OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, March 28, 2025

 मेस्युपेता 'अर्जन्टीना' भारतमागच्छति।

 ओक्टोबरे केरले पादकन्दुकक्रीडा।

अनन्तपुरी> विश्वचषकपादकन्दुकविजेता अर्जन्टीनादलः सौहृदस्पर्धायै ओक्टोबरमासे भारतमागमिष्यति। दलस्य आगमनं दलस्य प्रस्तुतिकर्ता एछ् एस् बी सी नामकसंस्था  गतदिने प्राख्यापयत्। लयणल् मेसी अपि क्रीडकसंघे भविष्यतीति संस्थया निगदितम्। इदानीं केवलं केरलमेव अतिथिरूपेण वर्तते। 

  पूर्वम् अर्जेन्टीना वेनिस्वेलया सह सौहृदस्पर्धायै २०११ तमे वर्षे भारतमाजगाम। तदानीं कोल्कोत्तायामासीत् स्पर्धा। १४ संवत्सराणामनन्तरं विश्वचषकविजेतारः इति परिवेषेणैव मेसी संघश्च आगमिष्यन्ति।

Thursday, March 27, 2025

 सुवर्णोत्पादिका भारतीयनदी। 

   सुवर्णधारा इत्यर्थयुक्ता सुबर्णरेखा नाम भारतीयनदी एव सुवर्णोत्पादनेन प्रसिद्धा अभवत्। जार्खण्ड्, पश्चिमबङ्गदेशः,ओडिसा इत्यादिषु राज्येषु व्याप्य नदी एषा प्रवहति। ४७४ कि. मी आयता एषा नदी भारतस्य 'सुवर्णभण्डागारः' इति नाम्ना विख्याता। जारखण्डस्य राजधान्याः राञ्ज्यात् १६ कि. मी विदूरस्थस्य छोटा नाग्पूर् पीठभूभौ वर्तितस्य नाग्डि नाम ग्रामात् एव एषा नदी उद्भवति । नद्याः तटेभ्यः अनेकवारं शुद्धं सुवर्णं लब्धमस्ति इत्येतत् सुवर्णस्य सान्निध्यं दृढीकरोति। किन्तु नद्यां सुवर्णस्य उद्भवस्थानं कुत्र इति प्रश्नस्य उत्तरम् अज्ञातं भवति। नद्याः उद्भवस्थानभूताः पर्वतप्रदेशाः एव घटनायाः अस्य कारणमिति केचन अभिप्रयन्ति। किन्तु निगमनमेतत् वैज्ञानिकरीत्या न स्थिरीकृतम्। नद्याः तीरे सुवर्णं लभते चेत् तत् स्वायत्तीकर्तुं जनानाम् अधिकारः अपि अस्ति।

 मुण्टक्कै - चूरल्मला पुनरधिवासाभियोजना

मुख्यमन्त्रिणा अद्य शिलान्यासः। 

नूतननगरनिर्माणे वासगृहाणां रूपरेखा 

कल्पट्टा> केरले वयनाट्जनपदे गतवर्षे दुरापन्नेन भूस्खलनेन बन्धुजन-वासस्थानादिकं सर्वं विनष्टानां पुनरधिवासाय प्रशासनेन निर्मीय प्रदीयमानायाः अभियोजनायाः शिलान्यासं अद्य मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। वयनाटस्थे कल्पट्टाप्रदेशे 'एल्सण् एस्टेट्' इत्यत्र ६४ हेक्टर् मिते स्थाने अस्ति नूतनभवनसञ्चयस्य निर्माणम्। 

  पुनरधिवासाभियोजनायां वासगृहाणि, स्वास्थ्यनिलयः, सामाजिकविपणी, आधुनिकी अङ्गनवाटी इत्यादीनि कल्पितानि। दुरन्तातिजीवितेषु प्रतिपरिवाराय सप्त सेन्ट्मिते स्थाने सहस्रचतुरश्रपादमितानां गृहाणां  निर्माणमेव करिष्यति।

Wednesday, March 26, 2025

 उन्मादकं विरुध्य सामान्यजनानां युद्धं 'योद्धाव्' द्वारा। 

एकस्मिन् मासे ३८६५ सन्देशाः; योद्धाद्वारा १४५७; ६३६ संख्याकानि उन्मादकवस्तूनि गृहीतानि।

'योद्धा' नामकं मोबैल् 'आप्' [योद्धाव् इति कैरल्याम्] आह्वयितुं 9497927797 इति चलनदूरवाणीसंख्या।

