ आर्थिकस्थितौ अमेरिकायाः रुचिः चर्चायाम् अस्यां व्यक्तीकृतम्।
छात्र आरक्षकशिक्षार्थीयोजना अधिकं विद्यालयेषु आयोक्ष्यते - केरलस्य मुख्यमन्त्री ।
अनन्तपुरी> केरलेषु विद्यालयेषु आयोजिता छात्रारक्षकशिक्षार्थीयोजना [Students Police Cadet project]आगामिनि संवत्सरे अधिकं विद्यालयेषु व्यापयिष्यते इति मुख्यमनत्रिणा पिणरायि विजयेन प्रोक्तम्। छात्रारक्षकाणां राज्यस्तरीयशिबिरस्य समापनसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् मुख्यमन्त्री।
अस्याः योजनायाः गुणफलानि यावच्छक्यं छात्रेषु प्रापयितुमेव लक्ष्यः। इदानीं ५७४ विद्यालयैः ५०,००० आरक्षकावरजाः अनया योजनया परिशीलनं प्राप्तवन्तः सन्ति। देशाय स्वास्थ्यसम्पूर्णा प्रवर्तनक्षमा च परम्परा आवश्यकी, तदेव एतादृशी योजना लक्ष्यीकरोति।
एस् एस् एल् सि -गणित परीक्षा निरस्ता , पुनः ३०तमे दिनाङ्के।
अनन्तपुरी > गते विंशद्दिनाङ्के संवृत्ता केरलस्य दशमकक्ष्यायाः गणितमूल्यनिर्णयः सर्वकारेण निरस्ता। न केवलं प्रश्नपत्रिकायाः प्रामाण्यराहित्यं किन्तु प्रश्नपत्रिकानिर्माणे संवृत्तः व्यतिक्रमश्च परीक्षानिरासस्य हेतुः भवति।प्रश्नपत्रिकानिर्माणाय उत्तरदायित्वं विहितः अध्यापकः स्वसुहृदः अध्यापकात् प्रश्नान् स्वीकृतवान्। स सुहृदपि मलबार् एज्यूक्केषन् एजन्सि इति संस्थया प्रसिद्धीकृतस्य मार्गदर्शकग्रन्थस्य कृते अपि एतान् प्रश्नान् दत्तवानासीत्। किञ्च एते प्रश्नाः कस्यांचित् वार्तापत्रिकायामपि दृष्टाः। अतः प्रश्नपरिस्रवणमभवदिति कारणेन कारिता परीक्षा निरस्ता।
सन्तोष् ट्रोफी - वंग-गोवा अन्तिमस्पर्धा अद्य।
पनजी >एकसप्ततितमायाः सन्तोष् ट्रोफि पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धायाम् अद्य वंगराज्यं गोवाराज्येन सह स्पर्धिष्यते। पनजिसमीपे जि एम् जि बोम्बालिन् क्रीडाङ्कणे सायं षड्वादने स्पर्धा भविष्यति।वंगः इतःपर्यन्तम् एकत्रिंशद्वारं विजेता अभवत्। द्वादशसु अन्तिमस्पर्धासु पराजितश्च। पञ्चवारं प्राप्तकिरीटं गोवादलं सप्तवारं द्वितीयस्थानम् अलङ्कृतवत्।
Saturday, March 25, 2017
सर्वकारकार्यकर्तॄणां समाजमाध्यमेषु हस्ताक्षेपे तीव्रं नियन्त्रणम्।
