डो ए जयतिलकः केरलस्य सचिवप्रमुखरूपेण कार्यभारं स्वीकृतवान्।
अनन्तपुरी> केरलस्य ५२ तमसचिवप्रमुखरूपेण डो ए जयतिलकः बुधवासरे कार्यभारं स्वीकृतवान्।
सेवायाः निवृत्तवत्याः सचिवप्रमुखायाः शारदा मुरलीधरस्य स्थाने भवति जयतिलकस्य पदलब्धिः।
इस्रयेले वनाग्निः व्याप्यते।
जरुसलेमः> इस्रयेलराष्ट्रे जरुसलेमस्य समीपे काननाग्निप्रकाण्डे दुरापन्ने आराष्ट्रम् आपत्कालीनता विज्ञापिता। दुरापदं प्रतिरोद्धुं सेना विन्यस्ता।
जीवहानिः न सूचितः। किन्तु धूमश्वसनेन २२ जनानां स्वास्थ्यं क्लिष्टं जातम्। ते परिचर्यायां वर्तन्ते। जरुसलेमस्य पश्चिमे भागे ३० कि मी प्रदेशमधिवसन्तः अपनीताः।
अग्निकाण्टशमनाय अन्ताराष्ट्रसमाजस्य साहाय्यं प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना अभ्यर्थितम्। इटली , क्रोयेष्य इत्यादिभ्यः राष्ट्रेभ्यः विमानानि प्राप्स्यन्तीति नेतन्याहुना निगदितम्।
जाति जनगणनायां केन्द्रसर्वकारः वशीभवति।
सामाजिकजनगणनेन सह विधातुं मन्त्रिमण्डलस्य निर्णयः।
नवदिल्ली> कोण्ग्रसदलादिभिः विपक्षीयदलैः चिरकालं यावदपेक्षिता जात्याधारितां जनगणनां कर्तुं केन्द्रसर्वकारस्य निर्णयः अभवत्। आगामिन्या सामाजिकजनगणनया सह सम्पूर्णं जाति जनगणनमपि विधातुं गतदिने सम्पन्ने केन्द्रमन्त्रिमण्डलस्य उपवेशने निर्णीतम्। किन्तु आगामिनी सामाजिकजनगणना कदा भविष्यतीति सर्वकारेण न स्पष्टीकृतम्।
अन्तिमा जनसंख्यागणना २०११ तमे वर्षे सम्पन्ना। दशसु वर्षेषु क्रियमाणा जनगणना २०२१ तमे वर्षे कोविड्महामारेः व्यापनेन न विधत्ता।
विष़िञ्ञं अभियोजना श्वः राष्ट्राय समर्पयिष्यते।
अनन्तपुरी> केरलस्य विकासोद्गमनाय कारणभूता विष़िञ्ञं वाणिज्यमहानौकाश्रयाभियोजना श्वः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पयिष्यते। शुक्रवासरे प्रभाते एकादशवादने अन्ताराष्ट्र महानौकाश्रयस्य औद्योगिकमुद्घाटनमेव प्रधानमन्त्रिणा निर्वक्ष्यते। एतावदाभ्यन्तरे महानौकाश्रयस्य प्रवर्तनं सम्पूर्णतया आरब्धमस्ति।
अद्य सायं अनन्तपुरीं प्राप्तवान् प्रधानमन्त्री राजभवने उषित्वा श्वः प्रभाते १०. ३० वादने विष़िञ्ञं प्राप्स्यति। ततः 'एम् एस् सि सेलस्टिनो' नामिकां मातृमहानौकां स्वीकरिष्यति। अनन्तरं महानौकाश्रयं सम्पूर्णं सन्दर्श्य उद्घाटनसमारोहे भागं करिष्यति। मुख्यमन्त्री,राज्यपालः, केन्द्र महानौकाश्रयमन्त्री, केरलीयाः केन्द्रमन्त्रिणः इत्यादयः समारोहेSस्मिन् भागं स्वीकरिष्यन्ति।
नियन्त्रणरेखायां भुषुण्डिप्रयोगः - भारतेन पाकिस्थानाय तर्जनीभर्त्सनसूचनां प्रादात्।
नियन्त्रणरेखायां प्रकोपनं विना अनवरतं गुलिकाप्रक्षेपणं कृतवते पाकिस्थानाय भारतेन पूर्वसूचनां प्रादात्। उभयराष्ट्रयोः उन्नतसैनिकाधिकारिणौ परस्परं दूरभाषिण्यां भाषणमकुरुताम्। पहल्गाम् भीकराक्रमणानन्तरं प्रतिदिनं प्रचोदनां विना नियन्त्रणरेखायां गोलिकाक्षेपण स्थगनव्यवस्था पाकिस्थानेन उल्लङ्खिता आसीत्। तदनुवर्त्य बुधवासरे भारतेन पाकिस्थानाय सुशक्ता तर्जनीभर्त्सन सूचनां प्रादात्।
शिक्षकप्रशिक्षणकेन्द्रेण अभिमुखीकरणकार्यक्रमः आयोज्यते।