अनन्तपुरी> केरले उन्मादकवस्तूनि विरुध्य सामान्यजनानां सहयोगेन प्रशासनस्य युद्धाय प्रोत्साहजनकं फलम्। उन्मादकवस्तुविक्रयिणाम् उपयोक्तॄणां च सूचनाः दातुं केरलारक्षकसेनया आविष्कृतं मोबैल् आप् द्वारा  मासत्रयाभ्यन्तरे १४५७ जनैः सूचनाः प्रदत्ताः। मार्च मासे एव ११५७ सन्देशाः आगताः। ९४९७९२७७९७ इति दूरवाणीसंख्यां प्रति मासेनैकेन ३८६५ जनाः आह्वानं कृतवन्तः। सूचनाः लब्ध्वा अन्वेषणे ६३६ प्रकरणेषु उन्मादकवस्तूनि गृहीत्वा प्रक्रमाः स्वीकृताश्च। 

  राज्यस्य शान्तिस्थितिनियमपालनविभागस्य [Law and Order] ए डि जि पी पदीयस्य मनोज् एब्रहामस्य नेतृत्वे अस्य वर्षस्य प्रारम्भे एव आरब्धः उन्मादकविरुद्धविभागः सामान्यजनस्य सहयोगेन नितरां वैभवरूपेण प्रवर्तमानः अस्ति।

 कृष्णसागरे आक्रमणं परित्यज्यते। 

यू एस् माध्यस्थे रूस-युक्रेनसन्धिः।

वाषिङ्टणः> कृष्णसमुद्रेण यातायातं सुगमं सुरक्षितं च  कर्तुं ऊर्जनिलयान् प्रति आक्रमणं निराकर्तुं च रूसराष्ट्रेण युक्रैनेन च सह पृथक् पृथक् सन्धिराविष्कृत इति यू एस् राष्ट्रेण निगदितम्। अनेन रष्यायाः कार्षिकोत्पन्नानि, ऊर्वरकाणि च सुगमतया भौगोलविपणिं प्राप्तुं शक्यते इति 'वैट् हौस्' वक्तृभिः प्रोक्तम्। वर्षत्रयातीतं युद्धं सम्पूर्णं  समापयितुं प्रयत्नः अनुवर्तिष्यते इति च तैः निगदितम्।

  रूस् युक्रैनराष्ट्रयोर्मिथः सौदी अरेब्यायां रियादे कृतायाः चर्चायाः फलं भवति पूर्वोक्तसन्धिः।

 मार् बसेलियोस् जोसफ् बावा वर्यः 'श्रेष्ठकातोलिका' पदे अभिषिक्तः। 

श्रेष्ठ कातोलिकापदे अभिषिक्तः बसेलियोस् जोसफ् बावावर्यः पदचिह्नैः सह।

बय्रूट्> क्रिस्तीयधर्मस्य याकोबाया सुरियानि ओर्तडोक्स् सभायाः उन्नतपौरोहित्यपीठे 'श्रेष्ठकातोलिका'नामके भारतीयः मार् बसेलियोस् जोसफ् बावा वर्यः अभिषिक्तः। लबननराष्ट्रे बय्रूट् नगरस्थे अट्चाने सेन्ट् मेरीस् देवालये सम्पन्ने स्थानारोहणकार्यक्रमे सुरियानिसभायाः परमाध्यक्षः इग्नातियोस् अप्रें  द्वितीयः पार्त्रियार्कीस् बावावर्यः मुख्यकार्मिकः अभवत्। 

   कुजवासरे सायं पञ्चवादने [भारतीयसमयः रात्रौ ८. ३०] आसन् अभिषेकानुष्ठानानि। पञ्चवर्षदशकैः मेत्रापोलीत्ता, कातोलिकाादि पदमूढ्य सभां नीतवतः दिवंगतस्य  श्रेष्ठकातोलिका बसेलियोस् तोमस् प्रथमबावावर्यस्य अनुगामिरूपेणैव केरलजन्मनः अस्य नूतनं स्थानारोहणम्।

Tuesday, March 25, 2025

 गासा आतुरालये इस्रयेलस्य बोम्बाक्रमणं - आतुराः मृताः।

गासा सिटी> दक्षिणगासायां बृहत्तमे आतुरालये नासर् नामके इस्रयेलेन बोम्बाक्रमणं कृतम्। आतुरालये परिचर्यायां वर्तमानाः नैके जनाः मृताः। तेषु एकः हमाससंघटनस्य मुख्यनेता इस्माइल बर्हूमः इति सूच्यते। शस्त्रक्रियानन्तरं परिचर्यमाणः षोडशवयस्कः अपि प्रत्यभिज्ञातः। अनेके जनाः व्रणिताः अभूवन्। 