तिरुवनन्तपुरम्>समाजमाध्यमेषु हस्ताक्षेपे सर्वकारकार्यकरतॄणां नियन्त्रणम्। सर्वकार नीतिषु अनुमतिं विना अभिप्रायप्रकटनं न कुर्यात्। निर्देशस्सास्य लंघने वर्य कार्यकर्तारः दण्डनादिकं स्वीकुर्युः। नो चेत् तत् गुरुतरः प्रमादः भवेदिति शासनपरिष्करणविभागेन विज्ञापितम्।यु डी एफ् सर्वकारस्य शासनकाले अपि समाजमाध्यमेषु मतिप्रकटनाय रोधनं कृतमासीत्। साहित्यकृतयः अपि न कुर्यादिति निर्देशे बहु विमर्शाः आगताः आसन्।
लघुजीवन-व्ययेन भारते चत्वारि नगराणि।
![]() |
| नवदिल्यां सुप्रभातम्। |
Friday, March 24, 2017
ब्रिट्टीष पारलमेण्ड् मन्दिरं प्रति भीकराक्रमणम्। चत्वारः मृताः। भीकरः अग्निगोलेन हतः।
लण्डन्> ह्यः सायं ब्रिट्टन् राष्ट्रं प्रकम्बयन् पारलमेण्ड् मन्दिरं प्रति शक्तं भीकराक्रमणम् अभवत्। आक्रमणे तस्मिन् भीकरेण सह चत्वारः हताः। त्रय आरक्षजनैः सह विंशतिजनाः व्रणबाधिताः अभवन्।ह्यः सायं चत्वारिशत् निमेषाधिक द्विवादने आसीत् भीकराक्रमणस्य प्रारंभम्। अतिशीघ्रम् आगतं एकं कारयानं पारलमेण्ड् मन्दिरस्य पार्श्वे वर्तमाने वेस्ट् मिनिस्टर सेतौ चलतः जनान् ताडयित्वा पारलमेण्ड् मन्दिरस्य कवाटम् अताडयत्।पुनः यानमवरुह्य मन्दरं धावितं भीकरं आरक्षकाः अरोधयन्। सः आरक्षकं कुठारेण अपातयत्।तदा अन्यः आरक्षकः तं अग्निगोलेन अपातयत्। पारलमेण्ड् मन्दिरे तदानीं सभाद्वययोः सम्मेलनं चलद् आसीत् ।
प्रपञ्चरहस्यमधिकृत्य केरलीयशास्त्रज्ञस्य नूतनं भारतीयदर्शनम्।
कोच्ची > प्रपञ्चस्य आधारनिगूढताः अधिकृत्य भारतीयं दार्शनिकपारम्पर्यम् उपपाद्य केनचन केरलीयशास्त्रज्ञेन उपस्थापितं नूतनं दर्शनं शास्त्रलोके चर्च्यते। प्रसिद्धः कैरलीसाहित्यकारः तथा विख्यातशास्त्रज्ञः सि. राधाकृष्णः भवति अस्य नूतनदर्शनस्य उपज्ञाता।एतदधिकृत्य प्री स्पेस् टैम् जेर्णल् (pre- space time journal) नामकमासिकीद्वारा राधाकृष्णेन तस्य पुत्रेण के आर् गोपालेन च प्रसिद्धीकृतं अव्यक्तः दि फाब्रिक् ओफ् स्पेस् (Avyaktah the fabrics of space) नामकं लेखनं पठनार्हमिति केरला शास्त्र-साङ्केतिक सङ्घस्य(Kerala Science And Technology society) धुरन्धरैः उक्तम्।
द्रव्यम् आधारीकृत्य प्रपञ्चं व्याख्यायमानं साधारणं भौतिकशास्त्रदर्शनात् व्यतिरिच्य स्पेस् अथवा स्थानम् इति सङ्कल्पनम् आश्रित्य एव सि राधाकृष्णः स्वदर्शनमवतारयति। स्थल-काल-द्रव्य-ऊर्जादीन् आश्रियमानानि इदानीन्तनतत्वशास्त्राणि एतद्दर्शनं परिवर्तयति।
अव्यक्तादीनि भूतानि
व्यक्तमध्यानि भारत।
अव्यक्तनिधनान्येव
तत्र का परिदेवना।। इति भगवद्गीताश्लोक एव आत्मानम् एतादृशीं चिन्ताधारामनयदिति तेनोक्तम्।