वार्ताहर:- कुलदीपमैन्दोला।
देशस्य उच्चशिक्षासंस्थासु सेवार्थं शिक्षकाणां प्रशिक्षणार्थं विश्वविद्यालयानुदानायोगस्य अधीनं "मालवीय-मिशन्-शिक्षकप्रशिक्षण-केन्द्रं" इत्यस्मिन् हेमवतीनन्दनगढ़वालविश्वविद्यालये, श्रीनगरगढ़वाले, उत्तराखण्डराज्ये, २२ एप्रिल् २०२५ दिनाङ्कतः ३ मई २०२५ दिनांकपर्यन्तं अन्तर्जालमाध्यमेन राष्ट्रियशिक्षानीतिः २०२० इत्यस्मिन् केन्द्रित: अभिमुखीकरणकार्यक्रम: आयोज्यते।
केन्द्रस्य कार्यवाहकनिदेशकः डॉ. राहुलकुंवरसिंहेन उक्तं यत् अस्मिन् कार्यक्रमे चतुर्षु राज्येषु स्थितानां त्रिंशत् शिक्षकाणां सहभागिता भविष्यति।
काश्मीरे विनोदपर्यटनकेन्द्राणि पिनद्धानि।
श्रीनगरं> पहल्गाम भीकराक्रमणस्य अनुबन्धतया जम्मु-काश्मीरे वर्तमानेषु ८७ पर्यटनकेन्द्रेषु ४८ संख्यकानि सर्वकारेण पिनद्धानि। किन्तु गुल्मार्गः, दाल् तटाकः इत्यादीनां सुरक्षाक्रमीकरणानि वर्धापितानि।
पहल्गामे आक्रमणं कृतवन्तः भीकराः इदानीमपि निलीनाः वर्तन्ते। भीकरान् सजीवं ग्रहीतुम् आदेशः कृतः।
अद्य विश्वश्रमिकदिनम्।
कोच्ची> मेय् १ विश्वश्रमिकदिनत्वेन लोके सर्वत्र आमन्यते। इदानीन्तनकाले सामान्यजनैः अनुभूयमानाः प्रयेण सर्वे जनाधिपत्याधिकाराः संघटितश्रमिकवर्गस्य प्रयत्नफलेन जाताः। साप्ताहिकविरामदिवसः, अष्ट होराणां वृत्तिः, प्रौढजीवनावश्यकं वेतनं, स्वास्थ्यपरिरक्षानिगमः, सार्वत्रिकमतदानाधिकारः इत्यादीनि तेषु कानिचन भवन्ति।
अस्मिन् प्रकरणे अवधेयास्पदं यत् विश्वस्मिन् यत्रकुत्रापि न केवलं सामान्यजनानाम् अपि तु सम्पन्नवर्गस्यापि दैनन्दिनजीवनं श्रमिकाणां प्रयत्नफलाश्रितं भवति। भारतस्य अवस्थापि तादृशी। कार्षिक-निर्माण-स्वास्थ्य-स्वच्छताद्येषु मण्डलेषु वृत्तिं कुर्वतां कर्मकराणां सेवा निस्तुला वर्तते। सर्वेभ्यः श्रमिकेभ्यः 'सम्प्रतिवार्तायाः' मेय् दिनस्य शुभाशंसाः।
श्रीशङ्करजन्मदिनोत्सवः
कालट्यां महापरिक्रमः मेय् द्वितीयदिनाङ्के।
कालटी> जगद्गुरु श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्याम् आरब्धः। आदिशङ्कर जन्मदेश विकसनसमित्याः नेतृत्वे विविधाः कार्यक्रमाः एप्रिल् ३०, मेय् १, २ दिनाङ्केषु आयोज्यन्ते। प्रभाषणानि, युवजनसंगमः, भजनसन्ध्या, सन्यासिसंगमः, महापरिक्रमः, नदीपूजा, सांस्कृतिक सम्मेलनम् इत्येते कार्यक्रमाः सन्ति।
जगद्गुरोः कुलदेवतामन्दिरे कनकधारायज्ञः सम्पन्नः। शङ्करजयन्तिदिने सम्पत्स्यमाने मातृवन्दनमिति कार्यक्रमे ६० वयातीताः ३२ मातरः समादरिष्यन्ते।
कानडायां मार्क् कार्णी प्रशासनाय जनाङ्गीकारः।
ओट्टावा> कानडायां ३४३ सदस्ययुतां जनप्रतिनिधिसभां प्रति सम्पन्ने सामान्यनिर्वाचने अनुस्यूततया चतुर्थवारं लिबरल् पार्टी नामकं दलम् अतुल्यं विजयं प्राप। अनेन विजयेन जस्टिन् ट्रूडो इत्यस्य अनुगामिरूपेण ह्रस्वकालीनं प्रधानमन्त्रिपदमारूढः मार्क् कार्णी वर्षचतुष्टयम् अनुवर्तिष्यते।
यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य शुल्कभीषां विरुध्य स्वदेशीयतां प्रज्वाल्य कृते निर्वाचने लिबरलीयैः १६८ स्थानानि प्राप्तानि।