 नासर् आतुरालयः हमासेन युद्धे कवचरूपेण उपयुज्यते इति सूचनामनुसृत्यैव आक्रमणं कृतमिति इस्रयेलसैन्येन निगदितम्। १७ मासाधिकं यावदनुवर्तमाने युद्धे बहुवारम् अयमातुरालयः आक्रमणाधीनः अभवत्।

 राजीव चन्द्रशेखरः केरलस्य भाजपा अध्यक्षः। 


अनन्तपुरी> केरलराज्ये भा ज पा दलस्य  अध्यक्षरूपेण भूतपूर्वः केन्द्रसहमन्त्री राजीव चन्द्रशेखरः चितः। ह्यः आयोजिते राज्यसमित्युपवेशने तस्य नाम केन्द्रनेतृत्वेन प्रख्यापितं , समित्या ऐककण्ठ्येनाङ्गीकृतं च। 

 के सुरेन्द्रस्य अनुगामिरूपेण राजीव चन्द्रशेखरेण केरल भाजपा नेतव्या इति पूर्णतया  केन्द्रनेतृत्वस्य निर्णयः अस्ति।  रविवासरे  अनन्तपुर्यां सम्पन्ने राजनैतिकदलस्य निर्वाहकसमित्युपवेशने केरलस्य प्रभारिः प्रकाश जावदेकरः नेतृत्वस्य निश्चये अङ्गीकारं सम्प्राप्य राजीवस्य  पत्रिकासमर्पणादिप्रक्रमाः सम्पन्नाः।  तदनन्तरं सोमवासरे राज्यसमित्यां एषः निर्णयः समर्पितः अङ्गीकृतः च। ततः केन्द्रमन्त्री प्रह्लाद जोषेः इतपेषां नेतृजनानां सान्निध्ये नूतनराज्याध्यक्षरूपेण राजीव चन्द्रशेखरः चितः इति प्रख्यापोSपि विधत्तः।

Monday, March 24, 2025

 छत्तीसगढे शिरोमूल्यप्रख्यापिताः अभिव्याप्य २२ मावोवादिनः आत्मसमर्पणं कृतवन्तः। 

बीजपुरं> छत्तीसगढे बीजपुरजनपदे सर्वकारेण आहत्य ११ लक्षं रूप्यकाणि शिरोमूल्यं प्रख्यापिताः ६  अभिव्याप्य २२ मावोवादिनः गतदिने आरक्षकाणां पुरतः आयुधानि समर्प्य आत्मसमर्पिताः अभवन्। 

  आन्ध्रप्रदेश-ओडीशाविभागस्य अधीने प्रवर्तमानाः निरुद्धसंघटने अन्तर्भूताः,  तेलङ्कानाराज्यसमित्यंगाः च एते आत्मसमर्पिताः। छत्तीसगढ़सर्वकारस्य आत्मसमर्पण-पुनरधिवासयोजनामनुसृत्य एते आनुकूल्यार्हाः भवन्ति।

 मार्पापावर्यः स्वस्थः; विश्वासिजनान् अभिवादनं कृतवान्। 

आतुरालयात् प्रतिनिवृत्तः, सप्ताहद्वयस्य विश्रान्तिः।

मार्पापावर्यः विश्वासिजनान् अभिसम्बोधयति। 

रोमः> श्वासकोशे अणुबाधया रोमस्थं जेमेल्लि आतुरालयं प्रविष्टवान् फ्रान्सिस् मार्पापावर्यः स्वस्थो भूत्वा प्रथमतया ह्यः विश्वासिजनान् अभ्यसंबोधयत्। स्वस्य रोगशान्त्यर्थं प्रार्थनां कृतवद्भ्यः  आविश्वं सर्वेभ्यः तेन कृतज्ञता प्रकाशिता। 

 अणुबाधायाः मुक्तः मार्पापावर्यः वत्तिक्कानस्थं स्वभवनं प्रतिनिवृत्तवान्। किन्तु तेन सप्ताहद्वयं यावत् विश्रान्तिः अनुष्ठितव्या इति तस्य वैद्यवृन्देन निर्दिष्टम्।