क्रूरकृत्येषु दण्ड्यमानानाम् आजीवनान्तरोध: भवेत् ।
नवदिल्ली > क्रूरकृत्येषु अत्याचारेषु वा दण्डितानां नेतृणां निर्वाचनेभ्य:आजीवनान्तनिरोध: कल्पनीय: इति निर्वाचनसमित्या परमोन्नतनीतिपीठस्य पुरत:केस् समर्पितम् । एतस्मिन् विषये भी जे पी नेत्रा अश्विनी उपाध्यायेन दत्तायां सामान्यतात्पर्यहरजी मध्ये एव समित्यापि स्वीयाभिमतं व्यक्तीकृत्य सत्यवाड्मूलं दत्तम् । Thursday, March 23, 2017
सि बि एस् सि परीक्षासंविधानेषु एकीकृता व्यवस्था भविष्यति।
नवदिल्ली > नूतन संवत्सरादारभ्य (२०१७-१८) केन्द्रीय माध्यमिक शिक्षा आयोगास्य (CBSE) परीक्षा संविधानेषु परिष्कारः भविष्यति। षष्टकक्ष्यातः आरभ्य नवम कक्ष्या पर्यन्तं एकीकृत-मूल्यनिर्णयरीतिः आयोक्ष्यते। अध्ययन संवत्सरं द्विधा विभज्य अर्धवार्षिक वार्षिक परीक्षा इति रूपेण प्रचाल्यते । दशम कक्ष्यायाः परीक्षायाम् आत्मविश्वासेन अभिमुखीकर्तुमुद्दिश्य भवति अयं परिवर्तनम् इति आयोगस्य अध्यक्षेण आर् के चतुर्वेदिना उक्तम्। इतःपर्यन्तं सी बी एस् ई प्रणाली उपयुज्यते चेदपि विद्यालयाधिकारिणः स्वेच्छाया परीक्षां कुर्वन्तः आसन् । दशाङ्कानां समयबन्धितया परीक्षा (Terminal Evaluation) अपि स्यात्। A1स्थानात् (91-100) E (35तः अधः) ग्रेड् पर्यन्तं भवति मूल्याङ्कन-सूची। २०१८ तमस्य परीक्षायां नूतन संविधानस्य प्रकाशात्मक फलानि द्रष्टुं शक्यते इति च चतुर्वेदीमहोदयेन उक्तम्।
नवदिल्ली > नूतन संवत्सरादारभ्य (२०१७-१८) केन्द्रीय माध्यमिक शिक्षा आयोगास्य (CBSE) परीक्षा संविधानेषु परिष्कारः भविष्यति। षष्टकक्ष्यातः आरभ्य नवम कक्ष्या पर्यन्तं एकीकृत-मूल्यनिर्णयरीतिः आयोक्ष्यते। अध्ययन संवत्सरं द्विधा विभज्य अर्धवार्षिक वार्षिक परीक्षा इति रूपेण प्रचाल्यते । दशम कक्ष्यायाः परीक्षायाम् आत्मविश्वासेन अभिमुखीकर्तुमुद्दिश्य भवति अयं परिवर्तनम् इति आयोगस्य अध्यक्षेण आर् के चतुर्वेदिना उक्तम्। इतःपर्यन्तं सी बी एस् ई प्रणाली उपयुज्यते चेदपि विद्यालयाधिकारिणः स्वेच्छाया परीक्षां कुर्वन्तः आसन् । दशाङ्कानां समयबन्धितया परीक्षा (Terminal Evaluation) अपि स्यात्। A1स्थानात् (91-100) E (35तः अधः) ग्रेड् पर्यन्तं भवति मूल्याङ्कन-सूची। २०१८ तमस्य परीक्षायां नूतन संविधानस्य प्रकाशात्मक फलानि द्रष्टुं शक्यते इति च चतुर्वेदीमहोदयेन उक्तम्।
Subscribe to:
Posts (Atom)














